________________
ऋणादानम् - ऋणोद्ग्राहणम्
प्रत्यादास्यामीति प्रयुङ्क्ते स उत्तमर्णः । संबन्धि शब्दावेतौ । अधमर्णस्यार्थः । अथ धनं प्रकरणाद्यदेवोतमणीय देयं तदेवोच्यते । तस्य सिद्धिरुत्तमर्णे प्रति निर्याणम् । द्वितीयोऽर्थशब्दः प्रयोजनवचनः । अयं समुदायार्थः । उत्तमर्णेन यदा राजा चोदितो ज्ञापितो भवति अधमर्णेन यो गृहीतोऽर्थः स मे सिद्धयतु, दापयतु भवान् राजा त्वधमर्णात्तदा दापयेद्ध निकस्यार्थम् । धनमस्यास्तीति धनिकः । उत्तमर्ण एव च प्रसिद्धया धनिक उच्यते | दापयेदिति संबन्धाच्चतुर्थी प्राप्ता । सा त्वपूर्ण वात्संप्रदानभावस्य न कृता । यथा नतः पृष्ठं ददाति । रजकस्य वस्त्रं ददातीति । न ह्यत्र मुख्यो ददात्यर्थ: । इहाप्युभयोः स्वत्त्वस्य भावादुभयोः स्वत्त्वाभावादपरि । पूर्णो ददातीत्यर्थः । किमुत्तमर्णवचनादेवासौ दापयितव्यः । नेत्याह । विभावितमिति । यदा निश्चितेन प्रमाणेन धारयतीति प्रतिपद्यते । अथवा विभावितः स्वयंप्रतिपन्नः । यतो 1 विप्रतिपन्नस्य वक्ष्यति ‘अपह्नवेऽधमर्णस्येति' । कथं पुनः स्वयंप्रतिपन्नो विभावित इत्युच्यते । नैष दोषः । विस्मरणे स्वहस्तलेख्यादिना स्वयं प्रतिपन्नश्च भवति, विभावितश्च अप्रतिपन्नश्च जानानोऽपि मिथ्याप्रतिपन्नः । मेधा.
(२) अधमर्णेन धनग्राहिणा गृहीतं तत्प्राप्त्यर्थं धनस्वामिना राजा ज्ञापितः सन् वक्ष्यमाणलेख्यादिना प्रति 'पादितं धनं धनस्वामिनोऽधमर्ण दापयेदित्युत्तरप्रपञ्चस्यैवायं सामान्यनिर्देशः | *गोरा. अर्थेऽपव्ययमानं तु करणेन विभावितम् । दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः ॥
(१) सत्यपि विभाव के प्रमाणे, यो न स्वयं प्रति
* मेधावद्भावः । ममु., विर, मच, नन्द, भाच. वाक्याथों गोरावत् ।
।
(१) मस्मृ.८।५१; मेधा. करणे (कारणे); गोरा. पूर्वार्धे ( अर्थे विवदमानं तु करणेन विभावयेत् ); व्यक. १२७९ स्मृच. १२२ मेधावत्; विर. ७६; पमा. २०२३ व्यचि.९६ मेधावत; दवि. ३५१ मेधावत् व्यत. २३१ मेधावत्; सवि. ४९४ अर्थेऽपव्यय (हस्तेऽपलप) स्मृत्यन्तरम् ; व्यसौ . ९२ मेधावत् वीमि २।११; व्यप्र. २७८ मेघावत् सेतु. ११४११५ मेघावत्; प्रका. ७७ मेधावत्; समु. ६७ मेधावत्. १ (शापितो ० ).
व्य, का. ९१
७१९
पद्यते, न तस्य छलाद्युपायप्रयोगः कर्तव्यः । किं तर्हि ? राजैव तेन ज्ञापयितव्यः । तत्र राज्ञाऽऽकारितेऽर्थे ऋणेऽपव्ययमानमपहुवानं नास्मै किंचन धारयामीति वदन्तं कारणेन साक्षिलेख्यशपथात्मकेन, विभावितं धारयामीति | प्रतिपादितं, दापयेदुत्तमर्णाय धनं, दण्डलेशं च स्वल्पं दण्डं दण्डमात्रमित्यर्थः । अन्यत्र दशमं दण्डभागं वक्ष्यति । यस्तु तावद्दातुमशक्तः सोऽल्पमपि दशमाद्भागाद्दण्डं दापयितव्यः । अथवा यः प्रमादात्कथंचिद्विस्मृ त्यापजानीते तस्यायं यथाशक्ति दशमभागाल्पतो दण्डः । कारणं प्रमाणं त्रिविधम् । तदन्यैरिह संभवतीति परिगणितम् । तथा चाहु:- 'यत्र न स्यात्कृतं पत्रं साक्षी चैव न विद्यते । न चोपलम्भः पूर्वोक्तो दैवी तत्र क्रिया भवेत् ॥ इति । +मेधा (२) नाहमस्मै धारयामीत्येवं धने विप्रतिपद्यमानं अधमर्णे, करणेन लेख्यसाक्षिशपथात्मकेन, प्रतिपादितमुत्तमर्णस्य धनं दापयेत् । दण्डलेशं चापह्नवे द्विगुणमिति वक्ष्यमाणाद्दशमभागान्न्यूनमपि शक्त्यपेक्षया दाप येत् । *गोरा.
(३) तद्दशमांशदण्डदानासमर्थसद्वृत्ताधमर्णविषयमित्युक्तं तद्भाष्ये । कारणेनेति वदन् द्विपाद्व्यवहारे त्वर्थदापनमेव । न दण्डदापनम् । तत्र निह्नवमिथ्याभियोगयोरभावादिति दर्शयति । एवमेव चतुष्पद्यपि व्यवहारे शंकाभियोगाऽज्ञानोत्तरादिना मिथ्याभियोगनिह्नवाभावे दण्डाभावोऽध्यवसेयः । यत्तु स्मृत्यन्तरं 'आवे तु दण्डपादस्य द्वितीयेऽधै तृतीयके । पादन्यून चतुर्थे च पादे संपूर्णदण्डभाक् ॥ इति तद्वगीत - त्वादप्रमाणमिति प्रपञ्चितं विश्वरूपाचार्येण । अतो निह्नवमिथ्याभियोगनिमित्तो दण्डः चतुष्पद्येव व्यवहारे निमित्तसद्भावविषये ग्रहीतव्यः । तत्र ऋणादानविषयव्यवहारे दण्डविषयो दर्शितः । निक्षेपादिविषयव्यवहारे तु दण्डविशेषः तत्र तत्र पदे वक्ष्यते । यत्र तत्स्यात्कृतं यत्र करणं च न विद्यते । न चोपलम्भः पूर्वोक्तस्तत्र दैवी क्रिया भवेत् ॥
स्मृच. १२२
+ मवि., नन्द्र मेधावद्भावः ।
* ममु., विर गोरावत् ।
मस्मृ. ८।५१ इत्यस्योपरिष्टात् प्रक्षिप्त श्लोकोऽयम् ।