________________
७४०
व्यवहारकाण्डम्
।
मुद्रे नानुयात् किचिद्यदि तस्मान्न संहरेत् ॥ (१) समुद्रे निक्षेपेऽन्यदप्यस्मिन्भाण्डे द्रव्यमभून्नाशितं कृमिभिरित्यादिकं पर्यनुयोगं नाप्नुयान्निक्षेपधारी । तत्र धारणकस्य एवं मूषकादिनाशे द्रष्टव्यम् । यदि दारुमये भाण्डे वस्त्रादि स्थापितं तीक्ष्णदशनैर्मृप केर्दारु भित्वा भक्ष्येत न निक्षेपधारिणो दोषः । तत्रापि वासनपरिवेष्टितः स्थूलपोलको मुद्रितो यदि निक्षिप्येत यत्तदीये दारुभाण्डे नैव माति' तदा बहिर्मुकादिभक्षितेऽपि हि न दोषः । यदि चैतन्निक्षेमुर्ज्ञानं भवति, धारकेण परिभाषितं न मम भाण्डमन्यदस्ति, चरित्रज्ञो वाऽस्य निक्षेप्ता कदाचित्प्रत्यासत्या भवति । मेधा.
|
(२) मुद्रिते पुनः प्रत्यर्पिते निक्षेपधारी न किञ्चिदोषजातं प्राप्नुयाद्यदि तस्मादश्रवणप्रतिमुद्रादिना न किञ्चिदपहरेत् । * गोरा. (३) समुद्रे मुद्रासहिते प्रत्यर्पिते नाप्नुयात् किञ्चिदपहरणशङ्कादि । तथा अमुद्रेऽपि । मवि. निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे । नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥
(१) प्रत्यनन्तरे उत्पत्यनन्तर उच्यते, निक्षेप्तुः पुत्रो आता भार्या वा यस्य निक्षेप्तुर्द्रव्ये स्वाम्यमस्ति । भार्या यास्तावत् स्वाम्यमुक्तमेव पुत्रस्यापि पैतामहे भ्रातुश्चैक धनस्य । तत्र तेषां कश्चिद्याचेन्निक्षेतर्यसंनिहिते देहि नोऽस्माकीनमेतदिति । तत्र कश्चिदनया बुद्धया दद्यात् साधारणमेतत् एकेन निक्षिप्तमपरेण नीतमिति को दोष इति । अत उच्यते । न देयौ निक्षेपोप निधी प्रत्यनन्तरे । अर्थवादं हेतुसरूपमाह । नश्यतो विनिपाते तौ । विनिपातोऽन्य
त्वं प्रत्यनन्तरस्य देशान्तरगमनादि । तस्मिन् सति तौहीयेते । यदि तेन नीत्वा निक्षेप्तेः न दत्तं तदा तेन
* ममु., मच., व्यप्र., भाच. गोरावत् । (१) मस्मृ. ८।१८८६ व्यक. १३१; स्मृच. १७९ मुद्रे (मुद्रं); विर. ८६; पमा. २८३; व्यप्र. २८२,२८५; समु.८८.
(२) मस्मृ. ८११८५६ गोरा. ( नश्येतां विनिपाते वाsविनिपाते त्वनाशितौ); व्यक. १३११ विर.८७३ समु. ८९ उत्तरार्धे (न श्रुतोऽविनिपाते तौ निपाते त्वविनाशितौ).. १ न्ति २ नो. ३ ( प्रत्यनन्तरे ० ). ४ यावन्नि. ५.
पर्यनुयुक्तस्य धारणकस्य किमुत्तरं त्वदीयेन भ्रात्रैतद्धन साधारणस्वामिना नीतमिति, नैतदुत्तरम् 'यथा दायस्तथा ग्रह' इत्युक्तम् । येनैव निक्षिप्तं स्वामिनाऽस्वामिना वा तस्मा एव देयं तस्येवायं प्रपञ्चः । यदि तु प्रत्यनन्तरो विक्रियां न गच्छेत्तदा तद्दानेऽपि न दोषः । तदाह अनिपाते त्वनाशिनौ । तत्र ह्यस्त्युत्तरं, आनाय्य तस्मादर्पयामि । प्रत्यनन्तरेण नीते विनिपाते च तस्य, निक्षेत्रे याचमानाय स्वधनं दातव्यमिति श्लोकार्थः । *मेधा.
(२) उपनिधिर्भाण्डादिस्थः समुद्रः । निक्षिप्तो निक्षेप-स्त्वमुद्रः । उपनिधिपदं च याचिताद्युपलक्षणम् । अनाशिनौ प्रत्यर्पणीयौ केवलं त्वत्पुत्रे दत्तमिति विभाव्यमेव । Xमवि. (३) निक्षिप्यते इति निक्षेपः मुद्राङ्कितमगणितं वा यन्निधीयते स उपनिधिः ।
Xममु
स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे । न स राज्ञा नियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः । (१) जीवतस्तस्यै निक्षेपतुः प्रत्यनन्तरदानं नास्तीत्युक्तम् । मृतस्य तु यस्तद्धनमस्तीत्य विजानते स्वयं दद्यान्न स व्यवहारलेखनादिक्लेशनीयोऽन्यदप्यस्ति न वेद वेति । यदि, तस्याभविष्यदधिकमिदमिव तदपि अदास्यदिति न क्लिश्यते । अत्राप्याशङ्का यदि न निवर्तेत महाधनोऽसावभून्न चान्येन समं भुज्यते । प्रमाणान्तरं निश्चयाय विचारणीयम् । विषाग्न्यादिभिः शपथैर्नार्दनीयः । धटकोशसत्यतण्डुलास्तु न विरुध्यन्ते । न हि ते अतिक्लेशकराः । साक्ष्यभाव इत्यत्र द्वितीयो न्यासः । यश्च तयोर्न्यासः स इहापि द्रष्टव्यः । +मेधा.
(२) अनेन वचनेन वचोभङ्गया स्थापके मृते प्रत्यनन्तरे प्रत्यर्पणं ग्राहकेण कार्यमित्युक्तम् । अयाचि
* गोरा, विर., मच., नन्द, भाच. मेधावत् । X शेषं मेधावत् । + गोरा, मवि., ममु., विर., मच., नन्द, भाच. मेधागतम् ।
(१) मस्मृ. ८।१८६ ग. पुस्तके नियो (ऽभियो); स्मृच. १८२ नियो / sभियो); विर.८७ स्मृचवत्; विचि. ३७; स्मृचि. १४-१५ स्मृचवत् ; वीमि. २६७; व्यप्र. २८६ स्मृचवत्; व्यम.८५ स्मृचवत्; सेतु. १३१ स्मृचवत्; समु. ८९ स्मृचवत् ; विव्य. ३२.
१ ण्यक. २ मानशत् ३ स्मान्निक्षे.