________________
दत्ताप्रदानिकम्
(१) अत्र परस्य सामान्यकार्यकरणमात्रं किंचिद्वस्तु | सम अतिविशेषकार्यकरणक्षमवस्तु ततः समानीयते । अनु पश्चात् । अन्वाहितमेतदादौ कृत्वा । अन्यत्सुबोधं सर्वम् । एतान्यष्टावदेयानि दत्तान्यपि वलन्ति । अभा.८६ (२) एतददेयत्वमात्राभिप्रायेण न पुनः स्वत्वाभावाभिप्रायेण । पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । मिता. २।१७५ (३) अन्वाहित मन्यस्मै दातुमर्पितम् । अन्वाहितवत्स्त्रीधनमपि अदेयं स्वत्वाभावात् । स्मृच. १९० (४) अत्र चादेयपरिगणनप्रवृत्तानां मुनीनां स्वस्वोक्तान्यव्यवच्छेदे न तात्पर्यम् । विर. १२८ (५) आपत्कालेऽपि पुत्रदाराद्यन्वयानां पुत्रदारसर्वस्वानामदेयतेत्यर्थः । तत्संमतौ तु देयतामाह कात्यायनः -- विक्रयमिति । विचि. ५६ (६) अन्वाहितं ' मथुरायां प्रस्थितस्तत्रस्थस्य पूर्वगृहीतं तस्मै दत्वा पश्चादिदं मम पुत्राय कन्याकुब्जतो देहीति यत् समर्पितम् । याचितकं 'कतिपयान्यहानि दत्तं क्रियतां, तेन दत्तकार्य कृत्वा प्रतिदास्याभीति गृहीतम् । पुत्राश्च दाराश्च तेषां दानं प्रत्य स्वामित्वात् । कष्टापद् मरणम् । . (७) साधारणं बहुस्वामिकं रिक्थादिकं न त्ववि - भक्तस्वामिकं सुवर्णादिकम् । तस्याविभक्तसर्वसंमतौ देयत्वेन वक्ष्यमाणत्वात् ।
नाभा. ५१५
व्यप्र. ३०६
देयम्
कुटुम्बभरणाद्द्रव्यं यत्किञ्चिदतिरिच्यते । • तद्देयमुपहृत्यान्यद्ददद्दोषमवाप्नुयात् ॥
पमा ३१३; विचि.५६; स्मृचि.१९ यान्या (यमा ); नृप्र. २६ सवि. २८० मितावत्, बृहस्पतिः; व्यप्र. ३०६; व्यम. ८९ उत्त.; विता.५९९; सेतु.१४८; समु. ९३६ विच. १३.
(१) नासं. ५/६ उत्तरार्धे ( तद्देयमुपहत्यान्यद् दददागः समाप्नुयात् ); नास्मृ. ७६ उत्तरार्धे ( तद्देयमपहृत्यान्यकुटुम्बी दोषमाप्नुयात्): vulg. ७ ६ ( तद्देयमविहिंस्यान्यन्या म्यथ न्यायं समाप्नुयात्); अभा. ८६ उत्तराधें (तद्देयं सुहृदन्यस्मात् कुटुम्बी दोषमाप्नुयात्); अप. २११७५ हृत्या (हन्या); स्मृच. १९० हृत्यान्यत् (हत्यान्यं); पमा. ३१४ हत्या ( रुद्धय); भ्य. का. १०१
७९९
(१) कुटुम्बे कुटुम्बिनाऽवश्यमेव भरणीयं तस्माद् व्ययाद्यत्किंचिदतिरिच्यते तदेव दातव्यम् । एकविधमेव दृष्टम् । यत्पुनर्दीयमानं कुटुम्बपीडाकारि तद्दत्वा दोषमाप्नुयान्न पुण्यमिति । अभा.८६
( २ ) अन्यमुपहत्य भर्तव्य कुटुम्बमुपरुध्येत्यर्थः । उपरोधश्च निःस्वतया भोजनाच्छादनोच्छेदनिबन्धनोऽत्र मतो न तु ताम्बूलादिभोगसाधनवैकल्यनिबन्धनः । स्मृच. १९० (३) प्रत्यवायमाप्नुयात् दण्ड्यश्च भवेद् राज्ञा । नाभा. ५/६
यस्य त्रैवार्षिकं वित्तं पर्याप्तं भृत्यवृत्तये । अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ॥
एतन्न कुटुम्बभरणवित्तप्रमाणमुक्तम् । यस्याविक्रमस्ति स सोमपानं यज्ञत्वं स्वयं कर्तुमर्हति विप्र इति ।
अभा.८७
मूल्यं भृतिस्तुष्टा स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥ (१) एतेषु सप्त स्वप्यविरुद्धस्थानेषु यद्दत्तं तदेव दत्तमित्युच्यते । शेषं पुनः षोडशविधमदत्तं विज्ञेयम् । तदुच्यते ।
अभा.८७
(२) अयमर्थः - पण्यस्य क्रीतद्रव्यस्य यन्मूल्यं दत्तं भृतिर्वेतनं कृतकर्मणे दत्तं तुष्टया बन्दिचारणादिभ्यो दत्तं, स्नेहाद् दुहितृपुत्रादिभ्यो दत्तं,
3
सवि. २८३ भरणाद् (भरण) उत्तरार्धे (तद्देयमुपरुध्यान्यद्दददागः समाप्नुयात्); व्यप्र. ३०७-३०८; व्यउ.८५१ बिता. ६०१ हृत्या (हत्या); समु. ९३ स्मृचवत्.
(१) नास्मृ. ७ ७; अभा.८६.
(२) नासं. ५/७ रतः (रितम् ); नास्मृ. ७१८ शुल्का (भक्त्य) दानविदो विदुः ( सप्तविधं स्मृतम् ); अभा.८६ शुल्का (भुक्ता) दानविदो विदुः ( सप्तविधं स्मृतम्); मिता. २।१७६; अप. २।१७५ च (तु); व्यक. १४५ दानविदो ( सप्तविधं ); स्मृच. १९२३ विर. १३३३ पमा. ३१७ थं (थें); स्मृचि. १९६ नृप्र. २७ दानविदो विदुः ( सप्तविधं स्मृतम् ); सवि. २८४ नृप्रवत् व्यप्र. ३१०; व्यउ. ८५६ व्यम.८९ र्थं च (थय); विता. ६०७३ राकौ ४७१ व्यभवत्; सेतु. १५२ समु. ९६६ विच.२१.