________________
६३८
प्रदाने विक्रये चैव विधिरेष प्रकीर्तितः ॥ एतच्च प्रायिकम् । उभयत्र दृष्टबलतौल्येऽदृष्टेन निर्णयः । विचि.१७
व्यवहारकाण्डम्
कौटिलीयमर्थशास्त्रम्
आधिविधि:
नाधिः सोपकारः सीदेत् । न चास्य मूल्यं वर्धेत । निरुपकारः सीदेन्मूल्यं चास्य वर्धेतान्यत्र निसर्गात् ।
उपस्थितस्याधिमप्रयच्छतो द्वादशपणो दण्डः । प्रयोजकाऽसंनिधाने वा ग्रामवृद्धेषु स्थापयित्वा निष्क्रयमाधिं प्रतिपद्येत । निवृत्तवृद्धिको वाधिस्तत्कालकृतमूल्यस्तत्रैवावतिष्ठेत, अनाशविनाश करणाधिष्ठितो वा । धारणकसंनिधाने वा विनाशभयादुद्गतार्थं धर्मस्थानुज्ञातो विक्रीणीत । आधिपालप्रत्ययो वा ।
स्थावरस्तु प्रयासभोग्यः फलभोग्यो वा । प्रक्षेपवृद्धिमूल्यशुद्धमाजीवममूल्य क्षयेणोपनयेत् । अनिसृष्टोपभोक्ता मूल्यशुद्धमाजीवं बन्धं च दद्यात् । शेषमुपनिधिना व्याख्यातम् । एतेनादेशो ऽन्वाधिश्च व्याख्यातौ ।
मनुः भोग्याधौ 'वृद्धभाव: । आधे : संक्रमणविक्रयो न । ने त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् । न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः ॥ (१) बहुधा प्रयोगो गृहीत्वाऽऽधिमन्यथा च
।
(१) कौ. ३।१२.
(२) मस्मृ. ८/१४३; मिता. २।५८; अप. २।५९पू. व्यक. १११ पू. : ११४ धान्निसर्गो (धौ विशुद्धो) उत्त; स्मृच. १३९ पू. : १४२ उत्त. विर. २३, ३२ पू. ३१ उत्त.; विचि. १५ पू.: १८ उत्त.:१८ (अनिर्मुक्तस्य चैवाधेर्न दानं न च विक्रयः) उत्त; स्मृचि.१० उत्त.; चन्द्र. १२ रोधा (वोधा ) ऽस्ति न ( नापि ) उत्त.; व्यप्र. २३६ पू. : २४३ उत्त; व्यउ. ७३ पू. : ७२ उत्त.; विता. ५३७ उत्त.; सेतु.१७ चाधेः (बाधेः) निसर्गोऽस्ति (न निसर्गो) उत्त : १८ विचिवत्, उत्त प्रका.८६-८७ क्रयः (क्रिये); समु. ७४; विव्य. २६ उत्त. : २७ विचिवत्, उत्त; भाच. न त्वे (ननु).
आधिरपि द्विविधो गोप्यो भोग्यश्च । भोग्योऽपि द्विविधः, समयादूह्यमानभोगः सरूपतो वा । आधिर्दोग्ध्री गौः पिण्डितसुवर्णादि । तत्र भोग्यमाधिमधिकृत्येदमुच्यते । न त्वेवाधौ सोपकार इति । विविधैः सोपकारः, क्षीरिणी गौः क्षेत्रारामादि च तस्मिन् भुज्यमाने । कुसीदे भवा कौसीदी अनन्तरोक्ता वृद्धिस्तामाप्नुयात् । भुञ्जानो नान्यां वृद्धिं लभेत । गोप्येऽप्याधौ कालसंरोधारवस्थानाद्विगुणीभूतेऽप्यमोक्षमाणे न निसर्गाऽस्ति न विक्रयः । अन्यत्र च विधिनाऽर्पणं निसर्गः । अन्यत्र संक्रामितं द्विगुणीभूतमपि पुनर्वर्धत एव । तथा च पठिष्यति 'सकृदाहृतेति' । विक्रयः प्रसिद्धः । सोऽपि न कर्तव्यः । किं तर्ह्यस्यामवस्थायां कर्तव्यम् । आर्थि भुञ्जीत, यावद्विगुणं धनं प्रविष्टम् । ततो 'मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने' । भोग्यस्तावदेवम् । अभोग्यस्तावत् एवम् । अभोग्यस्त्वाधिः शान्तलाभस्तिष्ठत्येव, यावदाधाता नागतः । यस्तु कथंचिद्धनिको दरिद्रतामुपगतस्तावन्मात्रशेषधनः स कञ्चित्कालं प्रतीक्ष्य राजनि निवेद्य विक्रीणीत बन्धं, ततो विक्रयादुत्पन्नं द्विगुणमामनो धनं गृहीत्वा शेषं मध्यस्थहस्ते ऋणिकसात्कुर्यात् ।
ननु च 'आधिः प्रणश्येद्विगुणे धने यदि न मोक्षयेत्' इति पठ्यते । एतदुत्तरत्र व्याख्यास्यामः । प्रणाश्येत्वं चात्र पूर्वस्वामिनः स्वाम्यहानिः प्रयोक्तुश्च स्वत्वापत्तिः । यदि च निसर्गविक्रयौ न स्तः कीदृशमस्य स्वाम्यमुच्यते । तस्मात्प्रतिषेधसामर्थ्येन प्रणाशवचनं प्रतिषिद्धभोगस्य भोगानुज्ञानार्थे व्याख्यायते । वस्त्रादिविषयं वा । तस्य हि भुज्यमानस्य प्रणाश एव । न क्षेत्रादेखि तिष्टतः स्वरूपादैच्यवमानस्य भोग्यता संभवति । तेनैते स्मृती विषयव्यवस्थया व्याख्येये । गोणौ 1 चात्र प्रणाशनिसर्गौ । विक्रयप्रतिषेधस्तु मुख्य एव । न सौ गौणतया प्रतिपत्तुं शक्यते । एतदेव प्रस्तुत्य 'न स्यातां विक्रयाधाने' इति स्मृत्यन्तरपठितम् । अत इह निसर्गोऽन्यत्राधानं विक्रयसाहचर्यात् । सदृशौ हि *मेघा. तौ केनचिदंशेन ।
* गोरा. मेधावद्भावः ।
१ हित. २. ३ ष्टे. ४ श्यत्वान्न पू. ५ त्प्रपच्य ६ तत्स्मृतिव्यवस्थायां व्याख्येयम् ।