________________
व्यवहारकाण्डम्
६१४
सलाभं धनमानयति तत्राधिकनिषेधोऽस्तु प्राग्द्वैगुण्याद वृद्धिमात्रदानसमर्थो वृद्धिं ददाति, मूलं तस्यापरिमितग्रहणमिति । एतदपि न किंचित् । यः संवहति तस्यानुग्रहो न्याय्यो नाधिकग्रहणम् । यस्तु राजा द्विगुणीभूतमपि कथंचिदाप्यते तस्याधिकमोक्ष इत्येतदन्याय्यम् । न चाहिते - त्यस्य शब्दस्यायमर्थः । अप्याहृतेति पाठान्तरम् । तथापि सकृच्छब्दो न निश्चितार्थी, न्यायस्तु परित्यक्तः, स्वकृतश्च पाठः स्यान्न मानवी स्मृतिरत्युक्तैव व्यवस्था न्याय्या ।
3
1
धान्यादिषु पञ्चतां पञ्चगुणतां नात्येति । स्मृत्यन्तरे धान्ये चतुर्गुणोक्ता 'हिरण्यवस्त्रधान्यानां वृद्धिर्द्वित्रिचतुर्गुणा' इति । तंत्र व्यवस्था, यदि दरिद्रभूतः प्रयोक्ता ग्रहीता च महाधनसंपन्नस्तेन धान्येन महान्तमर्थं कृतवांस्तदा पञ्चगुणाऽन्यथा चतुर्गुणा, सदं फलं वार्क्ष धान्यस्य पृथगुपादानात् । लव उदीच्येपूर्णा विषयः प्रसिद्धः । वाह्यो गर्दभोष्ट्रबलीवर्दादिः । मेधा. (२) या वृद्धयर्थप्रयुक्तधनसंबन्धिनी वृद्धिरतिभूयस्यपि । काले गते सकृदधमर्णादानीता शनैः शनैः मासं प्रत्यब्दं वाऽसौ द्वैगुण्यं नातिक्रामति, मूलद्विगुणैव भवति न ततोऽधिका लभ्यते । धान्ये पुनर्वृद्धिप्रयुक्ते सदे वा वृक्षफले लवे वा ऊर्णमये वाहनीये च बलीवर्दादौ प्रयुक्ते भूयस्यपि काले गते सकृदधमर्णादाहृता सती मूलधान्यादिना सह पञ्चगुणतां नातिक्रामति । गोरा (३) उपचयार्थ प्रयुक्तं द्रव्यं कुसीदं, तस्य वृद्धिः कुसीदवृद्धिः, सा द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्रयुक्ता । पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति । सकृदाहृतेति पाठे तु शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाऽधमर्णादाहृता द्वैगुण्यमत्येतीति व्याख्येयम् । शदः क्षेत्रफलं पुष्पमूलफलादि । लवो मेषोर्णाचमरीकेशादिः । वाह्यो बलीवर्दतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । + मिता. २।३९ (४) द्विगुणापि वृद्धिरधमर्णसंप्रतिपत्या मूले निवेशिता पुनर्वर्धत इति सकृदूग्रहणात्सिध्यति । सुवर्णविषयं
* मच. गोरागतम् । ममु. वाक्यार्थः गोरागतः मितागतश्च । + पमा, सवि., व्यम, नन्द मितागतम् १ १ ग्यस्य.
चैतत् । धान्यादावदत्ते तद्वृद्धिश्चिरकालमदीयमाना मूलात्पञ्चगुणत्वं नातिक्रामति ।
Xअप. २।३९
(५) कुसीदवृद्धिः । कुसीदपदं वाणिज्यवृद्धिव्यवच्छेदार्थम् । सकृदाहिता मुल्यग्रहणकालग्राह्या वृद्धिः । या तु प्रत्यह प्रतिमासग्राह्या वृद्धिः सा वृद्धिग्रहणानन्तरं पुनः पुनराधीयत इति न सकृदाहिता । धान्य इति । लवः शराद्यस्त्रं ऊर्णेति केचित् । एतत्त्वया भोक्तव्यं, भोगनिमित्तं चैतावदेतावता कालेन वर्धत इति प्रयुङ्क्ते । + मवि.
(६) कुसीदेति । यदा ऋणिकः स्वयमेव ऋणं सवृद्धिकं पुरुषान्तरदेयं करोति, यदा वा मूलीकरोति धनिको वा धनिकान्तरे त्वाधिं कृत्वा स्वधनं गृह्णाति तदा तद्दिनमारभ्य द्वैगुण्यपर्यन्तं प्रतिदानपर्यन्तं वा वर्धत इति मन्तव्यम् । एवं त्रैगुण्यादावपि सकृदाहिता वृद्धि - र्नात्येति । वस्त्रादावन्यथा त्वत्येति न्यायसाम्याच्चिरस्थान व त्रैगुण्यादौ वृध्युपरमोऽन्यथा तु वर्धत एवेत्यपि मन्तव्यम् । धान्ये इति । तत्प्रत्यर्पणसमयसमृद्धाधमर्णविषयम् । स्मृच. १६० (७) संभवति कश्चिदेतादृशो यो धान्यशतमश्वशतं वाद्विकशतमर्यादया उद्धारेण गृह्णाति स महतापि कालेन धान्यादिपञ्चशतमेव दातुमर्हति नाधिकमिति । अत्र च धान्ये पञ्चगुणत्वमुक्तं, बृहस्पतिना धान्ये चतुगुणत्वमुक्तं, विष्णुमरीचिवसिष्ठहारीतैश्च त्रिगुणत्वमुक्तं, तदत्राधमर्णापकृष्टगुणत्वमध्यगुणत्वोत्कृष्टगुणत्वैर्व्यवस्था, महार्घसमार्घधान्य के कालदेशभेदेन वा व्यवस्था । एवविर. १७-१८ मन्यत्रापि । (८) लवो लवनीयं लोमादि आविकं विहाय । *विचि. १२ (९) षाड्गुण्य निषेधपरमिति मदनरत्ने । व्यप्र. २२९ अकृतवृद्धिग्रहणमर्यादा कृतानुसारादधिका व्यतिरिक्ता न सिध्यति । कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥
X विता. अपगतम् । + भाच. मविगतम् । * शेषं मितागतम् । सेतु. विचिवत् ।
(१) मस्मृ. ८।१५२; व्यक. १०८; स्मृच. १५६:१५८ पू.; विर. १४ व्यति (अति); सवि. २२५ पथ (पद); व्यप्र. २३३; प्रका. ९३; समु.८००