________________
७९४
व्यवहारकाण्डम्
अदेयदत्ते स्वत्वं न । अदेयदाने प्रायश्चित्तम् । अदेयदानस्य निषिद्धत्वात्परस्वत्त्वानुपपत्तिः । अनादि पुत्रदारादिदाने षड्वार्षिकं चरेत् । द्वादशवार्षिकं चरेत् ।
हारीतः
अदेयदाननिन्दा
अदेयदानं जैम्यं च कलञ्जस्य निषेवणम् । मद्यपस्य मुखास्वादः चत्वार्येवं समानि च ॥
अत्राहुः — कलञ्जस्य निषेवणं आस्वाद एव । मद्यपस्य मुखास्वाद इति सत्संनियोगशिष्टत्वात् । केचित्तु कलञ्जं गृञ्जनमित्याहुः । अपरे त्वाहुः - भवतु वा पातित्यहेतुभूतकलञ्जभक्षण संनियोगशिष्टत्वं अदेयदानस्य तावन्मात्रेणास्य पापाधिक्यं नास्ति । प्रायश्चित्तविधिपर्यालोचनयैव पापपरिज्ञानमाहुराचार्या इति । सवि. २७८ सर्वस्व मदेयम् आपद्यपि विरक्तौ च सर्वस्वं न प्रदीयते ॥
अत्र ज्ञापक मप्याहुर्लक्ष्मीधरप्रभृतयः -- 'विश्वजिति सर्वस्वं दद्यात्', 'न केसरिणो दद्यात्' इति केसरिदाननिषेधः सर्वस्वदानं निषेधतीति । अत्र केचित् 'विश्वजिति सर्वस्वं ' इत्यत्र सर्वशब्दः केसरिव्यतिरिक्तसर्वपरः । अत्र स्वशब्दस्यात्मीयवाचितया आत्मीया दीनां पुत्रादीनामदेयत्वादेव स्वत्वनिवृत्तेरभावादित्याहुः । तन्न, सर्वस्वं दद्यादिति विधिः निषेधशिरस्को भवत्येव सर्वस्वदानं विधातुमित्याहुराचार्याः । सर्वस्व दक्षिणाविधयस्त्वदेयद्रव्यव्यतिरिक्तविषयाः । पुत्रदारादौ तु आयर्जकभाव संबन्धरूपस्य स्वत्वस्य विद्यमानत्वात् । पुत्रदारादिकं स्वमेव । तच्च महापातकादिना निवर्तत इत्युक्तं प्राक् । अतश्च सर्वशब्दः संकुचिद्वृत्तिर्न भवति । अत एव 'औदुम्बरी सर्वा वेष्टयितव्ये त्यत्र सर्वशब्दः संकुचिद्वृत्तिर्न भवतीति प्रतिपादितं गुरुणा । राज्ञा सर्वस्वहरणं साहसेषु विहितम् । बलात्कारेण गृहीतेऽपि द्रव्ये स्वत्वमुत्पद्यते । किं च न तत्प्रदानं, अपि तु दण्ड्यतया सर्वस्वग्रहणम् । प्रकृते तु दानविचारो दानविषय इति तत्रास्माकमनास्था । सवि. २७९-२८०
(१) सवि. २७७ (२) सवि. २७८ (३) सवि. २७९. (४) सवि. २७७-२७८, (५) सवि. २७९,
अदेयदाने प्रतिश्रुतस्यादाने च दोष: अथासद्द्रव्यदानभस्वर्ग्य, यश्च दत्वा परितप्यते । प्रतिश्रुतार्थाप्रदानेन दत्तस्याच्छेदनेन च । विविधान्नरकान् याति तिर्यग्योनौ च जायते ॥ वाचा यच्च प्रतिज्ञातं कर्मणा नोपपादितम् । ऋणं तद्धर्मसंयुक्तमिह लोके परत्र च ॥ विष्णुः
अदेयदानदण्डः प्रायश्चित्तं च
अदेयं न देयम् । प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्डयः ।
सवि: २७८
"जैहम्ये त्रिरात्रिमुपोष्य पञ्चगव्येन शुध्यति । पुत्रदारादिदाता पतितो भवति । दातृशब्दो विक्रेतुरुपलक्षकः । शङ्खः अदेयं दत्वा तत्परावर्त्य त्रिरात्रमुपवसेत् । कौटिलीयमर्थशास्त्रम्
देयमदेयं च । धर्मदानार्थदानकामदानभयदान रोषदानदर्पदानविचारः ।
दैत्तस्यानपाकर्म । दत्तस्याप्रदानमृणादानेन व्याख्यातम् ।
दत्तमव्यवहार्यमेकत्रानुशये वर्तेत । सर्वस्वं पुत्रदारं आत्मानं प्रदायानुशयिनः प्रयच्छेत् । धर्मदानमसाधुषु कर्मसु चौपघातिकेषु वा । अर्थदानमनुपकारिषु अपकारिषु वा कामदानमनर्हेषु च । यथा च दाता प्रतिग्रहीता च नोपहतौ स्यातां, तथानुशयं कुशलाः कल्पयेयुः ।
दण्डभयादाक्रोशभयादनर्थभयाद् वा भयदानं प्रतिगृह्णतः स्तेयदण्डः प्रयच्छतश्च । रोषदानं परहिंसायाम् । राज्ञामुपरि दर्पदानं च । तत्रोत्तमो दण्डः । इति दत्तस्यानपाकर्म ।
दत्तस्यानपाकर्मेति सूत्रम् । 'तुभ्यमहं संप्रददे' इति प्रतिज्ञादिपूर्वं वाचा दत्तस्य अप्रदानमिति सूत्रार्थः ।
(१) विच. ९. ( २ ) सवि. २७७. (३) विस्मृ. ५। १७४; समु. ९४ प्रथम (पूर्व). (४) सवि. २७८.. (५) सवि. २७८. (६) सवि. २८१. (७) कौ. ३।१६.