________________
८५०
व्यवहारकाण्डम्
सदोषस्वामिसंबन्धी विधिः । सदोषवाहकविधिश्व । अनयन्भाटयित्वा तु भाण्डवान्यानवाहने । दाप्यो भृतिचतुर्भागं सर्वामर्धपथे त्यजन् ॥ (१) भाटयित्वा भाटके गृहीत्वा, भाण्डवान् स्वामी, यानवाहने अश्वादिवृषादिरूपे ।
व्यक. १५९
(२) भाटकगृहीतेन यानादिना भाण्डनेतारं प्रत्याहअनयन्निति । यानं शकटादि । वाहनमश्वादि । ते भाटयित्वा प्रापणादिकार्योपाधिकपरिक्रयं कृत्वा सहायार्थ परिक्रीतं यद्यपि न गृह्णाति तथापि भृतिचतुर्भागं मूल्यचतुर्थांशं दाप्य इत्यर्थः । अर्धपथे च सर्वदापनवचनात्ततो न्यूनपथे भाटकाहृतयानानि त्यजन् त्रिभागद्विभागकल्पनया दाप्य इत्यूह्यम् । * स्मृच. २०५
(३) एतावद् ददामीति नादयित्वा देशान्तरमुद्दिश्यानयन् भाण्डं स्वामी शकटं बलीवर्द वा परिच्छिन्नाया भूतेश्वतुर्भागं दाप्यः । अर्धपथे मृत्यं त्यजन् स्वामी सर्वो स्वपरिभाषितां भृतिं दाप्यः । नाभा ७।६ | अनयन् वाहकोऽप्येवं भृतिहानिमवाप्नुयात् । द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नमाचरन् ॥ (१) वाहको भाटकग्रहीता । व्यक. १५९ (२) विघ्नाचरणमङ्गीकृतकर्माकरणमेवात्र विवक्षितम् । न पुनरासेधादिकम् ।
स्मृच. २०४
(३) वहनार्थं भृतो वाहकोऽपि यदि न नयेद् भृतिषड्भागं दाप्यः । गृहीत्वा भृर्ति प्रस्थानकाले विघ्नमा
* व्यप्र. स्मृचवत् ।
(१) नासं. ७ ६ भाट (नाद) भाण्डवान् (भाण्डं वा); न स्मृ. ९७ सर्वा (सम): Vulg. (अददत्कारयित्वा तु दण्डधान्यादिकं धनम् ); अप. २।१९८ त्यजन् (त्यजेत् ); व्यक. १५९ सर्वा (सर्व); स्मृच. २०५; विर. १६४ तिच (तेश्व) सर्वा (सर्व); पमा. ३३० तिच (तेश्च); चन्द्र. ५३ विरवत् व्यप्र. ३२८; व्यउ. ८७-८८ भाट (भाण्ड) दाप्यो (यथा); ब्यम.९३ भाण्डवान् (भाण्डं च ); विता. ६५२ भाट (भार) तिच (तेश्व); समु. १०२ व्यकवत् .
( २ ) नासं. ७/९; नास्मृ. ९१८: Vulg. ( अनयंश्चापि तद्देशं भृतिहानिमवामुयात् ); अप. २।१९८ पू.; व्यक. १५९;स्मृच.२०४ उत्त.; विर. १६४ निमवा (निं समा) पू.; पमा, ३३० पू.; चन्द्र. ५४ पू.; व्यप्र. ३२७ उत्त; ससु. १०२.
चरन् अभिप्रेतवेलायां नोपतिष्ठेत चेदित्यर्थः । द्विगुणां भृतिं दाप्यः । नाभा. ७१९ भृतिषड्भागमाभाष्य पथि युग्यकृतं त्यजन् । अददत्कारयित्वा तु सोदयां भृतिमावहेत् ॥
(१) यदीयैरश्वबलीवर्दादिभिर्युग्यं भाण्डं नीयते स युग्यभृतः । तं प्रति वोढव्यद्रव्यषड्भागं भृतित्वेनाऽऽभाष्य न ददाति तं च त्यजति तदा सोदयां भृतिं तस्मै स्वामी दद्यादित्यर्थः । अप. २।१९८
(२) यो भृतिमाभाष्य गच्छामीति प्रतिज्ञाय पथि पण्यं भृतभाण्डादि त्यजेत् । असाधुत्वात् भृतेः षड्भागं दाप्य इति प्रथमखण्डार्थ: । स्वाम्यदभृत्ये व्रजति पथि भृतिमददत्सोदयां भृतिमावहेदिति द्वितीयखण्डार्थः । व्यक. १५९
(३) विशिष्टमध्वानमुद्दिश्यैतावतीं भृतिं ददामीति यद् युग्यादिवाहनार्थं कृतं भृतको यदि मार्ग आरब्धे गन्तुं केनचिद् भागेन तं त्यजेत् तस्या भृतेः षड्भागं दाप्यः । अददत् कारयित्वा कर्म भूतिं न ददाति चेद्, एवमित्याभाष्येत्येतदपेक्ष्यते, सवृद्धिकां भृतिं दाप्यः ।
नाभा. ७/८
भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नष्टं स्याद्दैवराजकृतादृते ॥
(१) भाण्डं भृतकव्यापार्यमाणं द्रव्यं, व्यसनं विघटनं, वाहकदोषतः भृतकजनदोषतः । विर. १६२ (२) वाहकदोषेण सदाप्रत्यवेक्षण प्रमादादिना व्यसनमागच्छेद् विपद्येत ।
नाभा. ७।१०
(१) नासं. ७/८ सो... वहेत्. (कर्मैवं सोदयां भृतिम् ); नास्मृ. ९/६ भाष्य पथि ( दद्यात्पण्यं); अप. २ १९८ कृतं त्यजन् (भृतं त्यजेत् ); व्यक. १५९ युग्यकृतं ( पण्यं भृतं) दयां (दयं) वहे (हरे); विर. १६४ युग्यकृतं (युग्मं परि).
(२) नासं. ७।१० नष्टं स्याद् ( नश्येत्तु); नास्मृ. ९/९ दाप्यो यत्तत्र नष्टं ( स दाप्यो यत्प्रणष्टं); मिता. २।१९७ नासंवत्; व्यक. १५८ यत्तत्र ( यत्र तु ); स्मृच. २०३ नासंवत् विर. १६२; पमा. ३२७; स्मृचि. २० नासवत् ; नृप्र. २५ नासंवत् ; चन्द्र.५३ तत्र (दत्र); व्यप्र. १२७ देव (देव); व्यउ.८७ नासंवत् वित्त. ११०६ समु. १०२. नासंवत्,