________________
ऋणादानम्-ऋणप्रतिदानम्
पुनः द्वैगुण्यापवादार्थता यावता नेह किञ्चिदीदृशं वचनमस्ति, वृद्धिसहितं धनं वर्धते मूलधनं वा । केवलं पुनः क्रिया श्रवते । साच करणं परिवर्तयेदिति व्याख्यान्तरेण व्याख्याता । यदि न वर्धते किमर्थं तर्हि करणपरिवर्तनम् ? उच्यते । शान्तलाभे धनेऽदीयमाने योगक्रयादिसंभावना, साक्षिणश्च दीर्घे गच्छति काले बिस्मरेयुः, यथोक्तं-- 'यत्र कार्य भवेद्येन कृतोपेक्षा दशाब्दिकी । विवादस्तत्र नैव स्यात्साहसेषु विशेषतः ' ॥ ! तथा 'दशवर्षीपेक्षितमृणमसाध्यमि ति ( कौ. ३।११) । तथा च पूर्व स्म व्याचक्षते । अयं च राज्ञ उपदेशः पीडितस्यानुग्रहः । यदि च द्विगुणस्य नवीकरणेन पुनः प्रयोगः, वृद्धिसहितस्य पुनर्वृद्धिर्महांश्च पीडितस्यानुग्रहः । अथ स तदानीमय न दाप्यते, एषोऽनुग्रहो निर्धन - स्येोऽनुग्रहो देवेनैव कृतः । तथा च सर्वस्मृतिष्वस्यामवस्थायां विहितम् । ‘अथ शक्तिविहीनः स्यादृणी कालविपर्ययात् । प्रेक्ष्य च तमृणं दाप्यः काले देशे यथोदयम् ॥ यद्यधमणां देवदोषान्निर्धनीभूतस्तदा न दुर्गावरोधादिना राज्ञा पीडयितव्यः । किं तर्हि कर्तव्यम् ? यदाऽस्य कथंचिद्धनं भवेत्तदा यथासंभवं शनैः शनैदर्पयितव्यः । प्रेक्ष्य, शक्तिधनवत्तां ज्ञात्वेत्यर्थः । दाप्यः उचितस्य, वक्ष्यति 'कर्मणाऽपि समं कुर्यात्' इति । तस्मात् करणपरिवृत्तौ यदेवोक्तमस्माभिस्तदेव प्रयोमेधा.
जनम् ।
(२) ऋणं समूलां वृद्धिम् । पुनः क्रियां कलां दत्वा मूलस्य पुनर्बुद्धिनियमम् । निर्जितां तावत्कालेन संचिताम् । करणं पत्रसाध्यादिव्यवस्थां परिवर्तयेत् पुनः कुर्यात् ।
(३) प्रमाणमात्रवाचकोऽपि क्रियाशब्दोऽत्र ऋणविषयप्रमाणपरत्वाल्लेख्यसाक्षिष्वेवावतिष्ठते । एवं चायमर्थः । प्रतिदानकाले . धनासंपत्त्यादिवशात्सवृद्धिकमूलदानाशक्तो योऽधमर्णः ऋणस्य चिरंतनत्वं परिहरतो धनिकस्य समाधानार्थं क्रियां लेख्यादिरूपां पुनः कर्तु - मिच्छेत्स निष्पन्नां वृद्धिं दत्वा करणं परिवर्तयेत् । पुन
६८१ र्लेख्यादिक्रियां वर्तमानवत्सरादिचिह्नितां कुर्यादिति । स्मृच.१६२
(४) निर्जितामुत्तमर्णेन स्वत्वतया आत्मसात्कृताम् ।
+ममु.
(५) निर्जितां धनिकस्य न्यायतो लभ्याम् । तेन निर्जितां वृद्धिं कियतीमपि सकलां वा दत्वा किनिद्वृद्धिमति मूले मूलमात्रे वा कलया करणं लेख्यं परिवर्तयेत् । विर. ७३
(६) ऋणाहते जीवितुमसमर्थः पूर्वोत्तमर्णादृणान्तरं लिप्सुरेवं कुर्यादित्याह -- ऋणमिति । पुनः क्रियां ऋणान्तरं, निर्जितां मासिमासि लभ्यत्वेनानीतामुत्तमर्णप्राप्यां तां संपूर्णी दत्वा करणं क्रियते लिख्यते ऋणमत्रेति पत्रान्तरं कुर्यादित्यर्थः ।
१ या गळ्यादि. २. ३ हाशपी. ४ वाप्य ५क्ष्यश्च. ६ दर्पियि ७ तां. ८ कार,
मच.
नन्द.
(७) पुनः क्रियां ऋणस्य पुनः स्वीकरणक्रियाम् । करणं मूल्यमात्रस्य ऋणस्य स्वीकरणम् । अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति ॥ (१) अदर्शयित्वा हिरण्यं अदत्वा निर्धनत्वाद् वृद्धिहिरण्यं, तत्रैव पुनः करणं परिवर्तयेत् । साक्षिसमक्षमेवं
ब्रूयात् - - - ' एतावन्मूलमस्मै धारयामि, एतावती च वृद्धिरिति' । पेत्रे चारोपयेत् । यावती संभवेत् वृद्धिरिति तावद्वयाचक्षते । पुनः करणे वृद्धिसहितमूलीभूते लघीयसी वृद्धिः कर्तव्या, यावत्या वृद्धया नातिपीड्यते, या प्रागासीत्ततो न्यूनेत्यर्थः । यज्वासहायनारदानां तु मते काकिणीमात्रमपि शक्तः करणपरिवृत्तिकाले दापयितव्यः । येन साक्षिणः शक्तश्रवणमात्रे साक्षित्वम् ।
वृद्धि ददाति तत्समक्षमधमर्णाऽर्थसंबन्धोऽपि प्रत्यक्षीभवति । यतः श्रवणात् श्रवणे साक्षिता भविष्यति । ततश्चित्ते तिष्ठति धनं दशवपेक्षितमित्यादि विन
* पमा, सवि. स्मृचगतम् + मेधावद्भावः ।
(१) मस्मृ. ८।१५५० व्यक. १२६ उत्त; स्मृच. १६२; विर. ७३; पमा. २६०; नृप्र. १९; सवि. २५३३ व्यप्र. २६०; प्रका. ९५३ समु.८१.
१ यत्रैवारो. २ यावत् संवत्सरा वृ. ३ साक्षिश. ४ ( यद्वृद्धिं०). ५ मर्णो अर्थ. ६ णाश्रवणे च कृता. ७ न्ति ८ तं ९ धने, १० व्यनश्वरो.