________________
८३६
व्यवहारकाण्डम्
वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः । राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ॥ स्वतन्त्रतां त्यजतामत्यन्तपारार्थ्य भजतामित्यर्थः । प्रतिलोमत इत्येतत्स्वधर्मपरित्यागिभ्यो यतिभ्योऽन्यत्र द्रष्टव्यम् । स्मृच. १९७
ब्राह्मणेतरेष्वेव आपदि समवर्णदास्यम् वर्णेऽपि विप्रं तु दासत्वं नैव कारयेत् । शीलाध्ययनसंपन्नस्तदूनं कर्म कामतः ॥ (१) शीलाध्ययनसंपन्नो ब्राह्मणस्तदूनं शीलाध्ययनन्यूनं ब्राह्मणं कर्म कारयेत् इत्यर्थः । व्यक. १५४
(२) 'दारवद्दासते 'ति वचनाद्विप्रस्य सवर्णप्रतिदासत्वमापदि प्राप्तमिवाभातीति बुद्धया तन्निषेधार्थमाहसमवर्णोऽपीति । यस्मात्परोपकारः कर्तव्यः तस्मादूनं कर्म मध्यमोत्तमकर्मव्यतिरिक्तमपि कर्म कामतो वेतनमन्तरेण स्वेच्छया परहितार्थमपरः कुर्यादिति ।
(३) शीलाध्ययनसंपन्नं ब्राह्मणं न ध्ययनन्यूनं ब्राह्मणं कर्म कारयेत् ।
+स्मृच.१९८ तदूनं शीलाविर. १५२ तत्रापि नाशुभं किंचित् प्रकुर्वीत द्विजोत्तमः । ब्राह्मणस्य हि दासत्वान्नृपतेजो विहन्यते ||
+ ब्यप्र. स्मृचवत् ।
(१) अप. २।१८३; व्यक. १५३१ स्मृच.१९७ वर्णाना (वर्णक्र); विर. १५२; पमा. ३४११ सवि. २९५ नारद: : २९६ पू.; व्यप्र. ३१७ हि (च); व्यम. ९१; विता. ६३३ पू. : ८०८; समु. ९९.
(२) अप. २।१८३ वर्णे (वर्णो ) पन्न: (पन्नं); व्यक. १५३१५४ कामत: (कारयेत् ); स्मृच. १९८ वर्णे (वर्णो ) पन्न: (पन्ने); विर. १५२ पन्न: (पन्न ) ; पमा. ३४२ सम... प्रं तु (असवर्णे तु विप्रस्य ) शीला ( श्रुता) पन्न: (पन्न ); दकि. ४९ पू.; विचि. ७२ वर्णेऽपि विप्रं तु (वर्णं तु विप्रस्तु) पन्नः (पन्नं); सवि. २९५ ऽपि (तु) पू., नारदः; व्यप्र. ३१८ समवर्णेऽपि (सवर्णोऽपि हि ); व्यम. ९१ समवर्णेsपि विप्रं ( सवर्णेऽपि तु विप्रे) पन्न: ( पन्ने ) ; विता. ६३४ समवर्णेऽपि (सवर्णोऽपि तु ) तदूनं (न ह्यूनं) न: (न्ने); सेतु. १६५ वर्णेऽपि विप्रं तु ( वर्णं तु विप्रस्तु); समु. ९९; विव्य ४० वर्णेऽपि विप्रं तु (वर्णं तु विप्रस्य ).
(३) अप. २।१८३ हि (तु); व्यक. १५४; स्मृच. १९८१ विर. १५२, पमा. ३४२ पू. विचि.७२; व्यप्र. ३१८
(१) तत्रापि नाशुभं विण्मूत्रशोधनादिकं कास्ये दित्यर्थः ।
व्यक. १५४ (२) स्वकीयेच्छया विशिष्टपुरुषोपकारार्थं तत्कर्म कुर्वन्नपि ब्राह्मणो नाशुभं कर्म कुर्यादिति ।
+ स्मृच. १९८
क्षेत्रविट्शूद्रधर्मस्तु समवर्ण कदाचन । कारयेद्दासकर्माणि ब्राह्मणं न बृहस्पतिः ।।
(१) क्षत्रविट्शूद्रधर्मस्त्विति क्षत्रियवैश्यशूद्राणां तु समानवर्णानामपि सावर्ण्येऽपि कदाचिद्दासस्वामिभावो भवेत् । ब्राह्मणं तु समानवर्ण समानगुणं न कारयेदिति बृहस्पतिर्मन्यते इत्यर्थ इति पारिजातहलायुध - स्वरसः । क्षत्रविट्शूद्रधर्मस्तु ब्राह्मणो ब्राह्मणं दासकर्माणि न कारयेदिति विज्ञानेश्वरस्वरसः । सर्वश्चायमर्थ उपग्राह्य एवेति । * व्यक. १५४
(२) अत्र ('ब्राह्मणस्य हि दासत्वात् इति पूर्वोक्तवाक्यमन्तर्भाव्य) वाक्यत्रयं तत्राद्यवाक्यस्य प्रातिलोम्येन दासत्वे कारिते कारयितुस्ते जोहानिर्जायत इत्यर्थः । दासत्वं तु न संकरजातिधर्म इति द्वितीय वाक्यस्यार्थः । दास्यवद्दासकर्माण्यपि सर्वथा ब्राह्मणं न कारयेत् इति समवर्णोऽपीति तृत्तीयवाक्यस्यार्थ इति न किंचित्पुनरुक्तमिव । स्मृच. १९८
दासकर्माणि "विण्मूत्रमार्जनं चैव नग्नत्वपरिमर्दनम् । प्रायो दासीसुताः कुर्युर्गवादिग्रहणं च यत् ॥ नग्नत्वपरिमर्दनं परिधावनं नग्नत्वे सति, परिमर्दनं संवाहन मिति पारिजातः । व्यक. १४९
+ व्यप्र. स्मृचवत् ।
* विवादरत्नाकरे 'विज्ञानेश्वर' इत्यत्र 'लक्ष्मीधर' इति पठितम् । शेषं व्यकवत् ।
किंचित् (कर्म) पू.; व्यम. ९१ पू.; विता. ६३४ पू. सेतु. १६५; समु. ९९.
(१) व्यक. १५४; स्मृच. १९८ वर्ण (वर्णे); विर. १५२; विचि. ७२; सेतु. १६५; समु.९९ स्मृचवत्.
(२) व्यक. १४९ त्रोन्मा (त्रोत्स); विर. १४४; सेतु. १५९ त्रोन्मार्जनं (त्रोत्सर्जने).