________________
तेनार्पणमप्यत्रत्यभावदोषपरिहारार्थत्वात् ' भूषणं न तु दूषणम् इत्यभिसंधायोक्तम् स्वयमेवेति । प्रत्यनन्तरे कालहीनमयाचितेन न देयं भावदोषापत्तेः । प्रत्यनन्तरबहुत्वे तु नैकस्मिन्प्रत्यनन्तरे देयम् । सर्वप्रत्यनन्तरसंनिधौ देयम् । तथा सति निक्षेप्तबन्धुभिः प्रत्यनन्तरभृतैरभियोक्तव्यो न भवति । स्मृच.१८२ राजदैविकचोरादि नष्टनिक्षेपविचार:
उपनिधिः
'चौरैर्हतं जलेनोढमग्निना दग्धमेव च । नि दद्याद्यदि तस्मात्स न संहरति किञ्चन ॥ (१) चौरास्तु वेदिता अवेदिता वा सुरङ्गभिदादिना यदि मुष्णीयुः कृतरक्षासंविधाने धारणिके स्वामिन एव नाशः । जलेनोढमुदकेन देशान्तरं नीतम् । मेधा.
(२) चौरैरित्यादि राजदैवोपघातोपलक्षणम् । किञ्चन अत्यमपि यद्यसौ न संहरति न गृह्णाति । एतेनाल्पस्यापि हरणे निक्षेपो दैवादिष्टोऽपि देय इत्युक्तम् । अत्र च यथाशतिरक्षणे क्रियमाणे दोषाभाव उक्तो न त्वक्रियमाणेऽपीत्यर्थ सिद्धत्वान्नोक्तम् । वि.
निक्षेपस्य तदपह्नवादेश्व प्रमाणनिरूपणम् निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च । सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः ॥ (१) हरति यो निक्षिप्तमसाक्षिकं योऽप्यनिक्षिप्य वावा याचते तमन्विच्छेत् । अन्वेषणा तत्वपरिज्ञाने यत्नः सर्वप्रमाणव्यापारेण, उपायाः प्रमाणानि सामादयो वा । तेन चलितवृत्तस्याप्रतिपद्यमानस्य ताडनबन्धनाद्यपि . महति धने चोरवत्तत्त्वप्रतिपत्यर्थ प्रयोज्यम् । न तत्वानि - श्वये निग्रहः । वैदिकग्रहणं स्तुत्यर्थम् ।
मेधा.
(२) वैदिकैः वेदोक्तैरग्न्यादिभिः ।
वि.
* व्यप्र. स्मृचवत् ।
व्यक.
(१) मस्मृ. ८ १८९ च (वा); अप. २२६६; १३११ स्मृच. १७९९ विर. ८८; पमा. २८२; वि.चि. ३७; चन्द्र. ३१-३२; वीमि . २।६७ नोट (भग्न); व्यप्र. २८२ च (वा); सेतु. १३१३ समु.८७-८८६ विव्य. ३२ कात्यायनः .
J
१५; व्यप्र. २८४; समु.८९.
१ व्यपनीथ. १ णा म. ३ पा.
७४१
अच्छलेनैव चान्विच्छेत्तमर्थ प्रीतिपूर्वकम् । विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥
(१) तद्वस्तु धनानन्तरसद्भावलक्षणवाक्छलादिपरिहारेणैव प्रीतिपूर्वेणावक्रगतिदिव्यादिदानेन निश्चिनुयात् । तस्य वा निक्षेपधारिणः शीलमवेक्ष्य धार्मिकोऽयमिति ज्ञात्वा सामादिप्रयोगेणैव प्रतिनिश्चिनुयात् न दण्डादिना दिव्यैर्वा । xगोरा. (२) अन्वेषणा निक्षेपादिरस्मिन् जनेऽस्तीत्यवधारणम् । स्वतस्तदच्छलेनैव भूतानुसरणेनैव कार्य न छलानुसारेण परिसाधनं ग्राहकसकाशादादानं तत्सद्वृत्तग्राहकविषये साम्नैव प्रियपूर्ववचसैव कार्य, न भयदर्शनादिना । वृत्तं विचार्य दुर्वृत्तग्राहकविषये तु छलानुसारेण वाऽन्विच्छेद्भयदर्शनाद्युपायान्तरेण छलादिना वा ऋणादानप्रकरणोक्तेन परिसाधयेदित्यस्मादेव वचनादवगम्यते । तथा सद्वृत्ते छलादिप्रयोगवच्छपथेन शोधनस्याप्यनुचितत्वम् । ग्राहके तु मृते पश्चाद्यदधीनमुपनिध्यादिजातं तेनैव स्थापके प्रत्यनन्तरे वा प्रत्यर्पणीयमित्येतदतिस्थूलत्वात् स्मृतिकारैरुपेक्षितमित्यस्मरणकारणमुन्नेयम् । यदि ग्राहकवदसौ स्वयं न ददाति तदा स्थापकः प्रत्यनन्तरो वा पूर्वोक्तमार्गेणान्विच्छेत् । संप्रतिपन्नं पूर्वोक्तप्रकारेण परिसाधयेत् । एतदपि स्मृतिकारैरनुक्तमूहेनापि ज्ञातुं शक्यत्वात् ।
मच.
*स्मृच.१८२ (३) अन्यथा धारिणः स्वतो लाभाद्यभावात्कोऽपि निक्षेपधारी न स्यादिति भावः । निक्षेपेवेषु सर्वेषु विधिः स्यात्परिसाधने || (१) निक्षेपेष्वपचयमानेष्वनन्तरोक्तो विधि ः 'साक्ष्यभाव' इत्यादिः परिसाधनाथ विज्ञेयः । ÷मेधा. (२) निक्षेपेषु निक्षितेषु याचितान्वाहितनिक्षेपादिषु ।
मवि
x ममु. गोवत् ।
+ गोरा., ममु. वाक्यार्थो मेधावत्
* व्यप्र. स्मृचवत् । (१) मस्मृ. ८११८७३ गोरा. (विचार्य तस्य वा देयं साम्नैव परितोषयन्); व्यक. १३३१ स्मृच. १८२; विर.
(२) मस्मृ. ८/१९०६ स्मृच. १८१६ पमा. २८५; स्मृचि. ९४ वृत्तं ( वृद्धिं); नृप्र. २४ विरवत् व्यप्र. २८६६ समु.८९.
(२) मस्मृ. ८ १८८ क, ख, ग. पुस्तकेषु त्परि (स्वरि) इति पाठ: समु.८९.