________________
अभ्युपेत्याशुश्रूषा
८११
धूमन्त आरूढाभिर्वधूभिस्तद्वन्तो दशैतत्संख्याका | प्रति साधिरुक्माभरणा सती वि नीयते । तां कन्यां मां रथासो रथा उपास्थुः । उपस्थिताः ।
ऋसा.
ऋसा.
द्वैया" अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं संराट् । अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥
अधुना भरद्वाजः स्वस्मा अभ्यावर्तिना दत्तं धनजातमनये प्रकथयति । हे अग्ने मघवा धनवान् प्रभूतदानो वा सम्राट् राजसूययाजी चायमानश्चयमानस्य पुत्रोऽभ्यावयैतदाहृयो राजा रथिनो रथसहितान्वधूमतः स्त्रीयुक्तान् द्वयान्मिथुनभूतान् विंशतिं विंशतिसंख्याकान् गाः पशून् मह्यं ददाति । प्रायच्छत् । पार्थवानां पृथोवैशजस्याभ्यावर्तिनो राज्ञः संबन्धिनी । पूजार्थं बहुवचनम् । इयं दक्षिणा दुर्नशा केनापि नाशयितुमशक्या भवति ।
ऋसा.
द्वे नप्तुर्देववतः शते गोर्खा रथा वधूमन्ता सुदासः । अर्हन्न पैजवनस्य दानं होतेव सद्म पर्येमि रेभन् ॥
देववतो राज्ञो नप्तुः पौत्रस्य पैजवनस्य पिजवनपुत्रस्य सुदासो राज्ञो गोर्गवां द्वे शते वधूमन्ता वधूसंयुक्तौ द्वाद्वौ रथा रथौ च देयं दानं दानभूतान् रेभन् इन्द्रं स्तुवन् अत एवान् योग्योऽहं वसिष्ठो हे अने सद्म यशगृहं होतेव वषट्कर्तेव पर्येमि । अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् । मंहिष्ठो अर्यः सत्पतिः ।
ऋसा.
इदमादिकेन प्रगाथेन त्रसदस्योदनमृषिः प्रशंसति । पौरुकुत्स्यः पुरुकुत्सपुत्रस्त्रसदस्युर्मे मह्यं वधूनां पञ्चाशतमदात् । दत्तवान् । कीदृशः । मंहिष्ठो दातृतमोऽर्योऽभिगन्तव्यः स्वामी वा सत्पतिः सतां श्रेष्ठानां स्तोतॄणां पालयिता । अधस्या योषणा मही प्रतीची वशमश्व्यम् । अधिरुक्मा वि नीयते ॥
ऋसा.
अधुना या सा योषणा योषा राज्ञा प्रदत्ता मही महती पूज्या प्रतीच्यस्मदभिमुख्यश्व्यमश्वपुत्रं वशं मां (१) ऋसं. ६।२७/८ (२) ऋसं. ७ । १८ । २२; शाश्रौ. १६।११।१५ बुदे. ५/१६२. (३) ऋसं. ८।१९।३६; बृदे. ६।५१. (४) ऋसं. ८ । ४६ । ३३.
प्रत्यानयन्तीत्यर्थः । पळवा अतिथिग्व इन्द्रोते वधूमतः । सचा पूतक्रतौ सनम् ॥
आतिथिग्व इन्द्रोते पूतक्रतौ शुद्धप्रज्ञे शुद्धकर्मोपेते वा तस्मिन्वधूमतो वधूभिर्वडवाभिस्तद्वतः पडश्वान् सचर्क्षाश्रमेधयोः पुत्राभ्यां दत्तेनाश्वादिधनेन सचा सह सनम् । लब्धवानस्मि ।
ऋसा.
कर्मकरस्वरूपम्
हिन्वानासो रथा इव दधन्विरे गभस्त्योः । भरासः कारिणामिव ॥
सोमा रथा इव यथा रथास्तथा हिन्वानासो हिन्वाना यागदेशं प्रति गच्छन्तो भरासो भराः कारिणामिव यथा भारवाहिना बाह्वोर्धयन्ते तथा गभस्त्योर्ऋत्विजां बाह्वोः । गभस्ती बाहू इति बाहुनामसु पाठात् । दधन्विरे । धीयन्ते ।
ऋसा.
ર્
ऊढवधूदासी रैभ्यासीदनुदेयी नाराशंसी न्योचनी । सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम् । रैभी । रैभ्यः काश्चनर्चः । सा रैभ्यनुदेयी आसीत् । दीयमानवधूविनोदनायानुदीयमाना वयस्यासीत् । तथा नाराशंसी । मनुष्याणां स्तुतयो नाराशंस्यः । सा नाराशंसी न्योचनी । उचतिः सेवाकर्मा । सा वधूशुश्रूषार्थ दीयमाना दास्यभवत् । सूर्याया मम भद्रं वासो विचित्रं दुकूलादिकमाच्छादनयोग्यं वस्त्रं गाथया परिष्कृतमलंकृतमेति । 'गाथा गीयते' इत्यादि ब्राह्मणोक्ता गाथा । तया गाथया यत्परिष्कृतमस्ति तद्वासोऽभवदिति । ऋसा. दासी नृत्यम् उदकुम्भानधिनिधाय दास्यो मार्जालीयं परि नृत्यन्ति पदो निन्नतीरिदंमधुं गायन्त्यः ।
अत्र दासीसंख्यां सूत्रकारो दर्शयति – 'मार्जालीयस्यान्तेऽष्टौ दासकुमार्य उदकुम्भर्विकम्पन्ते' इति । ता एतास्तान्कुम्भान् शिरसि धृत्वा मार्जालीयस्य धिष्ण्यस्य (१) ऋसं. ८/६८।१७. (२) ऋसं. ९।१०।२; सासं. (३) ऋसं.१०।८५।६; असं. १४।१।७ ष्कृतम् (ष्कृता). (४) तैसं. ७/५/१०.
२१४७०.