________________
उपनिधिः
जाना:, यथाजातं यथोत्पन्नं, मूल्यं, उदयं लाभं च । करणपूर्वो निक्षेपधर्मः । करण हीनं निक्षेपमपव्ययदद्युः पण्यस्वामिने | मानं गूढभित्तिन्यस्तान् साक्षियो निक्षेता रहस्यप्रणिपातेन प्रज्ञापयेत्, दनान्ते वा मद्यप्रवणविश्वासेन ।
रहसि वृद्वो व्याधितो वा वैदेहकः कश्चित् कृतलक्षणं द्रव्यमस्य हस्ते निक्षिप्यापगच्छेत् । तस्य प्रतिदेशेन पुत्रो भ्राता वाभिगम्य निक्षेप याचेव । दाने शुद्धिः । अन्यथा निक्षेपं स्तेयदण्डं
देशकालातिपातने वेति । देशातिक्रमणे कालातिक्रमणे वा स्वकृते सति, परिहीगं लाभच्छेदं, संप्रदानकालिकेनार्येण क्लतकालप्रसिद्धमूल्यकल्पनेन, मूल्यं पण्यमूल्यं, उदयं च दद्युः । श्रीमू. यथासंभाषितं वा विक्रीणाना नोभयमधिगच्छेयुः । मूल्यमेव दद्युः । अर्धपतने वा परिहीणं यथापरिहीणं मूल्यमूनं दद्युः ।
सांव्यवहारिकेषु. वा प्रात्यविकेष्वराजवाच्येषु पोपनिपाताभ्यां नष्टं विनष्टं वा मूल्यमपि न : । देशकालान्तरितानां तु पण्यानां क्षयव्ययविशुद्धं मूल्यमुदयं च दद्युः । पण्यसमवायानां च प्रत्यंशम् । शेषमुपनिधिना व्याख्यातम् । एतेन वैयात्यविक्रयो व्याख्यातः ।
।
यथासंभावितं वेति । अमुकेनार्घेण विक्रेतव्यमिति स्वामिपरिभाषानुसारेण, कर्मकराः विक्रीणानाश्चेद्, उभयं मूल्य लाभ च, नाधिगच्छेयुः, अर्थात् पण्यस्वामिनः मूल्यमेव दद्युः मूल्यं केवलं पण्यस्वामिने दद्युः कर्मकराः, लाभं तु स्वयं हरेयुरित्यर्थः । अर्वपतने वा परिहीणमिति । अर्धपतनवशात् किञ्चित् परिहीणं यदि भवेत्, • यथापरिहीणं मूल्यमनं दद्युः परिही गानुरोधेन पण्यमूल्यमूनं पूरयित्वापयेयुः । सांव्यवहारिकेषु वेति । परपण्यक्रयविक्रयजीविषु, प्रात्यविकेषु प्रत्यपापु, अराजवाच्येषु राजाप्रतिविद्धेषु सत्सु पोपनिपाताभ्यां नपुं विन वा पण्यं, यदि भवेदिति शेषः, मूल्यमपि न दद्युः अर्थात् ते। देशकालान्तरितानां देशान्तरे कालान्तरे च विक्रेतुमर्पितानां पण्यानां, क्षयव्ययविशुद्धं क्षयः कालपरिवासनिमित्तः पण्यक्षयः व्ययः कर्मकरादिभक्तपरिव्ययस्ताभ्यां परिनष्टं, मूल्यं, उदयं च लाभं च दद्युः । पण्यसमवायानां च प्रत्यंशमिति । वणिजः स्वदत्तपण्यानि देशान्तरे विक्रीय ततः समानीतानां नानापण्यान्तराणां विषये प्रतिलाभांशं सांव्यवहारिकेभ्यो दद्युः । श्रीम. निक्षेपश्चोपनिधिना । तमन्येन निक्षिप्तमन्यस्यार्पयतो हीयेत । निक्षेपापहारे पूर्वापदानं निक्षेसारश्च प्रमाणम् । अशुचयो हि कारवः, नैषां
७३७
च दद्यात् ।
प्रव्रज्याभिमुखो वा श्रद्धेयः कश्चित् कृतलक्षणं द्रव्यमस्य हस्ते निक्षिप्य प्रतिष्ठेत । ततः कालान्तरागतो याचेत । दाने शुचिरन्यथा निक्षेपं स्तेयदण्डं च दद्यात् । कृतलक्षणेन वा द्रव्येण प्रत्यानयेदेनम् । बालिशजातीयो वा रात्रौ राजदायिकाङ्क्षणभीतः सारमस्य हस्ते निक्षिप्यापगच्छेत् । स एनं बन्धनागारगतो याचेत । दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात् ।
अभिज्ञानेन चास्य गृहे जनमुभयं याचेत । अन्यतरादाने यथोक्तं पुरस्तात् । द्रव्यभोगानामागमं चास्यानुयुञ्जीत । तस्य चार्थस्य व्यवहारोपलिङ्गनमभियोक्तुश्चार्थसमर्थ्यम् ।
एतेन मिथस्समवायो व्याख्यातः । तस्मात् साक्षिमदच्छन्नं कुर्यात् सम्यग्विभाषितम् । स्वे परे वा जने कार्य देशकालाय वर्णतः ॥
निक्षेपश्चेति । भूषणादिनिर्माणार्थं कारुषु निक्षिप्य - माणं स्वर्णादिकं निक्षेपः, सः, उपनिधिना व्याख्यात इत्यनुवर्तते । तमिति । तं निक्षेपम् । अन्येन निक्षितं, अन्यस्यार्पयतः तदन्यस्मै ददानस्य कारो:, हीयेत द्रव्यहानिभवति साक्षान्निक्षेप्तृहस्ते स पुनर्देय एवेत्यर्थः । निक्षे पापहारे, पूर्वापदानं निक्षेप्तारश्च प्रमाणं कापूर्व निक्षेपतृसुजनतां च पर्यालोच्य निर्णयः कर्तव्य इत्यर्थः । कुत एवं तत्राह - अशुचयो हीति । हि यतः, कारवः अशुचः सत्यहीनाः । एषां निक्षेपधर्मः निक्षेपव्यवहारः, करणपूर्वी न साक्षिलेख्यपूर्वी न क्रियते विश्वासादेव केवलात् क्रियते । करणहीनमिति । साक्ष्यादिरहितं निक्षेपं, अपव्ययमानं अपलपन्तं कार्य, गूढ भित्तिन्यस्तान् साक्षिण;