________________
६५०
व्यवहारकाण्डम्
गन्तव्यम् ।
स्मृच. १४३ (३) ' अधिक्रियत इत्याधिः ' इति य आधिरुक्तः स द्विविधो ज्ञेयः, स्थावरो भूम्यादिः जङ्गमश्च गवादिः । उभयस्याप्यस्य सिद्धिः प्रामाण्यं विना पत्रेण, यद्याहितो भोगोऽस्ति । विना भोगेन न भवतीत्यर्थः । पत्रं च नास्ति भोगश्च न चेंद्र दुर्विचारं तत् । नाभा. २।११६ बलादाधिभोगनिषेधः
भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् । मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ कृतकालोपनेयो य आधिः स पूर्व एवावधौ amragम्भेन न भोक्तव्यः । अथ कथमपि कृतम् । ततः कालान्तरवृद्धिं परित्यजेत् । यच्च मूल्यमाधिर्लभते तेन मूल्येनाधिधनिनं परितोषयेत् । अन्यथा आधिस्तेनदोषं प्राप्नुयादिति ।
अभा. ५७
अननुज्ञाताधिभोगे कर्तव्यता यैः स्वामिनाभ्यनुज्ञातमाधिं भुङ्क्तेऽविचक्षणः ? । तेनावृद्धिर्मोक्तव्या तस्य भोगस्य निष्क्रयः ॥
F
वर्धमानकलान्तरेण आधिं समर्पितं, आधिस्वामिनः पार्श्वात् असंप्राप्ताभ्यनुज्ञात एव, य आधिं भुङ्क्ते स अविचक्षणो मूर्खः । तेन (आंविना धनिना संभावितेन ?) धनिना यथारूढवृद्धेरर्धं परित्यजनीयम् । एष स्थलभोगस्य निष्क्रयः | अभा. ५८
भोग्याधिवृद्धिचालनविक्रयविचारः 'ने त्वेवाध सोपकारे कौसीदीं वृद्धिमाप्नुयात् । न चावेः कालसंरोधान्निसर्गेऽस्ति न विक्रयः ॥ अस्य भाष्यम् । अत्र यः सोपकार आधि: स वृद्धि - फलभोग्य एव । तस्मिन् सोपकारे आधौ कौसीदीं वृद्धिं न कश्चिदाप्नुयात् । यावच्च विचारितकालावधि संरोधो न चालनीयः । तावदवान्तर एवाधेर्न तस्य कचिद्दानमस्ति न विक्रय इति ।
अभा. ५८
आध्यन्तरकरणम्
क्ष्यमाणोऽपि यत्राधिः कालेनेयादसारताम् । आधिरन्योऽथवा कार्यो देयं वा धनिने धनम् ॥
(१) नास्मृ. ४।१२७; अभा. ५७ (२) नास्मृ. ४।१२८; अभा. ५७-५८. (३) नास्मृ. ४। १२९; अभा.५८. (४) नासं. २।१०८ इथवा कार्यो ( sधिकर्तव्यो ); नास्मृ.
3
(१) यत्र धनिना प्रयत्नरक्ष्यमाणाधिः कालेन शीर्णतामसारतामाप्नोति । तत्रर्णिकेन धनिकस्याधिरन्योऽधिकर्तव्यः । अथवा धनमेव दातव्यमिति ।
अभा. ५८
(२) असारता सवृद्धिकमूलद्रव्यापर्याप्तता । केचिदेकसंवत्सरभववृद्धिसहितमूलद्रव्यापर्याप्ततामसारतामाहुः । तच्चिन्त्यम् । एवंविधविशेषाश्रयणे किं कारणमिति चोद्यसंभवात् । अन्यः पूर्वस्थितो वा आधिः पर्याप्तः कार्यः । अन्यग्रहणस्य पर्याप्तत्वेन भाव्यमित्येतावन्मात्रपरत्वात् । Xस्मृच. १३७
बृहस्पतिः
आधिप्रकाराः
आधिर्बन्धः समाख्यातः स च प्रोक्तश्चतुर्विधः । जङ्गमः स्थावरश्चैव गोप्यो भोग्यस्तथैव च । याच्छिकः सावधिश्च लेख्यारूढोऽथ साक्षिमान् ॥
(१) चतुर्विधः स्वरूपप्रकारकालप्रमाणैः, तत्र स्वरूपमेव द्विविधं स्थावरजङ्गमभेदेन । कालो द्विविधः, स्वविधिनियमानियमाभ्याम् । प्रमाणं द्विविधं लेख्यसाक्षिभेदेन ।
*व्यक. १११
(२) यद्यप्यत्राधिरष्टविधो दर्शितः तथापि गोप्यभोग्यअत्रानेकविशेषविध्युपयादृच्छिक सावर्धिरूपभेदानां योगार्थ तात्पर्यातिशयेन कथनं नान्येषामिति वक्तुं 'प्रोक्तश्चतुर्विध' इत्युक्तम् । यावदृणं तव न ददामि तावत् अयमाधिरित्येवं कालविशेषावधिशून्यतया कृतो
X व्यप्र. स्मृचगतम् । * विर, वीमि व्यकवद्भावः । ४।१३० आधिरन्योऽथवा कार्यो ( तत्राधिरन्यः कर्तब्यो ); अभा. ५८ रक्ष्य (रक्ष) शेषं नास्मृवत्; व्यक. ११२ यत्रा (यस्त्वा) निने ( निनो); स्मृच. १३७; विर. २६ यत्रा (चेदा); पमा. २३२; विचि. १६ विरवत् ; स्मृचि.१० त्राधिः (द्याधिः) व्यासः; नृप्र.२२; सवि. २३३ (=) कालेने (कालेना) नि (निनो); चन्द्र. ११ रक्ष्य (वक्ष्य) यत्रा (चेदा) 'कार्यों (देयो); व्यप्र. २३९ स्मृचिवत्; सेतु. ३१६ विरवत्; प्रका.८६ ; समु. ७४; विव्य. २६ यत्राधि: (चैवाधिः) निने (निके).
(१) व्यक. १११ ; स्मृच. १३५; विर. २२; पमा. २३०१ प्र. २२ चतुर्विधः (स्तु षड्विधः); सवि. २३३ प्रथमार्धद्वयम् ; वीमि. २५८ व्यप्र. २३४; व्यम ७६ प्रथमार्थद्वयम् ; सेतु १५; प्रका. ८५; समु. ७३.