________________
ऋणादानम् - आधिः
(१) एवंभूतपरिभाषया चाहितं क्षयाधिमाचक्षते । हिरण्योदकदानेन पभिर्गच्छति मेदिनी' । इत्यादिधर्माः एवंभूतपरिभाषाकरणे तु सोदयादत्यन्ताभ्यधिकेऽपि सन्त्येव । अतो ज्ञात्यादिभिः प्रत्ययेनैवेत्यादिवक्ष्यमाणप्रविष्टे सामकदानं विना न कदाचिदाविलाम इत्यनु । न्यायेन ज्ञात्याद्यनुमत्या भाव्यम् । सवि. २४४-२४५ संधेयम् । आधिसिद्धिः (२) एवंविधमाधिं लौकिकाः क्षयाधिमाचक्षते । केचिदिममेव परिभाषिताधिं, केचित्संविदाधिमाहुः । सवि. २४२
स्मृच. १४७
' गोचर्ममात्राधिकां भुवमन्यस्याधीकृतां तस्मादनिर्मोच्यान्यस्य यः प्रयच्छेत्स वध्यः । ऊनां चेत्षोडशसुवर्णान् दण्ड्यः ।
६३७
गोयाग्याधित्वम् परिभाषिकोऽपि गोप्याधिर्भोग्याधिरपि भवति । गोप्याधेर्भाग्याधित्वमप्याह विष्णुः- - पारिभाषिक इति । अपिशब्दः कालादीन् समुच्चिनोति । पारिभाषिकः परिभाषया प्राप्तः । यथा -- अयमाधिस्त्वत्प्रयुक्तधने द्विगुणीभूते यदि नं मोच्येत तद्दिनमारभ्य द्विगुणधनस्य भोग्य इति गोप्यभोग्याधिः । दीपोत्सवादिसमये तत्प्रयुक्तं मूल्यमेव धनं यदि न दीयते तदाप्रभृति प्रयुक्तधनमारभ्य
अयमाधिर्भाग्याधिरिति कालकृतभोग्याधिः । पारि भाषिक इति वचनेनेदं ज्ञाप्यते - भोग्याधिरपि कालाधिर्भविष्यति। यथा-अयं भोग्याधिः स्वप्रयुक्तधनवृद्धयर्थदीपोत्सवकालपर्यन्तं अनुभुज्यतां तदा यदि मूल्यं न दास्यामस्तदा आधिस्तव भविष्यतीति भोग्यकालाधिः । भोगोप्याधिमा गौतमः । तथा च गौतमसूत्रम् - "भोग्याधिरपि गोप्याधिर्भवतीति पारिभाषिकत्वाद्व्यव हारस्य' इति । अन्वाधिरप्येवमेवोह्यः । खण्डाधिरपि दीपोत्सवपर्यन्तं मासमात्रं मासद्वयपर्यन्तं वा पारि भाषिकवृद्धया यावद्वृद्धं धनं तावद्धनं मूलीकृत्य तद्धनस्याधीकरणं खण्डाधिरिति । सवि. २४३-२४४ सं क्वचित् क्रि (क) यान्त इति ।
अयमर्थः - अयं पूर्वोक्ताधिः । क्रि (क) यान्तः क्वचित् विषयभेदेन दीपोत्सवादिसमये द्विगुणद्रव्याप्रदाने तद्द्विगुणद्रव्यस्यायमाधिर्विक्रीत इति । क्रि (क) यान्तः कालाधिः द्विगुणाधिश्च । भोग्याधिरपि क्रि (क्र) यान्तः । यथाअयमाधिर्वृद्ध्यर्थमनुभूयतां दीपोत्सवादिसमये मूल्यं यदि न दीयते तदा मूल्यस्यैव अयमाधिर्विक्रियत इति । एषु क्रयान्तसङ्करादिषु परिभाषावशात् ऋयान्ततायां तेषां क्रयधर्माः - 'पूर्वाह्णे ग्राममध्ये च ज्ञातिसामन्तसंनिधौ । (१) सवि. २४४ (२) सवि. २४४.
अनेन चाधिरनिर्मुक्तो येन गृहीतस्तस्याधिर्न सिध्यति, पूर्व गृहीतस्तस्य सिध्यति । अनिर्मुक्तमाधिमन्यत्र कुर्वतो वध्यत्वदण्ड्यत्वे भवत इत्युक्तम् । विर. ३६ एकोऽश्नीयाद्यदुत्पन्नं नरः संवत्सरं फलम् । गोचर्ममात्रा सा क्षौणी स्तोका वा यदि वा बहुः ॥ येोर्निक्षिप्त आधिस्तौ विवदेतां यदा नरौ । यस्य भुक्तिर्जयस्तस्य बलात्कारं विना कृता ।। मुक्तिर्बलात्कारं विना कृता भुवो भुक्तिरित्यन्वयः । तस्य सा भूमिरिति शेषः । हलायुधेन तु यस्य भुक्तिजयस्तस्येति पठितं, तत्र सुगमतैव । विर. ३६ तुल्यकालोपभोगौ चेद्भोगोऽपि समको भवेत् ।
(१) विस्मृ. ५।१७७-१७८; अप. २।६० वध्यः (अध्यः ) दण्ड्यः (दाप्यः); व्यक. ११५ यः प्रय... ध्यः (प्रयच्छन् बध्यः); स्मृच. १४४ वध्य : ( बन्ध्यः) ऊनां र्णान् (ऊना चेत्तु सुवर्ण); विर. ३६ धिकां भुव (मपि भूमि); पमा. २३४ र्णान् (f); विचि. १६ च्छेत् (च्छति ) ऊनां (ऊना); चन्द्र. १४ अन्यस्य (अन्यत्र) च्छेत् (च्छति) वध्यः ( बध्यः ) ऊनां (ऊनं); व्यप्र. २४० ( तस्मादनिर्मोच्य ० ) र्णान् ( ं); विता. ५४६ ( तस्मादनिर्माच्य०) (ऊनां चेत् ०) र्णान्+(वा); सेतु. १८ विरवत् विचिवच्चः प्रका.८८ स्मृचवत्; समु. ७५ वी (धि) र्णान् (f).
(२) विस्मृ. ५। १७९१ अप. २६०३ व्यक. ११५; विर. ३६६ विचि.१६-१७; चन्द्र. १४, सेतु. १८१ विव्य.२६. (३) विस्मृ. ५।१८० जय: (फलं); अप. २/६० त्कारं (त्कार); व्यक. ११५; स्मृच. १४४ ययो ( द्वयो) धिस्तौ (धौ तु); विर. ३६ जय (र्भुव); पमा. २३३१ विचि. १७ कृता (भवेत); सवि. २३६ स्तौ (स्तं); चन्द्र. १५ विचिवत् ; व्यप्र. २३९; विता. ५४२-५४३ (=) देतां (देते) शेषं अपवत्; सेतु.१९ विचिवत्; प्रका. ८८ स्मृचवत्; समु.७५ स्मृचवत् ; विव्य. २६ जय: (र्बलं) शेषं विचिवत् .
(४) त्रिचि. १७; सेतु . १९; विव्य. २६.