________________
ફૂટફૂ
योजनीयम् । अस्यापवादमाह - आधिस्तु भुज्यत इति । सबन्धकेऽपि पत्रारूढं ऋणं त्रिभिरेव देयमिति नियमाणापाकरणानधिकारेणाध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते । यावच्चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावदेवाधिर्भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्था देरप्यधिकारो दर्शितः । नन्वेतदप्युक्तमेव फलभोग्यो न नश्यती 'ति । सत्यम् । तदप्येतस्मिन्नसत्यपवादवचने पुरुषत्रयविषयमेव स्यादिति सर्वमनवद्यम् । #मिता.
(३) पुत्रपौत्रैर्ऋणं देयमित्युक्तत्वात् । अत एवाय मनुवादः । आधिस्तु भुज्यते तावदित्यादि विधानार्थम् । न ह्याधिगतमृणं पुरुषसंख्यानियमविषयं भवति । एवं च यद्वारीतेन – 'लेख्यं यस्य भवेद्धस्ते भोगं तस्य विनिर्दिशेत्' इति निरवधिकमुक्तं, तदाधिविषयं ग्राह्यम् । एतद्वचनमन्तरेण हि फलभोग्यो न नश्यतीति वाक्यं पुरुषत्रयविषयं स्यादिति तन्निवृत्त्यर्थोऽर्थवानेष वाक्या
व्यवहारकाण्डम्
विना योऽस्य भार्या संगृह्णीयात्, स दद्यात् । एतच्चाब्राह्मणविषयम् । तद्योषितामेवान्यगामित्वसंभवात् । तथैव चेति धनग्राहिवदविकल्पयन् योषिद्यापि दद्यादित्यर्थः। तदेव हि द्रव्यं द्रव्यहीनस्येत्यभिप्रायः । एतस्मादेव चातिदेशात् रिक्थाभाव एव योषिद्ग्राहादयः प्रत्येतव्याः । पुत्रोऽनन्याश्रितद्रव्य इति । अन्यस्मिन् नाश्रितं द्रव्यं यस्य असावनन्याश्रितद्रव्यः पुत्रो दद्यात् । न चेद् द्रव्यमन्येन गृहीतमित्यर्थः । न त्वद्रव्यस्यैव पुत्रो दद्यात् । ऋणस्य द्रव्यानुसारित्वादित्येतत् प्रागेव ज्ञापितम् । किमिदं पुनरनन्याश्रितद्रव्य इति । मैवम् । प्रागप्येतत्पदानुसारादेवं व्याख्यातम् । अतिदेशादभ्युच्चय एव । अथवा बहुपुत्रस्य यद्येकः पितृधनमितरानुमतो गृह्णीयात् तदा धनग्राहिण इतरेषां
रम्भः ।
+ अप.
(४) तुशब्देन ऋणमित्यत्राऽन्वितेन प्रातिभाव्यागते पौत्रदेयत्वं व्यवच्छिद्यते । आधिर्भोग्याधिः । वीमि. रिक्थग्राहयोषिद्ग्राहानन्याश्रितद्रव्यपुत्रादीनामृणप्रतिदातृत्वम् 'रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ||
तुल्यमृणभाक्त्वं, यतोऽन्यैरपि स्वेच्छया. स्वांशोत्सङ्कलनं कृतमिति इमामाशङ्कां निरस्यति - पुत्रोऽनन्याश्रितद्रव्य इति । येनैव पुत्रेण द्रव्यमाश्रितं स एव दद्यात् । नान्योऽनुमन्ताऽपीत्यर्थः । अत एव च ज्ञायते भागशः पुत्रा ऋणं दद्युरिति । ज्येष्ठो वा भूयो दद्यात्, रिक्थविभागे विशेषदर्शनाद् इत्येषा दिक् । सर्वथा धनप्राप्तिसंबन्धानुसारेणैव हि ऋणसंगतिः । तथैवाऽपुत्रस्याप्यन्ये रिक्थभाज एवर्णभाजः ऋणभाक्त्व
ग्राह ऋणमित्यादि । रिक्थानुसारित्वाद् ऋणानां रिक्थग्राहिण एव निर्विचिकित्स | निर्धनस्य तु नियोगाद्
दद्युः
* विता. मितागतम् । बिर. अपवत् ।
|
(१) यास्मृ.२।५१; अपु.२५४१५३ अभा. ३७ क्थग्राह (क्थग्राही) दाप्यो (दद्यात्) पू.; विश्व. २।४७ दाग्यो ( दद्यात् ); मिता.: अप; व्यक. १२३ क्थग्राह (क्थग्राही); स्मृच. १७१; विर. ६३ क्थग्राह (क्थग्राही ) ऽनन्या ( नान्या) : ६४ व्यकवत् पमा. २७१; विचि.२७ ग्राह ऋणं (ग्राही धनं) ग्राहस्त ( ग्राही त ) नृप्र. २०; सवि. २६० व्यकवत् चन्द्र. २४ द्रव्य (धन) शेषं अभावत, चतुर्थपादं विना; वीमि द्रव्यः (धनः ); व्यत्र. २६६; व्यड. ७८; व्यम. ४६ प्रथमपादः ८२, विता. ५१७, राकौ. ३९८३- समु. ८५६ (= ) विचिवत् .
(१) ऋणिके सत्ययं दानक्रमः । तदभावे तु - रिक्थमपि प्रतिपद्यन्ते इत्यभिप्रायः । तथा च कात्यायनः'रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः । पुत्रैश्च तदभावेऽन्यै रिक्थभाग्भिर्यथाक्रमम् ' ॥ इति । बृहस्पतिश्च–‘धनस्त्रीहारिपुत्राणां पूर्वाभावे यथोत्तरं आध+ शेषं यथाश्रुतं व्याख्यानम् । म तदभावे क्रमशोऽन्येषां रिक्थभाजां' इति । यद्वा, अनन्याश्रितद्रव्य इत्यस्यान्योऽर्थः - पितरि मृते यस्य पैतृकं रिक्थं केनापि परिनिक्षिप्तादिहेतुनान्यस्मिन्नाश्रितं । सोऽन्याश्रितद्रव्यः न तदप्राप्यैव पैतृकमृणं दद्यादित्यत्रैव हेतुः । पुत्रहीनस्य रिक्थिनः । अन्येऽपि तु भवन्ति इति शेषः । यावदसौ न्याय्यमपि पैतृकं रिक्थं नाप्नुयात्, तावणं किमिति दद्यादित्यभिप्रायः । सर्वाणि चैतानि स्मृत्यन्तरात् सम्यग् व्याख्यातानीत्यवगन्तव्यम् । यथाह । कात्यायनः -- 'यावन्न पैतृकं द्रव्यं विद्यमानं लभेत्सुतः । विष्य २९ । सुसमृद्धोऽपि दाप्यः स्यात्तावन्नैवाधमर्णिकः इति ॥
विश्व. २२४७
च