________________
ऋणादानम्–ऋणोद्ब्राहणम्
।
(१) ईहाप्राप्तार्थादुत्तमर्णाद्राज्ञे भागं वक्ष्यत्यधमर्णा- । द्दण्डम् । तत्र स्वभागतृष्णया राजान उपायान्तरेण धनमार्गणं धनिकानां कारयेयुरतस्तन्निवृत्यर्थमिदमुच्यते । यैर्यैर्वक्ष्यमाणैरुपायैः स्वधनं पूर्वप्रयुक्तमुत्तमर्णो लभेत तैस्तैरधमर्ण दापयेत् । संगृह्य स्थिरीकृत्य । अनेनैवोपायेनैतस्मादेतल्लभ्यत इत्येतन्निश्चित्येत्यर्थः । अथवाऽनुकूलमुपसांत्वनं ग्रहः । उत्तमर्ण एव उत्तमर्णिकः । उत्तमं च तदृणं चोत्तमर्णं तदस्यास्तीत्युत्तमर्णिकः । 'अत इनिठनाविति' (व्या. सू. ५/२/१२) रूपम् । एवमितरावपि सर्वधनादिषु प्रक्षेप्तव्यावन्यत्र वीरपुरुषको ग्राम इतिवद्बहुव्रीहिणैव सामानाधिकरण्यस्य मत्त्वर्थे चोक्तार्थाविशेषेण समासः । मत्वर्थीयश्च दुर्लभः । वृद्धिलाभार्थं प्रयोगविषयं धनमृणम् । द्वौ च तस्य संबन्धिनौ प्रयोक्ता ग्रहीता च । प्रयोजकस्य च तदुत्तमं भवति । स्वतन्त्रो धनदाने प्रत्यादाने च । इतरस्य सोपचयदानाद्वह्वायासत्वाच्चाधमत्वम् । व्युत्पत्तिमात्रं त्वेतत् । रूढयैव त्वेतौ प्रयोक्तृग्रहीत्रोर्वाचकौ । के पुनस्तत्रोपाया इत्येतत्प्रदर्शनार्थं उत्तरश्लोकः । मेधा (२) उत्तमर्णो यैर्यैरुपायैः स्वधनं लभते तैस्तैरुपायैः अधम निगृह्य तमर्थ दापयेत् । गोरा. (३) यैर्वक्ष्यमाणैरुपायैः संप्रयुक्तमर्थमुत्तमर्णो लभते तैस्तैरुपायैर्वशीकृत्य तमर्थ दापयेत् । (४) दापयेद्राजेति शेषः ।
ममु. मच.
पञ्च स्वधनोद्ग्राहणोपायाः धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थ पञ्चमेन बलेन च ॥
स्मृच. १६४, विर. ६७ मर्णि (मर्ण) दापयेदधमणि ( साधदधमर्ण); विचि. ३१ दाप ( साध); स्मृचि. १२ विचिवत्; व्यप्र. २५६ विचिवत् ; सेतु. ३३ विचिवत्; प्रका. ९६६
|
समु. ८२.
(१) मस्मृ. ८ ।४९; मिता. २।४०; अप. २।४०; व्यक. १२४६ स्मृच. १६६ छलेना (छद्मना ); विर. ६७ धर्मे (धर्म्ये); पमा. २५६३ विचि. ३१; स्मृचि. १२६ नृप्र. १९ छळेनाचरितेन ( फलेन चतुरेण ); वीमि . २२४०६ १५६,२५९; व्यउ. ७६ तेन च (तेन वा) शेषं विरवत्; विता. ४११; सेतु. ३३; प्रका. ९७ स्मृचवत्; समु.८२. १ नेहा.
व्यप्र.
فارق
(१) तत्र धर्मस्कन्धकरीत्या स्तोकं स्तोकं ग्रहणं, इदमद्य, इदं श्वः, इदं परश्वः, यथा कुटुम्बसंवाहोऽस्यैवं वयमपि तव कुटुम्बभूताः संविभागयोग्या इत्यादि पठितप्रयोगो धर्मः । यस्तु निःस्वः स व्यवहारेण दापयितव्यः । अन्यत्र कर्मोपकरणं धनं दत्वा कृषिवाणि - ज्यादिना व्यवहारयितव्यः । तत्रोत्पन्नं धनं तस्माद्ग्रहीतव्यम् | यस्तु व्यवहारो राजनिवेद्यस्तस्य सर्वोपायपरिक्षये योज्यत्वाद्वैलग्रहणेन च गृहीतत्वात् । यस्तु साक्षान्न ददाति विद्यमानधनोऽपि स छलेन दापयितव्यः । केनचिदपदेशेन विवाहोत्सवादिना कटकाद्याभरणं गृहीत्वा न दातव्यं, यावदनेन तद्धनं न दत्तम् । आचरितमभोजनगृहद्वारोपवेशनादि । बलं राजाधिकरणोपस्थानम् । तत्र राजा साम्नाऽप्रयच्छन्तं निगृह्य च प्रपीड्य दापयतीति । न तु स्वगृहबन्धनादि बलं, यतः 'प्रकृतीनां बलं राजा' इति पठ्यते अस्मिन्नेव प्रसङ्गे उशनसा । अन्ये तु राज्ञ एवायमुपदेश इति वर्णयन्ति । राजधर्मप्रकरणात् । राजा ज्ञापित उपायैरेनं दापयेत्पराजितं स्वयंप्रतिपन्नं च । न तु सहसाऽवष्टभ्य सर्वस्वं धनिने प्रतिदापनीयः । यत उभयानुग्रहो राज्ञा कर्तव्यः । सर्वस्वादाने चाधमर्णस्य कुटुम्बोत्सादः स्यात्सोऽपि न युक्तः । उक्तं हि 'नावसाद्य शनैर्दाप्यः काले काले यथोदयम् | ब्राह्मणस्तु विशेषेण धार्मिके सति राजनि ॥ इति, तस्मात् कंचनैवृद्धयशं संदापनीयः । कुटुम्बादधिकधनसंभवे सर्व दापनीयः । सर्वासंभवे च 'कर्मणाऽपि समं कुर्यात्' इति । अस्मिन् व्याख्याने छलाचारौ राजानमज्ञापयित्वा न कार्यों । मेघा. (२) कैः पुनस्तैरित्यत आह- धर्मेणेति । यदधमर्णस्य प्रयुक्तं धनं तद्धर्मेण प्रीत्या, व्यवहारेण वक्ष्यमाणेन, छलेनोपधिपूर्वकं प्रतिद्रव्यग्रहणेन, आचरितेनाभोजनादिना, बलेन गृहावरोधादिना पञ्चमेनोत्तमर्ण साधयेत् । गोरा. (३) धर्मेण प्रीतियुक्तेन सत्यवचनेन । व्यवहारेण साक्षिलेख्याद्युपायेन । छलेन उत्सवादिव्याजेन भूषणादि •
१ कर्णोदकवद् २ व्यम्. ३ द्वाल. ४ नु.५ संबन्धिधनादि. ६ किंचनबुद्ध्या.