________________
७५०
१०/३/१३/५३) इति न्यायेन समत्वेनैव विभाग इति मन्तव्यम् ।
पहारकाण्डम्
शुक्रनीति: रक्षकाय दशमांशदानं शिल्पिनर्तकगायक चोरधनप्रयोजकवणिकर्षकाणां संभूयकर्मविधिः जलतस्करराजाग्निव्यसने समुपस्थिते । यस्तु स्वशक्त्या संरक्षेत्तस्यांशो दशमः स्मृतः ॥ हेमकारादयो यत्र शिल्पं संभूय कुर्वते । कार्यानुरूपं निर्वेशं लभेरंस्ते यथार्हतः ॥ संस्कर्ता तत्कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः । हर्म्यं देवगृहं वापी वाटिकोपस्कराणि च ॥ संभू कुर्वतां तेषां प्रमुख्यो व्यंशमर्हति । नर्तकानामेव धर्मः सद्भिरेष उदाहृतः ॥
(१) शुनी. ४ । ७९५-८०४.
तालज्ञो लभतेऽर्थार्ध गायनास्तु समशिनः । परराष्ट्राद्धनं यत्स्यात् चौरैः स्वाम्याज्ञया हृतम् ॥ राज्ञे षष्ठांशमुद्धृत्य विभजेरन् समांशकम् । तेषां चेत्प्रसृतानां च ग्रहणं समवाप्नुयात् ॥ तन्मोक्षार्थं च यद्दत्तं वहेयुस्ते समांशतः । प्रयोगं कुर्वते ये तु मधान्यरसादिना ॥ समन्यूनाधिकैरंशैलाभस्तेषां तथाविधः ।
मो न्यूनोऽधिको शो योऽनुक्षिप्तो तथैव सः ॥ व्ययं दद्यात्कर्म कुर्यात् लाभं गृह्णीत चैव हि । वणिजानां कर्षकाणामेष एव विधिः स्मृतः ॥ ऋत्विग्याज्य त्यागिनौ दण्डयौ 'ऋत्विग्याज्यमदुष्टं यस्त्यजेदनपकारिणम् । अदुष्टं चर्विजं याज्यो विनेयौ तावुभावपि ।। (१) शुनी. ४।८०८.