________________
८१०
व्यवहारकाण्डम्
1
मृधाम् । यया दासान्यार्याणि वृत्रा करो वज्रि वृश्च । छेदय । तदेवाह । दासस्य दासनामकस्य शत्रो - त्सुका नाहुषाणि ॥ रोजो बलं दम्भय । नाशय । अथ परोक्षस्तुतिः । वयं नाभाका अस्य दासस्य संभृतं वस्विन्द्रेण हेतुना वि भजेमहि । सिद्धमन्यत् ।
ऋसा.
दक्षिणासु दासा देया:
इन्द्र शत्रुर्याय शत्रूणां तारणाय बृहतीं महतीममृत्रा महिंसितां संयतं संयत संगच्छमानां स्वस्ति क्षेम लक्षणां संपदं हे इन्द्र नोऽस्मभ्यमा भर । वज्रिन् वज्रवन्निन्द्र यया स्वस्त्या दासानि कर्महीनानि मनुष्यजातान्यार्याणि कर्मयुक्तानि करः अकरो: । नाहुषाणि मनुष्यसंबन्धीनि। नहुषा इति मनुष्यनामैतत् । वृत्रा वृत्राणि । शत्रून् सुतुका सुतुकानि शोभन हिंसोपेतान्यकरोः । ऋसा. आर्यार्थ दासप्रजा विनाश्याः
आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तार्दासीः ॥
अपि चाभिः स्तुतिभिरेवाभियुजोऽभियोक्त्रीर्विषूची: सर्वतो विद्यमाना दासीः कर्मणामुपक्षपयित्रीर्विश्वाः सर्वा विशः प्रजा आर्याय यज्ञादिकर्मकृते यजमानायाव तारी: । विनाशय । सा.
दासः परिचरिता
अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः । अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥
मीळ्हुषे सेक कामानां वर्षित्रे भूर्णये जगतो भत्रे देवाय दानादिगुणयुक्ताय वरुणायानागास्तत्प्रसादादपापः सन्नहमरमलं पर्याप्तं कराणि । परिचरणं करवाणि । दासो न यथा भृत्यः स्वामिने सम्यक् परिचरति तद्वत् । अर्यः स्वामी स च देवोऽचितोऽजानतोऽस्मानचेतयत् । चेतयतु । प्रज्ञापयतु । गृत्सं स्तोतारं च कवितरः प्राज्ञतरो देवो राये धनाय धनप्राप्त्यर्थं जुनाति । जुनातु प्रेरयतु । ऋसा. दासधनं आग्रह्यम्
अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय । वयं तदस्य संभृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥
अपि च हे इन्द्र पुराणवत्प्रत्नो यथा व्रततेरिव यथा वल्ल्या गुष्पितं निर्गतां शाखां वृश्चति तथा शत्रूणां
(१) ऋसं. ६।२५।२; मैसं. ४ | १४ | १२६ तैब्रा. २।८।३।३. (२) ऋसं. ७।८६।७. (३) ऋसं. ८४०१६ ; असं. ७।
९०।१; कौसू.३६।३५.
शेतं मे गर्दभानां शतमूर्णावतीनाम् । शतं दासा अति स्रजः ॥
दासस्वरूपम्
अकर्मा दस्युरभि नो अमन्तुरन्यत्रतो अमानुषः । त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥
अकर्माविद्यमानयागादिकर्मा दस्युरुपक्षपयिताभ्याभिमुख्येन स्वरूपतो नोऽस्मानमन्तुरज्ञाता । यद्वा । अत्रावेत्युपसर्गस्य वकारलोपो द्रष्टव्यः । अवमन्तुरवमन्ताभिभविता । अन्यत्रतः श्रुतिस्मृतिव्यतिरिक्तकर्मा मानुषो मनुष्यसंव्यवहाराद्वाह्यः । असुरप्रकृतिरित्यर्थः । य एवंभूतोऽस्ति हे अमित्रञ्छत्रूणां हन्तरिन्द्र त्वं दासस्योपक्षपयितव्यस्य वधर्हन्ता सन् दम्भय । तं शत्रु हिन्धि ॥ ऋसा. उत दासा परिविषे स्मद्दिष्टी गोपरीणसा । यदुस्तुर्वश्च मामहे ॥
उतापि च स्मद्दिष्ट कल्याणदेशिनौ गोपरीणसा गोपरीणसौ गोभिः परिवृतौ बहुगवादियुक्तौ दासा दासवत्प्रेष्यवस्थितौ तेनाधिष्ठितौ यदुश्च तुर्वश्चैतन्नामकौ राजर्षी परिविषेऽस्य सावर्णेर्मनोर्भोजनाय मामहे । पशून्प्रयच्छतः ।
ऋसा.
दासार्यभेदः इन्द्रकृत :
अयमेमि विचाकशद्विचिन्वन्दासमार्यम् ॥ अथेन्द्रो ब्रवीति । विचाकशत् पश्यन्यजमानान् दासमुपक्षपयितारमसुरमार्थमपि च विचिन्वन् पृथक्कुर्वन्नयमहमिन्द्र एमि ।
दास्यः स्त्रियो दक्षिणासु देयाः
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ॥
स्वनयेन दत्ताः श्यावास्तद्वर्णाश्वैर्युक्तत्वात् श्यावा (१) ऋसं. ८/५६।३.
(३) ऋसं. १०।६२।१०. असं. २०१२६।१९.
(२) ऋसं. १०१२२८. (४) ऋसं. १०८६ १९; (५) ऋसं. १।१२६।३,