________________
६१६
सांवत्सरी । भवप्रत्ययार्थः सामर्थ्यादन्तर्भूतः । अथवा संवत्सरमतिक्रान्ता अतिसंवत्सरेति प्राप्ते वृद्धीकारौ छन्दस्तुल्यत्वात्कर्तव्यौ । येषां वृद्धिरनन्तरप्रक्रान्तपञ्चकं शतं सर्ववर्णविषया सा संवत्सरं यावद्ग्रहीतव्या । नातीते संवत्सरे । अथवा यावत् संवत्सरम् । संवत्सरो वर्ष: तावद्वृद्धिर्न मार्गणीया । अधमर्णेनापि संवत्सरादूर्ध्वं न विलम्बितव्यम् । विनिर्हरेद्विनिष्कृष्य स्वधनादारभ्योपनयेदित्यर्थः । अर्वागपि संवत्सराद्या दीयते साऽप्यतिक्रान्तसंवत्सरैव । अथवा मासादारभ्य संवत्सरस्य यावद्वृद्धिः परिमाणतो निरूपितव्या । मासेन यद्वर्धते संवत्सरेण वेत्येवं प्रयोगः कर्तव्यो, न तु संवत्सरद्वयस्य, लाभार्थी कदाचिच्चिरकालं ग्राहयति किं मे कतिपयाः, मासिकेन लाभेन यदि द्वे वर्षे ततोऽधिकं वा गृह्णासि, तद्ग्रहणे एषा वेयता कालेन वृद्धिस्तत्रा - र्वाचीनमपि दददधमर्णे द्विसांवत्सरी यथाकालकृतां तदा दाप्येत ' एकां वृद्धिमनादेयां न दद्यान्नापि दापयेत्' इति । यथा मासिकी वृद्धिः प्रथमे मासि द्वितीय एवाह्नि शोधयन्दाप्यते, तथा यदैवमभ्युपैति संवत्सरेण यद्वर्धत इति, तदा तथैव दाप्यते न तु तदधिककालकृता । न चादृष्टां विनिर्हरेत् । शास्त्रे या न दृष्टा दशैकादशिकाद्यार्णाधमर्णौ कुरुतः एषाऽपि दिग्भागवणिजामेव । अन्येषां पञ्चकादधिका न तां गृह्णीयात् । 'व्यतिरिक्ता न सिध्यति' इत्यस्यैवाय मनुवाद इति केचित् । इदं तु युक्तम् । अदृष्टामनुपचितामित्यर्थः । यावद्बहुभिर्मासैर्न संहतीभूता तावन्न ग्राह्या दिवसवृद्धिर्मासवृद्धिः ।
ननु च ' मासस्य वृद्धिं गृह्णीयात्' इत्युक्तम् । परिमाणं मासिकं तद्वृद्धेर्न तु ग्रहणम् । 'चक्रवृद्धिः कालवृद्धिः कारिका कायिका च या' तामपि न विनिर्हरे-दित्यनुषङ्गः । नैवं दद्याद्यद्यप्येधमर्णस्य प्रतिषेधस्तथापि सामर्थ्यादुत्तमर्णस्यैव द्रष्टव्यः, अधमर्णो ह्यार्तः किं न करोति । अथवा विनिहारो ग्रहणमेव । तेनोत्तमर्णस्यैव शाब्दः प्रतिषेधः ।
व्यवहारकाण्डम्
ननु च द्विकादिबुद्धिविधानाच्चक्रवृद्धयादीनां प्रातिरेव नास्ति । किं प्रतिषेधानुषङ्गेण ? उच्यते । अप्राप्तः .९३, समु.८०; भाच दृष्टां विनि (भीष्टां पुन); विव्य. २३ दुष्टां विनि (दिष्टं पुन) च या (तथा) गौतमः . १ नैवा. २ स्याभ
प्रतिषेधः पाक्षिक वृद्धिमनुमापयति । यथा आधाने न ब्रह्मसामाभिगायेदित्यविहितं सामगानं प्रतिषेधेनास्तीति ज्ञापयति । तेनैता अपि प्रतिषेधद्वारेणाभ्यनुज्ञायन्ते । केषांचिंद्दूरव्यवहारिणां चक्रवृद्धयादयोऽपि भवन्ति । ते चे स्थलपथवारिपथिका वणिजः । यथोक्तम् — 'कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् । दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु' इति ( यास्मृ. २।३८ ) । कान्तारगादीनामेव स्वकृता सर्वजातिविषयासाधारणी वृद्धिर्न त्वन्येषाम् । तत्र चक्रवृद्धिः स्मृत्यन्तरे पठिता 'वृद्धेर्वृद्धिश्चक्रवृद्धि:' । अन्ये तु चक्रवद्यानगन्त्र्यादिमतां तद्वृद्धिश्चक्रवृद्धिः । तेषां यस्मिन्नहनि चक्रं वर्तते तत्रैव वृद्धिः । यदा तु नदीसंतारे दुर्दिनादिना अप्रयाणं, तदा नास्ति वृद्धिः । एवमन्येषामपि बलीवर्दादिवाह्यप्रयोक्तृणामीदृशी वृद्धिश्चक्रवृद्धिरुच्यते । कालवृद्धिः " प्रतिमासं तु कालिका' । मासग्रहणमुपलक्षणार्थम् । याऽनुपचिता वृद्धिर्दिवसे गृह्यते मासि मासि वा यस्याः कालो न प्रतीक्ष्यते, अथ चैतस्मिन्काले यदि न ददासि तदा द्विगुणीभवति धनमित्येकरूपा कालवृद्धिः । कारिता । इत्थंकृतां यावतीं वा परस्परोपकारापेक्षयोत्तम
तु 'व्यतिरिक्ता न सिध्यति' इत्युक्तम् । 'पञ्चकं शतमर्हतीति' । अथवा हिरण्ये प्रयुक्ते वासांसि वृद्धया गृह्यन्ते, तत्राधिलक्षणं द्रव्यं, सा कारिता, यथाभोगलाभे न्यासरूपविषये च स्यात् । कायिका कायकर्मणा संशोध्या । कायजीविका च एषा क्रमेलकादिजीविनाम् । मेघा.
(२) यदि द्वयोर्वा त्रयाणां वर्षाणां रूपकान् न गृह्णाति ततो ददाति । या तु संवत्सरमतिक्रान्ता वृद्धिस्तां न गृह्णीयात् । अदृष्टां चानुपचितामसंहतीभूतामेकद्विपञ्चाहादिजातां न गृह्णीयात् । चक्रवत् गन्त्र्यादियानप्रयोगे सति या वृद्धिः सा चक्रवृद्धिः । सा पूर्वोक्तवृद्धेरधिकाऽपि स्यादित्येवं नानुज्ञाता । सा चार्यस्याभिमता प्रथमानिर्देशान्न विनिर्हरेदित्येतत्संबन्धाभावाच्चक्रवृद्धिं समारूढ इति च वक्ष्यमाणत्वात्, अत एव चेह वृद्धेर्वृद्धिश्चक्रवृद्धिरित्येवमादिका चक्रवृद्धिशब्देनोच्यते । अपि तु गन्त्र्याश्रिता वा कालिका ' प्रतिमासं तु कालि
१ चिदूनव्य २ न. ३ षां क्रमेण काचैवाधिकादीनाम् ।