________________
-६६६
व्यवहारकाण्डम्
(१) क पुनर्विषये प्रातिभाव्यं - दर्शने प्रत्यये इति । अपसर्पणाशङ्कायां दर्शनार्थ, अविश्वासे विश्वासार्थ, सिद्धार्थप्रदानेन च प्रातिभाव्यम् । विधीयत इति वि चिकित्सानिवृत्यर्थम् । अगृहीतं ददतो दापयतो वा विचिकित्सा मा भूत् । तत्र दर्शनप्रत्ययप्रतिभुवौ वितथे विसं वादिते कार्यिण दाप्यौ स्वयं, न तु तत्पुत्राः । इतरस्य तु दानप्रतिभुवः पुत्रा अपीत्यभिप्रायः । अपि शब्दोऽन्येषामपि रिक्थभाजां प्राप्त्यर्थः । ननु च दर्शन प्रतिभरपि प्रत्ययार्थ एव । नैवम् । प्रत्यायितस्यापि निमित्तान्तराद् भवत्येवादर्शनम् । यद्वा मृते कार्यिणि दातृत्वार्थ दर्शनप्रातिभाव्यवचनं द्रष्टव्यम् । तथा च बृहस्पतिः - ' उपस्थाप्यविपत्तावुपस्थाप्यरय पुनः प्रतिभूदाप्य' इति । एतच्चार्थार्पणेनोपविश्वास्य यत्र दर्शनप्रातिभाव्यं क्रियते, तद्विषयमेव । तथा च नारदः'ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वा विवादिते । प्रतिभूस्तदृणं दद्यादनुपस्थापयंस्तथा ॥' इति । यदोपस्थानं संभवतीति शेषः। मृतस्य चोपस्थापनासंभवाजीवदधिकार इति नारदाभिप्रायः । विकल्पप्रसङ्गे विषयव्यवस्थो क्तैव । विश्व.२।५५ (२) अधुना प्रातिभाव्यं निरूपयितुमाह – दर्शने इति । प्रातिभाव्यं नाम विश्वासार्थं पुरुषान्तरेण सह समयः । तच्च विषयभेदात्त्रिधा भिद्यते । यथा - दर्शने दर्शनापेक्षायां एनं दर्शयिष्यामीति । प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते, यतो Sमुकस्य पुत्रोऽयं उर्वराप्रायभूरस्य ग्रामवरो वाऽस्तीति दाने यद्ययं न ददाति तदानीमहमेव दास्यामीति । प्रातिभाव्यं विधीयत इति प्रत्येकं संबध्यते । आद्यौ तु दर्शनप्रत्ययप्रतिभुवौ, वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं धनमुत्तमर्णस्य । इतरस्य दानप्रतिभुवः सुता अपि दाप्याः । वितथ इत्येव शाठयेन निर्धनत्वेन वाऽधमर्णेऽप्रतिकुर्वति । इतरस्य सुता अपीति वदता पूर्वयोः सुता न दाप्या इत्युक्तम् । सुता इति वदता न पौत्रा दाप्या इति दर्शितम् । *मिता.
* अप. वाक्यार्थो मितावत् ।
(३) अपिशब्दाद्दानप्रतिभूरपि जीवनदशायां विसंवादे दाप्य इति दर्शयति । स्मृच. १५० (४) दान इति स्वयमेव दानेऽभियोज्यादुद्ग्राह्याऽर्पणे चेत्यर्थः । Xवीमि. (५) यत्तु योगीश्वरेण प्रतिभुवां त्रैविध्यमेवोक्तं— दर्शने इत्यादि, तद्दानार्पणयोरनतिभेदाभिप्रायेण । दानं स्वधनार्पणं धनिकाय । अर्पणं तु धारणिकधनमानीय तस्य अर्पणम् । धनिकस्य स्वध लाभ उभयतो न विशेष: । व्यप्र. २४८
दर्शनप्रतिभूर्य मृतः प्रात्ययिकोऽपि वा । न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥
(१) पूर्वश्लोकार्थमेव स्पष्टयति — दर्शनप्रतिभूर्यत्रेति । श्लोकान्तरारम्भसामर्थ्यान्मृतवचनाच्च जीवतः पुत्रैः शक्तितोऽन्वेषणं कार्यमित्यभिप्रायः । विश्व. २५६
(२) एतदेव स्पष्टीकर्तुमाह – दर्शनप्रतिभूर्यत्रेति । यदा तु दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर्दिवं गतस्तदा तयोः पुत्राः प्रातिभाव्यायातं पैतृकमृणं न दद्युः । यस्तु दानाय स्थितः प्रतिभूर्दिवं गतस्तस्य पुत्रा दद्युर्न पौत्राः । ते च मूलमेव दद्युर्न वृद्धिम् । ऋणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः । समं दद्यात्तत्सुतौ तु न दाप्याविति निश्वयः ॥ इति व्यासवचनात् । यत्र दर्शनप्रतिभूः प्रत्ययप्रतिभूर्वा बन्धकं पर्यासं गृहीत्वा प्रतिभूर्जातस्तत्र तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृणं दद्युरेव । + मिता. *अप.
(३) पौत्रनिवृत्यर्थोऽयमनुवादः ।
x शेषं मितागतम् ।
+ पमा. मितावत् । सवि, विता. मितावद्भावः । * मितावद्भावः ।
(१) यास्मृ.२।५४; अपु.२५४ १४ दद्युः ... त: (र्दानाय समुपस्थिताः); विश्व. २/५६; मेघा. ८ १६० ( = ) यः स्थितः (ये स्थिताः); मिता; अप. मेधावत्; व्यक. ११६ मेघावत् ; स्मृच. १५०; विर.४० मेघावत्; पमा. २५० यः (चेत् ); विचि. १९; स्मृचि. ११; नृप्र. २१ मेघावत्; सवि. २४८ (=) मेधावत् ; मच. ८/१६० (); वीमि व्यप्र. २५०३ व्यउ.२९; विता.५२६ ( = ); राकौ. ३९९१ सेतु. २१ प्रात्य (प्रत्य) शेषं मेधावत्; प्रका. ९०; समु. ७७; विष्य २७,