________________
उपनिधिः
F
प्राप्तकाले कृते कार्ये न दद्याद्याचितोऽपि सन् । तस्मिन्नष्टे हृते वाऽपि ग्रहीता मूल्यमावहेत् ॥ ननु 'याचितानन्तरं नाशे दैवराजकृतेऽपि सः । ग्रहीता प्रतिदाप्यः स्यात् ' ॥ इत्यादिस्मृत्या मूल्यमात्रदापनं उपदिष्टमिहातिदेशेनैव प्राप्तं किमर्थमिह पुनरुपदिश्यते । उच्यते । स्मृत्यन्तराद्दण्डोऽप्येवं प्राप्तस्तन्निवृत्यर्थमिहाप्युक्तम् । स्मृच. १८३
अथ कार्यविपत्तिस्तु तस्यैव स्वामिनो भवेत् । का तु दाप्यवर्धकृतेऽपि तत् ॥ यदि याचितकाप्रतिदाने तत्स्वामिनः कार्यनाशः संभाव्यते तदा दद्यादित्यर्थः । व्यप्र.२८८ `यैस्तु संस्क्रियते न्यासो दिवसैः परिनिष्ठितैः । तदूर्ध्व स्थापयन् शिल्पी दाप्यो दैवहतेऽपि तम् यैर्यावद्भिः । तं न्यासम् । विर. ९८ न्यासदोषाद्विनाशः स्याच्छिल्पिनं तं न दापयेत् । दापयेच्छिल्पिदोषात्तत्संस्कारार्थं यदर्पितम् ॥
॥
(१) व्यक. १३४; स्मृच. १८३; पमा. २९० हृ (म); विचि.३७ प्त (प्ते) हृ (कृ) वाऽपि (वाऽथ ) वहे (हरे); वीमि. २६७ (ते) ग्रहीता (गृहीत्वा ) वहे (हरे); व्यप्र. २८८; व्यम. ८६; विता. ५७२ ( = ) प्त (ते); सेतु. १३२ प्त (प्ते ) . काsपि (वाद्य); समु.८९ प्स (ते); विव्य. ३२ त (ते) वाऽपि (वाऽथ) वहे (हरे).
(२) व्यक.१३४; स्मृच.१८४; विर. ९३ स (स्व); पमा.२९०; व्यप्र.२८८; विता.५७२ (=) स्तु (श्चेत्) से बै (प्तेऽपि); समु.८ ९.
(३) व्यक. १३४; स्मृच.१८३ यैस्तु (यैश्चित् ) ष्ठि (श्चि) स्पी (पं); विर. ९८ स्तु (च); पमा. २८८ स्तु (श्च) ष्ठि (श्चि) यन् (येत् ); विचि. ३९ स्था (हा) तेऽपि तम् (तं तु तत्) बृहस्पतिः; स्मृचि.१५ हते (कृतो) शेषं पमावत् ; चन्द्र. ३३ ये (य) तम् (तत्); व्यप्र. २८७ यैस्तु संस्कि (यश्च संश्री) हते (हृते) बृहस्पतिः; व्यम. ८५ यैस्तु (यश्च ) यन् (येत् ) वह (वान); विता.५६८ यैस्तु (यस्य) निष्ठि (कल्पि) वह (वाद्ग); सेतु. १३३ ष्ठि (श्चि) तेऽपि तम् (तोऽपि सन् ) बृहस्पतिः; समु. ८९ ष्ठि (श्चि); विव्य. ३२ बृहस्पतिः.
(४) व्यक. १३४; स्मृच. १८३; विर. ९८ नं तं न ( नस्तन्न) चत् (च्च ; पमा. २८८; व्यप्र. २८७; विता. ५६८ पूर्वार्धे (शिल्पिदोषाद्विना नाशः शिल्पिनं नैव दापयेत् ); समु. ८९.
७५५
रजकादिहस्ते नैर्मल्यार्थं दत्तस्य जीर्णवस्त्रादेर्यद्यव. घातादिना नाशः अवघातादिश्च नैर्मल्याद्यर्थस्तदा शिल्पिदोषाभावात्तत्र शिल्पी न दाप्यः । नूतनादौ तु पटुतरावघातादिकृतनाशस्य शिल्पिदोषकृतत्वात्तन्मूल्यं दाप्य इत्यभिसंधायाह--न्यासदोषादिति । शिल्पिदोषादित्यत्र विनाशः स्यादित्यनुषज्यते । व्यप्र. २८७ स्वल्पेनापि च यत्कर्म नष्टं चेदद्भुतकस्य तत् । पर्याप्तं दित्सतस्तस्य विनश्येत्तद्गृहृतः ॥ यत्कर्म वस्त्रनिर्माणादि स्वल्पेनापि प्रान्तवानादिना विकलं नष्टं चेद् भृतकस्य शिल्पिन एव नष्टं पुन| वेतनग्रहणमन्तरेणैव वानादिक्रियां कुर्यादित्यर्थः । यदि | स्वामी पुनस्तन्त्वादिकं नार्पयति तदा पुनः वानाद्यभावेऽपि वेतनं शिल्पिने दत्तं न लभते । पर्याप्तं परिपूर्ण वस्त्रं दित्सतो भृतकस्य यः स्वामी तस्य दीयमानमगृह्णतः तत्पर्यातं विनश्येदित्युत्तरार्धस्यार्थः । एवं चात्र भूतको नष्टं दाप्य इति वचोभङ्गया भणितमवगन्तव्यम् । * स्मृच. १८३
व्यासः निक्षेपलक्षणम्
स्थानत्यागाद्राजभयाद्दायादानां च वचनात् । स्वद्रव्यमर्प्यतेऽन्यस्य हस्ते निक्षेपमाहतम् || स्वद्रव्यं स्वकीयं द्रव्यं वस्त्रनिष्कादिकमन्यस्य कुलजत्वादिगुणवतो हस्ते समर्प्यते । ग्राहकसमक्षमेवार्थ्यते क्षेमार्थं यत्तत्र निक्षेपशब्दो वर्तत इत्यर्थः । तच्चार्पणं ग्राहकस्य पुरतो गणनां कृत्वा कार्य 'निक्षेपं गणितं विदुरिति स्मरणात् ।
स्मृच. १७८
निक्षेपस्य तदपवादेश्च प्रमाणनिरूपणम् निक्षेप निह्नुते यस्तु नरो बन्धुबलान्वितः । साक्षिभिर्वाऽथ दिव्येन विभाव्य प्रतिदाप्यते ॥
* पमा, व्यप्र. स्मृचवत् ।
(१) व्यक. १९३४ नश्ये ( नये); स्मृच.१८३ यत् (तत्); विर. ९८ स्व (अ); पमा. २८९ स्व (शि) चे (य); व्यप्र. २८७; समु. १३४.
(२) स्मृच. १७८; समु.८७.
(३) स्मृच. १८० व्य ( व्यं); व्यप्र. २८४; विता. ५६१; | समु.८८