________________
७५३
विधिरिति दर्शयति । तेन तत्र 'समं दाप्य उपेक्षितः ' इति स्मृत्यन्तरविहितमूलमात्रमेव देयम् । एवं याच्यमानस्यादत्तस्य दैवराजकृतेऽपि नाशे स्थापकाय मूलमात्रं देयम् । स्मृच. १८० (२) मेदेन स्वद्रव्यबहिर्भावेण उपेक्षया । विर. ९० (३) [ चन्द्रिकाकारमतमुपन्यस्योक्तम् ] केचिदेतद्वचनमन्यथा व्याचक्षते—भेदः छलनम् । भेदेन वा उपेक्षया वा न्यासस्य ग्रहीता न्यासं यदि नाशयेत् । न्यासग्रहणं निक्षेपोपनिध्योरुपसंग्रहणार्थम् । मूल्यसममेव दाप्यः । सममेव दण्ड्यः । ' याच्यमानो न दद्याद्वा' इत्यत्र वाशब्दः तुशब्दार्थः । यदि याच्यमानावसरे इदानीं न दीयते चेत् वृद्धिर्दातव्येत्युक्तं तेन ग्रहीत्रा यद्यङ्गीक्रियते तदानीं न्यायत एव सोदयं दद्यात्, ग्रहीता यदि कारणान्तराद् व्यासङ्गवशाद्वा प्रत्यर्पणासहिष्णुतया लोभाद्वा याचनानन्तरं न ददाति तस्य ऋणादानपदान्तर्भावात् 'याच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम्' इति कात्यायनः प्रवर्तत इत्याहुः । तदसत् । ऋणादानोपनिध्योः पदयोर्भेदस्य प्रकरणादौ दर्शितत्वात् । वृद्धिप्रकरणधर्मा अत्रैव प्रसरन्तीति । सवि. २६८ (४) यदि तु दोषकृतादेव राजदैवकेनापि नश्यति तदा सोदयं दाप्यः। ज्ञानपूर्वक दोषनाशिते सोदयदानं न तु अज्ञानपूर्वक दोषनाशितेऽपि 'समं दाप्य उपेक्षित' इति वचनात् ।
|
चन्द्र. ३२
व्यवहारकाण्डम्
न्यासापहारे दण्डविधिः न्यास द्रव्येण यः कश्चित्साधयेत्कार्यमात्मनः । दण्ड्यः स राज्ञो भवति दाप्यस्तच्चापि सोदयम् ॥
(१) साधयेत्स्वाम्यननुज्ञयेति शेषः । स्वाम्यनुज्ञया तु साधयतो न दोष इति प्राचीनवचनेष्वेवार्थादवगम्यते । स्मृच. १८० (२) अनुज्ञाप्य साधयतो निक्षिप्तं प्रकारान्तरेण प्रयच्छतः सोदयदानदण्डाभावस्तु धनिकस्य राज्ञश्च सहिष्णुविर. ९१
तया ।
* विचि. विरवत् ।
(१) व्यक. १३२ यः कश्चित् ( यत्किञ्चित् ); स्मृच. १८०३ विर. ९१ कार्य (दर्थ); पमा. २८४; सेतु. १३३ बिरवत्; समु.८८.
न्यासविधे : अन्वाहितादिषु अतिदेशः अन्वाहिते याचितके शिल्पिन्यासे सबन्धके । एष एवोदितो धर्मस्तथा च शरणागते ।
I
(१) बृहस्पतिनाऽप्यनुपदिष्टधर्मकेष्वेवान्वाहितादिष्वतिदिष्टम् — अन्वाहित इति । शिल्पिन्यासे कङ्कणादिकरणाय स्वर्णकारादिहस्तन्यस्तहिरण्यादावित्यर्थः । अनेनाप्रतियाचितस्य शिल्पिन्यासस्य दैवादिना नाशे स्वर्णकारप्रभृतिर्न दाप्य इत्यादि धर्मोऽतिदिष्ट इति मन्तव्यम् । स्मृच. १८२-१८३ (२) सबन्धके बन्धकसहिते, तेन बन्धकेऽपि रहोदत्ते अतिदेशो लभ्यते । तथैव शरणागते भयादिना स्त्रीदा सादौ शरणप्रविष्टे स्वामित्वाभिमतेन सह विवादे एष विधिरिति । विर. ९६ (३) शिल्पिविषये जीर्णवस्त्रादावुपघाते न दोषः । नूतनवस्त्रादावुपघाते समं दाप्यं कुविन्दादौ रजकादौ च । 'राजदैवोपघाते च न दोष' इत्यादौ व्यवहारे पूर्वोक्तनयैरेव निर्णयः कार्यः । रजकादौ विशेष उत्तरत्र वक्ष्यते । सवि. २७० याचितं स्वाम्यनुज्ञातं प्रददन्नापराध्नुयात् ॥
(१) स्थापके मृते स्वयमेव प्रतियाचनाभावेऽपि भावदोषपरिहारार्थं प्रत्यनन्तरे दद्यात् इत्येतद्याचितकेऽप्यतिदिष्टधर्मवर्गान्तर्गतत्वेन प्राप्तमप्यवश्यानुष्ठेयं न भवतीत्याह बृहस्पतिः --- याचितमिति । याचनादूर्ध्वमपीति दोषः । स्मृच. १८४ विर. ९७
(२) प्रदददन्यस्मै ।
कात्यायनः उपनिध्यन्वाधियाचितकलक्षणानि
यः प्रोषितनिक्षिप्तं बन्धान्वाहितयाचितम् । वैश्यवृत्यर्पितं चैव सोऽर्थस्तूपनिधिः स्मृतः ॥
(१) अप. २।६७ न्यासे (त्यागे); व्यक. १३४; स्मृच. १८२३ विर. ९६; पमा. २८८; विचि. ३९ सबन्धके (तथैव च) था च (थैव); स्मृचि.१५; सवि. २७० था च (थैव); ब्यप्र. २८७; व्यम. ८५; सेतु. १३३ तके (ते च ) शेषं विचिवत् समु.८९ सब ( च ब ).
(२) व्यक. १३४; स्मृच. १८४; विर. ९७; समु. ८९. (१) अप. २१६५ तं चै (तश्चै); व्यक. १३०; स्मृच. ३;