________________
६६२
हारकाण्डम्
| बेहवश्चेत् प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् । अर्थे विशेषिते त्वेषु धनिकच्छन्दतः क्रिया ||
यथाकृतमहमेतावदर्थं दास्यामीति स्वस्वाभ्युपगतमर्थ दद्युः । यदा तु समांशतया विषमांशतया वाऽर्थो न विशेषितः संपूर्णो वा प्रत्येकमभ्युपगतस्तदा प्रतिभूषु धनिकच्छन्दतो धनिकेच्छया क्रियार्थादानं भवति । यस्मादिच्छेत्तस्मात् गृह्णीयादित्यर्थः ।
यं चार्य प्रतिभूर्दद्याद्धनिकेनोपपीडितः । ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ॥ कौटिलीयमर्थशास्त्रम्
प्रातिभाव्यानधिकारः । प्रातिभाव्यदानाधिकारः पौत्रपर्यन्तम् । 'असारं बालप्रातिभाव्यम् ।
जीवितविवाह भूमिप्रातिभाव्यमसङ्ख्यातदेशकालं तु पुत्राः पौत्रा वा वहेयुः ।
अन्यायकृद्दण्डभाक् ।
+ स्मृच. १४१
सर्वे प्रतिभुवो दाप्याः प्रातिभाव्ये प्रमोषिते । अयमर्थः - चतुर्विधे प्रातिभाव्ये मिथ्याभूते सति तद्धनं राज्ञा धनिने दाप्याः प्रतिभुव इति वचनार्थः पूर्वमेवोक्त इति ह प्रपञ्चितः । तदयमत्र निष्कर्षः - ऋणादानसमये विश्वासार्थ बन्धकं लग्नको वा कार्यः । अत्र बन्धकं गोप्याधिर्भोग्याधिश्वेति द्विविधम् । तत्र गोप्या विद्वैगुण्यनिबन्धनः कालकृतश्चेति द्विविधः । कालकृतः सवृद्धिकोऽवृद्धिकश्चेति द्विविधः । भोग्याधिस्तु सप्रत्ययो - ऽप्रत्ययः क्षयाधिरन्वाधिश्चेति चतुर्विधः । तत्र गोप्याधियदि भुज्यते तदा न वृद्धि: । अतिभुक्तौ मूलनाशः । ऋणापर्याप्तं चेदपि मूलनाश एव ऋणिकेन वाऽवशिष्टं दातव्यम् । अधिकं द्विगुणं गृहीत्वाऽवशिष्टं ऋणिने तदभावे तज्ज्ञातिषु द्वैगुण्यधनं दातव्यम् । द्विगुणादूर्ध्व - मेव धनं दत्वा आधिर्मोक्तव्यः । क्षयाधौ तु द्विगुणे धने तच्छुद्ध भोगात्प्राप्ते तदाऽऽधिर्मोक्तव्यः । कालकृते द्विविधे काले प्राप्ते आधिर्मोक्तव्यः । भोग्याधावतिभुक्तौ भुक्तानुसारेण धनं दापयेत् । अन्वाधिस्तु गृहीत - समधनस्यैव । तदधिके तु न सिध्यति । सर्वे पारिभाषिकं चेत् सिध्यत्येव । क्रियान्तगोप्याधौ तु दृश्यसमकालमेवाधिः सिध्यति पारिभाषिकत्वादिति तन्मतं दूषितमधस्तात् । ( संकरादयस्तु) संस्कारादयस्तु परिभाषावशादेव सिद्धाः । लग्नकोऽपि विश्वासप्रतिभूर्विश्वासापनये धनं दाप्यः। दर्शनप्रतिभूस्तु तदभावे धनं दाप्यः । उभयोस्तु देशान्तरगतयोः मृतयोर्वा तत्पुत्रेण तद्धनं मूलमात्रमेव दातव्यम् । दानप्रतिभुवा ऋणिके नष्टे दरिद्रे वा जाते सवृद्धिकं धनं दातव्यम् । तदभावे तत्पुत्रेणापि सवृद्धिकमेव दातव्यमितीयं गमनिका । सवि. २५१-२५२ विष्णुः
प्रतिभूनिमित्तानि । प्रातिभाव्यदानम् । ऋणिकात् प्रातिभाव्यद्रव्यसाधनम् ।
देश प्रत्यये दाने प्रातिभाव्यं विधीयते । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥
+ व्यप्र. स्मृचवत् ।
(१) सवि. २५१. (२) विस्मृ. ६३४१६ गौमि. १२ ३८ द्यौ (ये) विष्णुयाज्ञवल्क्यौ.
मनुः दर्शनप्रातिभाव्यद्रव्यदानम्
यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः । अदर्शयन् स तं तस्य प्रयच्छेत् स्वधनादृणम् || (१) ऋणप्रयोगे द्विविधो विश्रम्भः प्रतिभूराधिर्वा । तत्र प्रतिभूपक्षे इदमुच्यते । त्रिविधश्व प्रतिभूः दर्शने प्रत्यये दाने च । तत्र दर्शनप्रतिभुवमधिकृत्येदमाह । यस्य दर्शनाय प्रतिभूस्तिष्ठेदमुष्मिन्प्रदेशे मयैष तव दर्शनीयः, स तथाऽकुर्वन्स्वधनात्तस्य णं प्रयत्नं कुर्याद्दातुमिति शेषः । दद्यादिति यावत् । ऋणग्रहणं व्यवहारवस्तुमात्रोपलक्षणार्थम् । तेन यावन्तोऽर्थविषया व्यवहारे भूत्वाऽनुकम्पयन्ते, तद्वस्तु दद्याद्दर्शनेनाम्यतरेणाभियुक्त : (१) । वाक्पारुष्यसंग्रहणादौ पणपरिभाषा
(१) विस्मृ. ६।४२ ( २ ) विस्मृ. ६।४३ यं चा (यम); विर.४५ विष्णुनारदौः सेतु. २३ नोप (नैब) विष्णुनारदो; समु.७८ उत्तरार्धे (द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तनम् ). (३) कौ. ३।११. (४) मस्मृ. ८।१५८ (ख) प्रयच्छेत् (यतेत); मेधा. मस्मृवत् ; गोरा. मस्मृवत्; स्मृच. १४९; ममु.मस्मृवत्; पमा. २४७; सवि. २४७ यन् स (यंश्च) स्वधनाद्वणम् ( स धनं नृणाम् ); व्यप्र. २४८ तस्य (तस्मै ) कात्यायनः; ब्यउ. २८ तं तस्य (तत्तस्मै ); प्रका. ९०३ समु.७७.