SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ८५६ शुक्रनीतिः भृतिप्रकाराः व्यवहारकाण्डम् कार्यमाना कालमाना कार्यकालमितिस्त्रिधा । भृतिरुक्ता तु तद्विज्ञैः सा देया भाषिता यथा ॥ अयं भारस्त्वया तत्र स्थाप्यस्त्वेतावतीं भृतिम् । दास्यामि कार्यमाना सा कीर्तिता तन्निदेशकैः ॥ वत्सरे वत्सरे वाऽपि मासि मासि दिने दिने । (१) शुनी. २।३८५ - ३९१. एतावतीं भृतिं तेऽहं दास्यामीति च कालिका ।। एतावता कार्यमिदं कालेनापि त्वया कृतम् । भृतिमेतावतीं दास्ये कार्यकालमिता च सां ॥ न कुर्याद् भृतिलोपं तु तथा भृतिविलम्बनम् । अवश्यपोष्यभरणा भृतिर्मध्या प्रकीर्तिता ॥ परिपोष्या भृतिः श्रेष्ठा समान्नाच्छादनार्थिका । भवेदेकस्य भरणं यया सा हीनसंज्ञिका । यथा यथा तु गुणवान् भृतकस्तद्भुतिस्तथा ॥
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy