________________
ऋणादानम् - ऋणप्रतिदानम्
धुर्यश्चेति गुणप्रधानभावेन वर्तमाननानापुत्रविषयम् । स्मृच. १६९ तत्तस्यां दशायां दायार्हपुत्रस्य अनधिकारप्रदर्शनार्थं न तु दायानर्हपुत्रस्य, व्यसनोपप्लुतत्वाद्यवस्थायामेव धनप्राहादिरुक्तक्रमेण ऋणभाक् । अन्यत्र तु दायाहपुत्र एवं प्रथमतः, पश्चाद्धनग्राहादिरिति क्रमान्तरविधा नार्थं तस्यात्राश्रुतत्वात् । आदौ दायानर्हपुत्रदानासामंजस्याच्च । यत्पुनस्तेनैवोक्तम् -- ' पूर्व दद्याद्धनग्राहः पुत्रस्तस्मादनन्तरम् । योषिद्ग्राहः सुताभावे पुत्रो वा - ऽत्यन्तनिर्धनः' || इति ब्रद्योषिद्ग्राहापेक्षयाऽत्यन्तबहुधनो यः पुत्रस्तस्य धनग्राहानन्तर्यार्थमिति रुद्धम् । न च योषिद्ग्राहदानाधिकारशास्त्रान्यथानुपपत्या वोषिग्रहणमपि पूर्वपतिकृतमृणं दातुं शास्त्रीयमिति शङ्कनीयम्। यतो रागप्राप्तयोषिद्ग्रहणसंभवात् न शास्त्रस्यानुपपत्तिरित्याह संग्रहकार : - 'यस्तु दद्यादृणं वोढुः पुनर्भस्वैरिणीपतिः । न तेन तदुपादानं शास्त्रतो विहितं भवेत् ॥ (३) धुर्यः ऋणोद्वहने समर्थः । व्यसनाभिप्लुतत्वादिमति यंत्र द्रव्यहृद् दृश्यते, तदा तं दापयेदिति योजना । विर. ६४
सर्वमवि
स्मृच.१७२-१७३
(४) तदयं संक्षेपः । धनस्त्रीहारिणोरपि सत्वे द्रविगार्हो धुर्यश्च स एव । अनीदृशपुत्रसत्त्वेऽपि धनहारी । • धेनहार्यभावे पूर्ववत् । पुत्रसत्वेऽपि स्त्रीहारी । उभयोभावेऽयोग्योऽपि पुत्र एवाधम दद्यात् । विचि. २७
।
(५) सत्यपि दायार्हे पुत्रे तस्य यदा दुश्चिकित्स्य - रोगाद्युपद्रवेण बाल्येन वा ऋणदानासामर्थ्य तस्यामवस्थायां तत्पितृधनं स्वसमीपे यः स्थापयति पितृव्यादिः | सणं दद्यात् । तस्याभावे योषिद्याहो दद्यादित्याह से एवं ऋणं त्विति ।
व्यप्र. २७१-२७२
'अमतेनैव पुत्रस्य प्रधना याऽन्यमाश्रयेत् । पुत्रेणैवापहार्यं तद्धनं दुहितृभिर्विना || ऋणार्थमाहरेत्तत्तु न सुखार्थं कदाचन । 1. अयुक्ते कारणे यस्मात् पितरौ तु न दापयेत् ॥ X चन्द्र विचिवत् ।
७११
स्वपुत्रं तु जह्यात् स्त्री समर्थमपि पुत्रिणी । आहृत्य स्त्रीधनं तत्र पित्र्यर्ण शोधयेत् मनुः ॥
अमतेन असंमत्या । प्रधना प्रकृष्टस्त्रीधना । दुहितृभिर्विना दुहितृणामभावे । या स्त्री समर्थमपि पुत्रं परित्यज्य स्त्रीधनमादाय पुत्रस्य असंमत्या पुरुषान्तरं श्रितवती, तस्याः स्त्रीधनमपि आच्छिद्य पुत्रेण ऋणं शोधनीयमिति तृतीयवाक्यार्थः । समर्थमपीत्यनेन असमर्थ - मपि । पुत्रपरित्यागे तु तस्याः स्त्रीधनं पुत्रेणाच्छेत्तव्यमिति दर्शितम् । विर. ६५ बालपुत्राधिकार्था च भर्तारं याऽन्यमाश्रिता । आश्रितस्तदृणं दद्याद्वालपुत्राविधिः स्मृतः ॥ * दीर्घप्रवासि निर्बन्धुजडोन्मत्तादि लिङ्गिनाम् । जीवतामपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः ॥ दीर्घप्रवासप्रभृतीनां या स्त्री यच्च द्रव्यं तद्ग्राहकैरित्यर्थः 1 विर.६६
- (१) व्यक. १२४, विर. ६४; चन्द्र. २७ तृभिः (तरं). (२) व्यक. १२४; विर. ६५; चन्द्र. २७ तत्तु (तन्तुं ) खार्थ (खाय) पू.
म्य. का. ९०
आपद्ग्रस्त पित्र पुत्रैर्देयम् विद्यमानेऽपि रोगार्ते स्वदेशात्प्रोषिते तथा । विशात्संवत्सरादेयं ऋणं पितृकृतं सुतैः ॥
(१) विशात्संवत्सरात् प्रवासादारभ्येति शेषः । कुत्र गत इति अज्ञाते सुतैर्देयं अन्यत्र प्रस्थापनादिनाऽपि पित्रैव दातुं शक्यत्वात् । रोगार्ते तु स्वरूपसंख्यादि
(१) व्यक. १२४; विर. ६५.
(२) अप. २।५१; व्यक. १२४; स्मृच. १७४ भर्ता (त्राता); विर. ६६; पमा २७५ र्था च भर्तारं (र्या वा भयार्ता) ; स्त्रवि. २६३ धिकार्या (दिकर्ता ) भर्ता ( त्राता) ता (ताः) विधिः स्मृतः (दिविश्रुतम् ); व्यप्र. २७५ च (या) याऽन्य (चाऽन्य); समु
८५ स्मृचवत्.
(३) अप. २।५१ न्धु (न्ध) तादि (तार्त) व्य ( व्यं); व्यक. १२४; विर. ६६६ विचि. ३० वता (विना); चन्द्र. २६ जडोन्मत्तादि (प्रजडोन्मत्त); वीमि. २ ५१ निर्बन्धु (निर्धूत); सेतु. ३२ विचिवत्; विषय. ३० त्तादि (तान्ध).
(४) अप. २।५० तथा ( sपि वा ); व्यक. ११९ तथा (स्वत:); स्मृच. १६९; विर.५० नेsपि (ने तु); पमा. २६४; दीक.३६ नेऽपि (ने च); नृप्र. २० नेऽपि (ने. तु) शात् (शत् ); सवि. २५६ तथा ( ऽथवा ) शात् (शत् ); व्यप्र. २६५ पू. ; व्यम. ८ २ तथा (ऽथवा) सुतै: (तथा); विता. ५११ शात् (शत् ); सेतु.२६ स्मृचवत्; प्रका. ९८; समु. ८४०