________________
उपनिधिः
(१) यदि ग्राहको निक्षेपद्रव्येण तेन कंचित्स्वार्थं स्वेच्छया साधयति । निक्षेप्तुरननुज्ञया असंमतेन तदा दण्ड्यः स भवेत् । तं च साधितमर्थ सोदयं सोपाश्रयं दाप्य इति ।
अभा.८२
(२) अननुज्ञया विमत्या ।
विर. ९०
(३) यश्च निक्षेप्तुरननुज्ञया प्रयुञ्जीत द्रव्यं निक्षितं क्रयं विक्रयं वा कुर्यात्, तत्रापि दण्ड्यः स भवेत् परद्रव्यस्य विश्वासान्न्यस्तस्याननुज्ञयाऽपि स्वामिनः स्वार्थमुपभोगात् । तच्च द्रव्यं निक्षिप्तं सोदयं दाप्यः सलाभं सवृद्धिकं च । नाभा. ३१५ अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना । विभावितैकदेशेन देयं यदभियुज्यते ॥ यो निक्षेप नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्य दण्डं दाप्यौ च तत्समम् । यो निक्षितं द्रव्यं मिथ्याशया...द्रा कालहरणादिना नार्पयति स चौरः । यश्वानिक्षिप्तमेव निक्षिप्तमुक्त्वा प्रार्थयति सोऽपि परद्रव्यचौरः तयोर्व्यवहारे यो मिथ्यावादी दिव्यावसन्नो भवति स राज्ञा चौरवच्छास्यः । द्रव्यसमं च दण्डं दाप्य इति । अभा.८३ निक्षेपविधेः याचितादिषु अतिदेशः एष एव विधिर्दृष्टो याचितान्वाहितादिषु । - शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥ (१) अत्र योऽयं विधिर्न्यासोपनिधिव्यवहारपदकयोरपि सविस्तरोऽभिहितः । एष एव याचितान्वाहित
९० दण्ड्यः स भवेत् (स भवेद्दण्ड्यः); पमा. २८४; विचि. - ३८-३९ बहेतू (हरेत्); चन्द्र. ३२ यत्रार्थं सा (पत्रार्थं शो) बछेत् (हरेत्); व्यप्र.२८३ यत्रा (य: खा); सेतु. १३२ थं (र्षे) वहेत् (हरेत्); समु.८८.
(1) Vulg. नास्मृ. ५/८ इत्यस्योपरिष्टात्.
(२) नास्मृ. ५/१३; अभा.८३.
(३) नास्मृ. ५ | १४ शिल्पिषू (शिल्पे चो); अभा.८३ नास्मृवत्; मिता. २२६७; व्यक. १३४; विर. ९६; पमा. २८७ विचि. ३८३ स्मृचि. १५ एष एव विधिर्दृष्टो (एवं विधिश्व निर्दिष्टो); सवि.२६९१ चन्द्र. ३३ दिपु (र्थयोः) पू. व्यप्र. २८६-२८७; व्यम. ८५; विता. ५६२; समु. ८९.
७४९
शिल्पोपनिधिष्वपि । अत्र याचितं कार्यार्थ प्रार्थयित्वा यदानीतम् । अन्वाहितं पौलवृषभं अन्वाहितसारं कार्यमात्रं सारकं समर्प्य सारभूतो गुरुभरकरणार्थं च धुर्यकवृषभो यः समानीतो भवति स तदीयद्रव्यं अन्वाहितमुच्यते । अनु आहितमन्वाहितमिति । शिल्पे शिल्पि - हस्तसंस्करणमुक्तो न्यासो व्याचक्षते । प्रतिन्यासस्तु कस्यापि हस्ते निक्षिप्तं द्रव्यं सोऽपि कार्यकालापेक्षया यदन्यस्य हस्ते निक्षिपति स प्रतिन्यासः । एतेषु सर्वेष्वयमेव विधिरिति । अभा.८३
(२) न्यासो गृहस्वामिनो दर्शयित्वा तत्परोक्षे गृहजने समर्पितं धनम् । प्रतिन्यासः परस्परन्यासः । एष तावन्निक्षेपोक्तविधिः । विर. ९६
(३) एष एव विधिर्दृष्ट इति पूर्वोक्तातिदेशो याचितादिषु । ' स पुनर्द्विविध' इत्यारभ्य यावदयमतिदेशः सर्वो यथोक्तो द्रष्टव्यः निक्षेपप्रतिदानयाच्यमानादानस्वार्थसाधननाशेषु । याचितं विवाहाद्यभ्युदयकर्मसु वस्त्रालङ्कारादि । तस्य ग्रहणादारभ्य तुल्यो विधिः । अन्वाहितं अतदर्थं गमने आनुषङ्गिकं यत् समर्पितम् । तद्यथा - मथुरायाः कश्चित् स्वार्थं कन्याकुब्जं प्रस्थितः । तस्य हस्ते कन्याकुब्जस्थस्वं द्रव्यमिदमस्मद्गृहे देहीति समर्पितम् । तत्रापि साक्षिमदादिरेष एव विधिः । आदिग्रहणादाधिप्रणयादष्पृष्ट्वानीतमित्येवमादि । शिल्पिषु उपनिधौ शिल्पिषु सुवर्णकारादिषु कटकादि दत्वेयता कालेन दातव्यमिति । तत्राप्येष एव विधिः । निक्षेपोपनिधिभावोपन्यासः अर्थाभेदादिति केचित् । एवञ्च 'षडेते विधयः समा' इत्युपपद्यते अन्यथा अष्टौ समाः स्युरिति । अन्यैर्निक्षेपोपनिधी मुक्त्वा याचितादयः प्रक्ताः । तत्रापि न्यासः 'इदं त्वया रक्षितव्य'मिति निहितम् । प्रतिन्यासविषये प्रतिन्यासोऽपि 'यावदहं त्वदीयं रक्षामि तावदिदं मदीयं त्वमपि रक्ष' इति । एतयोरपि स एव विधिः । नाभा. ३।७ (४) अन्वाहितं स्वस्मिन् स्थितं परधनं अन्यहस्ते
कृतम् ।
व्यप्र. २८७
प्रतिगृह्णाति पोगण्डं यश्च सप्रधनं नरः । तस्याप्येष भवेद्धर्मः षडेते विधयः समाः ॥ (१) नासं. ३१८ भवेद्धर्म: (विधिर्दृष्टः ) ;
नास्मृ. ५/१५६