________________
७७४
व्यवहारकाण्डम्
(५) संभूय च समुत्थानमातिदेशिकं भविष्यतीति कृत्वा दत्तस्थानपाकर्माह लिगिति द्वादशभिः । तत्रादी दक्षिणाया दृष्टार्थतया भृतिरूपत्वं प्रकटयाह-ऋत्विगिति । दक्षिणा च दत्तासु स्वकर्म परिहापयेत् । कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् + ॥
मच.
।
(१) माध्यंदिने सवने दक्षिणा दीयन्त इति । तत उपरिष्टात्कर्म त्यजतामप्रत्याहरणीयं लभेत न प्रतीपं त्याजयेदित्यर्थः । अन्यां भृतिं दत्वा अन्येन पुरुषेण यजमानस्तत्कर्मसमापयेत् । ऋत्विग्भिः कर्म कर्तव्यं मरणाच] [ऋत्विजो भवन्ति । तब नियतकाले प्राकर्मण आरम्भात् अतः ऋतु क्रियमाणं विगुणं भवति, समाति आपि कर्तव्येति विगुणं चेत्समापनीयमङ्गान्येव तदन्यकर्तृकाणि करिष्यामीति बुद्धिनिवृत्त्यर्थमुक्तमन्येनैवेति, तावदेव विगुणं यदशक्यं शक्यं तु सर्वे कर्तव्यम् केचि त्क्रारयेदिति ऋत्विजोऽपि संबन्धमाहुः । गृहीत्वा दक्षिणां । वाऽधिकां दद्यात्स्वयमशक्नुवन्प्राग्दक्षिणाभ्यः ( ? ) शेषकर्मसमापने यजमान एवाऽधिक्रियते । मेथा.
(२) अन्येनैव कारयेत् ऋत्विक् स्वकार्यशेषम् । मवि (३) अन्येन स्वगणवर्तिनां मध्ये प्रत्यासन्नेन, येनकेनचिदन्येन वा कार्यमाणे वाध्वर्यवादिसमाख्याबाधापत्तेः । एवमृत्विजि मृतेऽप्यूह्यम् । स्मृच. १८८
(४) माध्यन्दिनसवनादी दक्षिणाकाले दक्षिणामु दत्तासु व्याध्यादिना कर्म परित्यजन्न तु शाठ्यात्स कृत्स्नमेव दक्षिणाभागं लभेत कर्मशेषं प्रकृतमन्येन कार येत् ।
1
*ममु.
+ गोरा. व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् ।
x सवि., व्यप्र. स्मृचवत् ।
* विचि. ममुवत् स्मृचवच्च ।
(१) मस्मृ. ८।२०७ हापयेत् (हापयन् ); अप. २।२६५; यक. १४० हापयेत् (हारयन् ); स्मृच. १८८ छाप (भाव); विर. ११८ मस्मृवत्; पमा. ३०९ च द (प्रद) शेषं मस्मृवत्; विचि.४९ नैव च (नैव तु) शेषं मस्मृवत्; सवि . २७५ नैव (नैव तु); वीमि . २ २६५ मेव (मेवं ) शेषं व्यकवत् ; व्यप्र. ३०२ व्यड.८२; विता. ५०२ ( दक्षिणा प्रदत्तासु यदि कर्म त्यजेन्नरः) च (तु); समु. ९२; विश्य. ३५ नारदः .
1
संभयकारिणामृत्विजां दक्षिणाव्यवस्था येस्य कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः । स एव ता आददीत भजेरन्सर्व एव वा ॥ (१) इदमपरं प्रकृतोपयोगि वैदिकं कष्पते । वैदिके कर्मणि सामस्त्येन दक्षिणा आम्नायन्ते न प्रतिपुरुषं विभागेन, तस्य द्वादशशतं दक्षिणेति तेचोदकेन त्वन्तराणि तद्विकाराण्यनुगच्छन्ति राजसूयादीनि, तत्र च केषुचिदङ्गकर्मसु प्रतिपदमन्या दक्षिणाऽऽम्नाता पुरुषविशेषसंयोगेन 'हिरण्मेयौ प्राकाशावध्वर्यवे' इत्यादि, ताः प्रत्यङ्गदक्षिणाः संपयन्ते । किमप्ययश्रातुर्विचैवादिकवद्ददातिसंबन्धः सर्वेषामृत्विज दक्षिणाः" अध्वर्युस्तु द्वारमात्रं, उत तस्यैव सा अन्येषां प्रकृतांशः । संशयोपन्यासार्थः श्लोकः । प्रतिपदं पुरुषविशेषाश्रया अङ्गेषु दक्षिणा: प्रत्यङ्गदक्षिणाः । अथवा वीप्सायां प्रत्यङ्गशब्दः । अङ्गमङ्गमाश्रिताः प्रत्यङ्गाः । स एव ता आददीत, मुख्य एव पुरुषस्य ददातिना संयोगः उत कर्तृस्वाविशेषादन्येऽपि भजेरंल्लभेरन् । प्रधानदक्षिणाया इव इति कथयित्या प्रश्नः पुरुषविशेषमुक्तास्तदर्था एवेति निर्णयः । एवं ददातिर्मुख्यार्थी भवति । पुरुषसंयोगश्च नादृष्टार्थः । +मेपा. (२) प्रत्यङ्गदक्षिणा: प्रतिस्वं कर्मणां दक्षिणाः । स एव वाददीत मृत्विजं प्रति यथोद्यते । सर्वे भजेरन् यत्रविग्विशेषानुतिः । मवि.
(३) पूर्णाहुती हुतायां वरं दद्यादित्यङ्गकमलेलेन या दक्षिणा विहितास्ताः प्रत्याह स एव यस्य कर्मगौत । यस्य कर्मणि यत्कर्तृके कर्मणि या दक्षिणा उक्ताः न एवं तत्कर्मकर्तेव ता आददीतेत्यर्थः । एवं च पूर्णाअध्वर्युर्वरं गृह्णीयात् । तत्र तस्य कर्तुत्वात् । भजेरन् सर्व एवेति पक्षान्तरमनेककर्तृकाङ्गदक्षिणाविषयम् ।
1
गोरा. मु., विर, विधि, मच, भाच. मेधावत् । (१) मस्मृ. ८।२० ८ यस्य (यस्मिन् ); अप. २।२६५ (= );
१४१ प्रत्यक्ष (प्रत्यंश) स्मृच. १८०३ विर. १११ व्यकवत् ; विचि.५० ता आ (ताश्वा); सवि. २७४ एव वा ( एवन); त्रीमि. २ २६५; समु. ९२.
१ तच्चदेके. २ ण्मये प्रकाशवदवयव इत्यादि. 8 यावा. ४ णाध्व.