________________
६६०
ऋणी न लभते बन्धं परस्परमतं विना ॥ आधेः प्रवेशने रोधो ऋणिकेन कृतो यदि । दाप्यः स भोगमाध्यर्थं दण्डयित्वाधिषड्गुणम् ( ? ) || ओधयो द्विविधाः प्रोक्ताः स्थावरा जङ्गमास्तथा । सिद्धिरस्योभयस्याऽपि भोगो यद्यस्ति नान्यथा ॥ प्रजापतिः अन्वाधि:
व्यवहारकाण्डम्
धनी धनेन तेनैव परमाधिं नयेद्यदि । कृत्वा तदाधिलिखितं पूर्वं चास्य समर्पयेत् ॥ यद्वन्धस्वामिनि धनं प्रयुक्तं तत्तुल्येनैव धनेन परं धनिकान्तरमाधिं नयेत् । न त्वधिकेनेत्यर्थः । अयं चान्वाधौ नियमः संप्रतिपत्या द्वैगुण्यादर्वाक् अन्वाधौ
द्रष्टव्यः ।
* स्मृच. १४३
यमः गोप्यभोग्याधिभोगनाशविचारः
५
४ वैशाख्यां यस्य भोग्याधेराषाढ्यां निष्क्रयो भवेत् । . हीनं यद्धनिनो दोषादेतत्पूरणमर्हति ॥ 'हीनस्यापूरणे वृद्धिश्चक्रवृद्धया विवर्धते । सर्वाधीनां बलाद्भोगान्निष्क्रयो नास्ति तत्वतः । बलाद्भुक्ते सकाले वा निष्क्रयात्त्रिगुणो दमः ॥ मरीचिः आधिप्रकाराः
श्रावणात्पूर्वलिखितो भोग्याधिः श्रेष्ठ उच्यते । गोप्याधिस्तु परेभ्यस्तु दत्वा यो गोप्यते गृहे ॥ अर्थप्रत्यय हेतुर्यः प्रत्ययाधिः स उच्यते । आज्ञाधिर्नाम यो राज्ञा संसदि त्वाज्ञया कृतः ॥ श्रावणं संसदि प्रकाशनम् ।
पमा. २३१
* व्यप्र. स्मृचवत् ।
(१) समु. ७४. (२) व्यक. ११४ स्याऽपि (स्य स्यात्); विर. ३४ दीक. ३७ (आधिश्च द्विविधः प्रोक्तः स्थावरो जंगमस्तथा ). (३) स्मृच. १४३; पमा २४२; सवि. २४३ चा (वा); व्यप्र. २४४ सविवत्; प्रका. ८७३ समु.७५ (४) सवि. २३४; समु. ७७ ष्क्र (ष्क्रि) भरद्वाजः (५) सवि. २३४; समु.७७ बलाद् (त्वर्वाग्) नास्ति तत्वत: ( द्विगुणो दमः ) भरद्वाजः. (६) सवि. २३४. (७) पमा. २३१.
भरद्वाजः
आधिप्रकाराः । आधिभोगनाशविचारः । अन्वाधिश्च । आधिश्वतुर्विधः प्रोक्तो भोग्यो गोप्यस्तथैव च । अर्थप्रत्यय हेतुश्च चतुर्थस्त्वाज्ञया कृतः ॥ आर्पणात्पूर्वलिखितो भोग्याधिः श्रेष्ठ उच्यते । गोप्याधिस्तु परेभ्यः स्वं दत्वा यो गोप्यते गृहे ॥ अर्थप्रत्यय हेतुर्यः प्रत्ययाधिः स उच्यते । आज्ञाधिर्नाम यो राज्ञा संसदा वाज्ञया कृतः ॥ च्छाद्याधिमृणी कुर्यात्क्रयार्थे बलवच्च यः । दण्डं सत्रिगुणं दत्वा पुनराध्यर्थको भवेत् ॥ आधेः प्रवेशकाले तु भोगं नेच्छति चेद्धनी । भोगो नास्त्येवात ऊर्ध्वं न वर्धयति तद्धनम् ॥ भोगाधिक्यं च भोग्या घेर्द्वासं च न विचारयेत् । लेख्ये तु लिखितं यावत्तावद्भोक्तव्यमेव तु ॥ प्रत्ययाधौ तु भोक्तव्या वृद्धिर्या पूर्वलेखिता । तावदेव तु भोक्तव्यमिति शास्त्रविनिश्चयः ॥ यत्तु तत्राधिकं वृद्धेर्देयं तदृणिने पुनः । हीनं यावत्तु तद्वृद्धेस्तावत्संपूरयेदृणे ॥
सप्रत्ययभोग्याधौ निष्क्रयकाले सवृद्धिकमूलस्यापर्यासं पूरयेत् | अधिकं चेदादद्यादिति वचनस्य तात्पर्यार्थः । सवि. २३४ स्वामिना चाननुज्ञात आधेराधिं करोति चेत् । स्वधनात्स तु हीनः स्यात्करोत्यापदि पूर्ववत् ॥ आपदि आपत्काले पूर्ववत् स्वधनं हीयेतेत्यर्थः । सवि. २३४ कूपवप्रखलप्राया आधिग्रार्हेण नाशिताः । विनाशका भवन्त्या वेरेवंरूपास्तथापरे ||
(१) पमा. २३१ चतुर्वि (स्तु द्विवि) भोग्यो गोप्य (गोप्यो भोग्य); नृप्र. २२ पमावत् व्यप्र. २३५ श्चतुर्वि (स्तु त्रिवि) श्च च (र्यश्च); समु. ७३. (२) व्यप्र. २३५; समु. ७३ आर्प (श्राव). (३) व्यप्र. २३५; समु. ७३. (४) सवि. २३२; समु. ७५ थें बलवच्च यः (दीन् बलदर्पितः). ( ५ ) सवि. २३३ काले तु भोगं (ने काले मोहात्); समु. ७४ नास्त्येवात ऊर्ध्व( नश्यतश्चोर्ध्व). (६) सवि. २३३ भोगा (भोग्या ); समु. ७६. (७) सवि. २३४; समु . ७६. (८) सवि. २३४; समु. ७६ दृणे (दृणी). (९) सवि. २३४ - २३५; समु. ७७ स्वामिना चा (यः स्वामिना ), (१०) समु. ७७,