________________
८१४
व्यवहारकाण्डम्
परिचर्या नृत्यकर्म
'यो वै ब्राह्मणं वा शंसमानोऽनु चरति क्षत्रियं वायं मे दास्यत्ययं मे गृहान् करिष्यतीति यो वै तं वाद्येन वा कर्मणा वाभिरिराधयिषति तस्मै वै स देयं मन्यतेऽथ य आह किं नु त्वं ममासि यो मे न ददासीतीश्वर एनं द्वेष्टोरीश्वरो निर्वेदं गन्तोस्तस्मान्नोपतिष्ठेतैतदित्त्वेवैष एतं याचते यदिन्द्वे यज्जुहोति तस्मान्नोपतिष्ठेत || अथ यस्मादुपैव तिष्ठेत । उत वै याचन्दातारं लभतऽएवोतो भर्ता भार्य नानुबुध्यते स यदैवाह भार्यो वै तेऽस्मि बिभृहि मेत्यथैनं वेदाथैनं भार्यं मन्यते तस्मादुपैव तिष्ठेदमित्तु समस्तं यस्मादुपतिष्ठेत ।
* ते संप्रपद्यन्ते । अध्वर्युश्च यजमानश्चामीश्च प्रतिप्रस्थाता चोन्नेताथ योऽन्यः परिचरो भवत्युभे द्वारेsपिदधति रक्षोभ्यो ह्यविभयुः । दासीदानम्
उँदवसानीयाया ँ सँ स्थितायाम् । चतस्रश्च जाया: कुमारीं पञ्चमीं चत्वारि च शतान्यनुचरीणां यथा समुदितं दक्षिणां ददति ।
दास्यम्
सोहं भगवते विदेहान्ददामि मां चापि सह दास्यायेति ।
परिचर्या शूद्रस्य जन्मतो धर्मः
सं पत्त एव प्रतिष्ठाया एकविशमसृजतं तमनुष्टुप् छन्दोऽन्वसृज्यत न काचन देवता शूद्रो मनुष्यस्तस्माच्छूद्र उत बहुपशुरयज्ञियो विदेवो हि न हि तं काचन देवताऽन्वसृज्यत तस्मात् पादावनेज्यन्नाति वर्द्धते पत्तो हि सृष्टस्तस्मादेकविशस्तोमानां प्रतिष्ठा प्रतिष्ठाया हि सृष्टस्तस्मादनुष्टुभं छन्दा सि नानु व्यूहन्ति ।
यस्मात् विदेवः तस्माच्छूद्रः पादावनेज्यं त्रैवर्णि कानां पादप्रक्षालनरूपं कर्मातिक्रम्य न वर्द्धते, एतदितरशुश्रूषोपलक्षणं द्विजातिशुश्रूषातिरिक्तं किञ्चिदपि 'धर्मं नानुतिष्ठेदित्यर्थः । तथा च स्मर्यते - 'शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते । अन्यथा कुरुते किञ्चिद्भवेतत्तस्य निष्फलमिति' ।
तासा.
दास्यो धनम्
सं होवाच । देवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति । स होवाच । विज्ञायते हास्ति हिरण्यस्थापात्तं गोऽअश्वानां दासीनां प्रवराणां परिधानानां मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति स वै गौतम तीर्थेनेच्छासाऽइत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्वऽउपयन्ति ॥
मा रामाः सरथाः सतूर्या नहीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयख नचिकेतो मरणं मानुप्राक्षीः ॥
(१) शत्रा. २।३।४।६-७. (२) शब्रा. ४।३।५/९. (३) शब्रा. १३।५।४।२७. (४) शत्रा. १४ । ७।२।३०. (५) शत्रा. १४।९।१।१-१०. (६) कड. १।१।२५.
दासीदानम्
* यं कामयेतैकराजः स्यान्नास्य चक्रं प्रतिहन्येतेत्येकवृषेणाभिषिञ्चेदभिषेक्त्रे दद्याद् ग्रामवरं सहस्रं तदधीनश्च भवेत् । भृत्यः प्रथमं भोजनीय:
दासीशत
भृत्यातिथिशेषभोजी काले दारानुपेयात् ।
दासः दासी धनम्
प्रवृतोश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते । गो अश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्य क्षेत्राण्यायतनानीति ॥ अन्नार्थं परिचर्या
" श्रेष्ठिनि संवशेयुरपि विद्विषाणाः एवमेवैत च्छ्रेष्ठिनो वशेयान्नमन्नस्यानुचर्याय क्षमन्ते ॥
दासनिरुक्तिः
दासो दस्यतेरुपदासयति कर्माणि । उपदासयति उपक्षपयति कृष्यादीनि कर्माणि । दुभा. २।१७
(१) ताबा.६ । १ । ११. (३) साबा. ११३१६.
(२) साबा.३।५।३. (४) छाउ. ५।१३।२. छाउ ७।२४।२. (६) गोबा. २/५/९. (७) नि. २।१७