SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ अभ्युपेत्याशुश्रूषा व्यवहारं शूद्रं विक्रयाधानं नयतः स्वजनस्य द्वादशपणो दण्डः । वैश्यं द्विगुणः । क्षत्रियं त्रिगुणः । ब्राह्मणं चतुर्गुणः । परजनस्य पूर्वमध्यमोत्तमवधा दण्डाः तृश्रोतॄणां च । म्लेच्छानामदोषः प्रजां विक्रेतुमाधातुं वा । न त्वेवार्यस्य दासभावः । अथवार्यमाधाय कुलबन्धन आर्याणामापदि निष्क्रयं चाधिगम्य बालं साहाय्यदातारं वा पूर्व निष्क्रीणीरन् । सकृदात्माधाता निष्पतितः सीदेत् । द्विरन्येनाहितकः । सकृदुभौ परविषयाभिमुखौ । वित्तापहारिणो वा दासस्यार्यभावमपहरतो Sirus: । निष्पतितप्रेतव्यसनिनामाधाता मूल्यं भजेत । प्रेतविण्मूत्रोच्छिष्टग्राहणमाहितस्य नग्नस्नापनं दण्डप्रेपणमतिक्रमणं च स्त्रीणां मूल्यनाशकरम् | धात्रीपरिचारिकार्धसीतिकोपचारिकाणां च मोक्षकरम् । सिद्धमुपचारकस्याभिप्रजातस्य अपक्रमणम् । धात्री माहितिकां वाकामां स्ववशामधिगच्छतः पूर्वः साहसदण्डः, परवशां मध्यमः । कन्यामाहितिकां वा स्वयमन्येन वा दूषयतः मूल्यनाशः शुल्कं तद्विगुणञ्च दण्डः । आत्मविक्रयिण: प्रजामार्यां विद्यात् । आत्माधिगतं स्वामि कर्माविरुद्धं लभेत, पित्र्यं च दायम् । मूल्येन चार्यत्वं गच्छेत् । तेनोदरदासाहितकौ व्याख्यातौ । प्रक्षेपानुरूपचास्य निष्क्रयः । दण्डप्रणीतः कर्मणा दण्डमुपनयेत् । प्राणो वाहृतः कर्म कालानुरूपेण मूल्याधैन वा विमुच्येत । गृहजातदायागतलब्धक्रीतानामन्यतमं दासनाष्टवर्षं विवन्धुमकामं नीचे कर्मणि विदेशे दासीं वा सगर्भामप्रतिविहितगर्भभर्मण्यां विक्रयाधानं नयतः पूर्वः साहसदण्डः क्रेतृश्रोतॄणां च । दासमनुरूपेण निष्क्रयेणार्यमकुर्वतो द्वादशपणो दण्डः । संरोधश्वाकारणात् । दासद्रव्यस्य ज्ञातयो ८१७ दायादाः । तेषां अभावे स्वामी । स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात् । गृह्या चेत् कुटुम्बार्थचिन्तनी, माता भ्राता भगिनी चास्याः अदासाः स्युः । दासं दासीं वा निष्क्रीय पुनर्विक्रयाधानं नयतो द्वादशपणो दण्डः अन्यत्र स्वयंवादिभ्यः । इति दासकल्पः । दासकर्मकरकल्प इति सूत्रम् । दासाः गर्भदासाः कर्मकराः कर्षकगोपालादयः तेषां कल्पः आधानविक्रयादिविधानं उच्यते इति सूत्रार्थ: । 'पतिमत्या पुत्रवत्या च स्त्रिया दासाहितकाभ्याम्' इति विवादपदनिबन्धे मनुष्याणामाधानमुक्तम् । विक्रीतक्रीतानुशये च विक्रय उक्तः । तत्र क आधातव्यो विक्रेतव्यो वेत्येतदधुनाभिधीयते । उदरेत्यादि । उदरदासवर्ज अशननिरुपायोऽन्नाच्छादनदानेन रक्ष्यमाण उदरदासः तद्वर्ज, आर्यप्राणं आर्यजीवितम् । तृश्रोतॄणां च क्रेतॄणां शूद्रादिं मूल्यदानेन स्वीकुर्वतां तत्साक्षिणां च । आपत्कल्पमाह – अथवेति । कुलबन्धने कुलस्य कृच्छ्रप्राप्तौ, आर्याणामापदि बहूनामार्याणां वित्त च, आर्य आधाय आपन्निवृत्यपेक्षितधनग्रहणेन ध आहितं कृत्वा न तु विक्रीय, निष्क्रयं चाधिगम्य धनिकप्रत्यर्पणीये धने हस्तप्राप्ते सति, बालं आहितपूर्व कुमारं साहाय्यदातारं वा स्वयमाधीभावेन कृतोपकारमबालमपि वा पूर्व निष्क्रीणीरन् प्रथमं धनं दत्वा प्रत्यानयेयुः शान्तविपदां तन्निष्क्रयणमेव प्रथमानुष्ठेयं कृत्यमित्यर्थः । सकृदात्माधाता निष्पतितः सीदेदिति । धनग्रहणेन स्वयमेवात्मानमाधिं कृत्वा धनिकसकाशात् सकृदपसृतश्चेत् पुनर्धनिकमुपगन्तुं नार्हेत्, सद्य एव तदृणं निर्यातयेचेत्यर्थः । द्विरिति । अन्येनाहितकः, द्विः, निष्पतितः सीदेत् । सकृदिति । उभौ आत्माधातान्याहितकश्च सकृत् परविषयाभिमुखौ परविप्रयगामिनौ सीदेतामिति विपरिणतसंबन्धः | 1 प्रेतविण्मूत्रोच्छिष्टग्राहणमिति । आदितस्य प्रेतादिग्राद्दणं, स्त्रीणां आहितानां, नग्नस्नापनं विवस्त्रपुरुषस्नापनं
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy