________________
ऋणादानम्-ऋणप्रतिदानम्
६८९
प्रथमपुनर्भूग्राही, प्रकृष्टधनयुक्त स्त्रीहारीत्येका कोटि : | न्येन रिक्थग्राहिणा सह कदा वा स समावेशः संभवति । अपि च पुत्रहीनस्य रिक्थिन इति पदं त्रिभिरपि संबध्यते द्वाभ्यामेव वा । प्रथमे पुत्र इति व्याघातस्य मुख्यमुदाहरणम् । द्वितीये भिन्नविषयता, तेषामप्यसमावेश इत्येतदपि इति । तन्मन्दधियां धनमात्रम् । रिक्थग्रहणार्हपुत्रसत्वे एतद्वचनाप्रवृत्तेः पुत्रहीनस्येति त्रिभिरपि संबध्यते । न च पुत्रहीनस्य पुत्र इति व्याघातः । पुत्रहीनस्य रिक्थग्रहणार्हपुत्रहीनस्य पुत्रो रिक्थग्रहणानर्हपुत्र इत्यर्थस्योक्तत्वात् ।
निरपत्यनिर्धनयोषिद्ग्राहीत्यन्या कोटि: । एवं स्थिते प्रथमकोट्यन्तर्भूतयोषिद्ग्राहाभावे पुत्र ऋणं दाप्यत इत्यभिधीयते 'पुत्रोऽनन्याश्रितद्रव्य' इत्यनेनेत्याह । अन्तिमस्वैरिणीग्राहिण इति । पुत्राभावे द्वितीयः कोप्यन्तर्भूतो योषिद्ग्राह ऋणं दाप्य इत्यभिधीयते । 'पुत्रहीनस्य रिक्थिन' इत्यनेनेत्याह । पुत्राभावे तु निर्धन इति । x सुबो.
व्यप्र. २७०
(७) अतो योग्योऽपि पुत्रोऽनन्याश्रितधन एव ऋणं दाप्यः तेन पितुरधिकारे यो निषिच्यते स एव तां धुरमुद्वहति तस्यैव देयं नापरपुत्रस्य । तदयं संक्षेपः । धनस्त्रीहारिणोरपि सत्वे द्रविणा धुर्यश्च स एव । अनीदृशपुत्रसत्वेऽपि धनहारी । धनहार्यभावे पूर्ववत् पुत्रसत्वेऽपि स्त्रीहारी । उभयोरभावेऽयोग्योऽपि पुत्र एवाधमण्यै दद्यात् । *विचि. २७ (८) अस्यार्थः– पुत्रहीनस्य योग्यपुत्रादिविधुरस्य रिक्थिनो धनवतो मृतस्य यदृणं तद्रिक्थग्राही दाप्यः । राजेति शेषः । प्रातिनाशे तद्दायहरो भ्रात्रादिर्दापनीय इत्यर्थः । तदभावे योषिद्ग्राहः । यश्च तिसृणां स्वैरिणीनां अन्तिमां यश्च पुनर्भुवां तिसृणां स्वैरिणीनां प्रथमां तदीयां योषितमतिक्रान्तनिषेधः परिगृह्णाति स योषिद्ग्राहः । तदभावे अनन्याश्रितद्रव्यः । अन्यं आश्रितमप्राप्तं तद्रव्यं यस्य सोऽन्याश्रितद्रव्यः । स्वगामिधन इत्यर्थः। ततो नञ्समासे तद्विपरीतः । परप्राप्तदायः क्लीवत्वादिदोषैर्दायहरणायोग्यं (?) यो विधीयते स च दाप्य इति । अत्रेदमाशङ्कयते यदा न सन्ति पुत्रादयः कस्तदीयमृणमपाकुर्यादित्यस्यामाकाङ्क्षायां अन्यान् कर्तृन् क्रमिकान् निरूपयितुमिदं वचनमारभ्यत इति मदुक्तरीत्या ऋजुमार्गेण व्याख्याने सिद्धे वक्रमार्गानुसरणं हेयम् ।
|
-
सवि. २६०-२६२ (९) अत्र कश्चिद्वादभयङ्करकृदाह - 'अहो बत जगत्ख्यातविज्ञानेश्वरयोगिनः । पूर्वापरविरोधेऽपि नानुसंधानमद्भुतम् ॥ रिक्थग्रहणार्हस्य गृहीतरिक्थस्य पुत्रस्या
x बाल सुबोवत् । * चन्द्र विचिगतम् । वीमि विचिवद्भावः ।
ऋणप्रतिदाने कृते उपगतपत्रग्रहणादिविधिः
'लेख्यस्य पृष्ठेऽभिलिखेद् दत्त्वा दवर्णिको धनम् । धनी वोपगतं दद्यात्स्वहस्त परिचिह्नितम् ||
(१) एवञ्च न्यायागमपरिनिष्ठितप्रामाण्यस्य - लेख्यस्येत्यादि । यन्मूल्यात् कालान्तराद्वा दद्यात्, तत् तस्यैव पत्रस्य पृष्ठे लेखयेत् । धनिको वान्यत् स्वहस्तपरिचिह्नितमृणिकायोपगतं दद्यात् । अन्यथा दत्तमप्यदत्तं विश्व. २।९६ स्यात् । (२) एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदा कृत्स्नमेव ऋणं दातुमसमर्थस्तदा किं कर्तव्यमित्यत आह, लेख्यस्येति । यदाऽधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्त्यनुसारेण दत्वा पूर्वकृतस्य लेख्यस्यः पृष्ठेऽभिलिखेत् एतावन्मया दत्तमिति । उत्तमर्गो वा उपगतं प्राप्तं धनं तस्यैव लेख्यस्य पृष्ठे दद्यादभिलिखेत्
* वचनव्याख्यानं मितावत् स्मृचवच्च ।
(१) यास्मृ. २।९३; अपु. २५५/२६ दत्वा... धनम् (प्रविष्टमधमणिनः) वो (चो); विश्व. २।९६ दत्वा धनम् (प्रविष्टमधमर्णिकात् ); मिता; व्यमा. ३१५ दत्वर्णिको धनम् (दत्वा धनं ऋणी) वो (चो); अप; व्यक. १२९ व्यमावत् ; उत्त.; विर.८० व्यमावत्; स्मृच. १६२-१६३ : १६४ स्मृसा.९८ ष्ठेऽभि (ष्ठतो) दत्वर्णिको धनम् (दत्वा धनं ऋगी) कात्यायनः ; पमा. १३८ ऽभि (वि) : २६० पू.; स्मृचि.४४ पृष्ठेऽभिलिखेत् (पृष्ठतो लेख्यं) शेषं व्यमावत् ; नृप्र. १९ ऽभि (वि) दत्वर्णिको (तदृणिनो) पू.; सवि。२५४ वो (चो ) उत्त., स्मृति: : २५९ ख्य ( ख ) दत्त्वा (यद्वा); मच.८|१६४; वीमि व्यप्र. २७६; व्यउ. ४५ वो (चो); व्यम. ८१; विता.१३४ दत्वा ... धनम् (दत्वोत्तमर्णिके धनम् ); सेतु. ३९ चिह्नि (निष्ठि) शेषं व्यमावत्; प्रका. ९५; समु.८१,