________________
* संभूयसमुत्थानम्
ि
जैमिनीयसूत्रम्
ज्योतिष्टोमे ऋत्विजां दक्षिणाविभागाधिकरणम्
समं स्यादश्रुतत्वात् । ज्योतिष्टोमे समाम्नायते, 'गौश्वाश्वश्व अश्वतरश्च' इति । तत्रायमर्थः समधिगतः विभज्य दातव्यं इति । इदमिदानीं सांशयिक - किं समो विभागः, उत कर्मकृतं वैषम्यं, उत शब्दकृतं ? इति । किं प्रातं ? – समो भागः स्यात् 'अश्रुतत्वात्' विशेषस्य, यत्र विशेषो न श्रयते, तत्र समो विभागो भवितुमर्हति । कथमिव ? एकस्मै सर्वे दातव्यं प्राप्नोति, यद्यपरस्मै दातव्यं न भवति, तत्र यावति एकस्मै दीयमाने नान्यः संविभज्यते, तावत् तस्मै एकस्मै न दातव्यं, अवशिष्टं दातव्यं, एवमेकैकस्मै, तस्माद्विशेषाश्रवणात् समं देयमिति ।
शाभा.
अपि वा कर्मवैषम्यात् ।
अपि वेति पक्षव्यावृत्तिः न समं स्यात्, कर्म कृतं वैषम्यं भवेत्—यो बहुकर्म करोति, तस्मै बही भृतिर्दीयते । तस्मात् कर्मानुरूप्येण वैषम्यमिति ।
शाभा. अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयात् न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाभ्युदये ।
न चैतदस्ति — कर्मकृतं वैषम्यं इति, किन्तर्हि उपकारकृत्; स उपकारः श्रुत्या विज्ञायते, तस्मात् श्रुतिकृत वैषम्यं तेन 'अतुल्याः' 'परिक्रये' भवेयुः । 'विषमा' हि एषां 'आख्या', केचित् ' अर्द्धिन: ',
* एतत्प्रकरणस्थानि श्रुति श्रौतसूत्रगतानि ऋत्विग्दक्षिणा विभागविषयाणि वचनानि नामाभिः संगृहीतानि ।
(१) जैसू.१०।३।५३.
(२) जस्. १०/३/५४ (३) जैसू. १०1३1५५
केचित् 'तृतीयिनः' केचित् 'पादिनः' येषामर्ध ते 'अर्द्धिनः', कथं च तेषामर्द्ध भवति ? यदि तेभ्यः, अर्द्ध दीयते । एवं 'तृतीयिनः' 'पादिनः' इति च दीक्षा 'विधिश्रुतौ' समाख्यायते सा 'परिक्रयात्' कर्मकृते वैषम्ये न उपपद्यते । क्क पुनरयं विशेषो दृश्यते ? 'अभ्युदये' - अभ्युदय इति अभ्युदयफलं (ऋद्धिफलं) द्वादशाहं ब्रूमः । ' अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारं ततो होतारं ततस्तं प्रतिप्रस्थाता दीक्षयित्वाऽर्द्धिनो दीक्षयति । ब्रह्मच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतु:, ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति । अग्नीध्रं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः, ततस्तं उन्नेता दीक्षयित्वा पादिनो दीक्षयति । पोतारं ब्रह्मणः, सुब्रह्म ण्यमुद्गातुः, ग्रावस्तुतं होतु:, ततस्तमन्यो दीक्षयति ब्रह्मचारी वा आचार्यप्रेषितः इति 'अर्द्धिनः' 'तृती यिनः' 'पादिनः' इति द्वादशाहे अनुवादः, यदि प्रकृतौ यथासमाख्यं अमीषामिमे भागाः, ततो द्वादशाहे दर्शनमुपपद्यते । तस्मादर्द्धादिभिः समाख्यानात् समाख्याश्रुतिकृतं वैषम्यं भवितुमर्हतीति ।
शाभा.
वसिष्ठः कार्यत्यागिनौ ऋत्विगाचार्यों हेयो
ऋत्विगाचार्या वयाजकानध्यापको हेयावन्यन्त्र हानात्पतति ।
विष्णुः
ऋत्विङ्मरणे तत्कार्यंतद्दक्षिणाव्यवस्था
अथत्र्त्विजि मृते पश्चादन्यं वृणुयात् । पूर्ववृतस्यैव दक्षिणा । पश्चादाहूतः किंचिल्लभते चेति ।
(१) वस्मृ. १३ । १९; अप. २।२६५. (२) सवि. २७५,