________________
दायभागः - संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्व
१५६१
इत्यर्थः । 'विभक्ताः पितृवित्ताच्चैदेकत्र प्रतिवासिनः । विभजेयुः पुनर्व्वशं स लभेतोदयो यतः ॥ (१) इदं संसृष्टस्य साधारणधनोपघातेनार्जकस्य भागद्वयं इतरेषामेकैको भाग इति श्रीकरेण व्याख्यातम् ।
शिनष्टि-निर्बीजेति । ते हि परस्परं निरन्वयापरभागभाज | शेषः । स्मृतिचन्द्रिकाकारस्तु - 'अन्योदर्यस्तु संसृष्टी X विचि. २५० नान्योदर्यधनं हरेत् । असंसृष्टयपि चादद्यात् सोदर्यो नान्यमातृजः ॥ इति याज्ञवल्क्यवाक्यं पठितम् । केवलस्थावरसद्भावे केवलजङ्गमसद्भावे वाऽस्माद्याज्ञवल्क्यवचनादसंसृष्टोऽपि सोदर एव गृह्णाति, न त्वसंसृष्टसोदरसद्भावे संसृष्टयपि भिन्नोदरो गृह्णीयात् । स्थावरजङ्गमात्मकोभयविधस्य द्रव्यस्य सद्भावे मनुवचनान्न प्रजापत्युक्तव्यवस्थया असंसृष्टाः सोदरभ्रात्रादयः संसृष्टा भिन्नोदराश्च विभज्य गृह्णीयुरित्याह । अत्र स्मृतिचन्द्रिकाकारमते याज्ञवल्क्ये पौनरुक्त्यं दुष्परिहरं स्यात् । 'अन्योदर्यस्तु संसृष्टी नान्योदर्य' इत्यनेनोक्तस्य 'नान्यमातृज' इत्यनेन पुनरभिधानात् । किञ्च मनुवचनसंवाद्यर्थलामे अर्थान्तरकल्पनाया कल्पनागौरवदोषः प्रादुःष्यात् ।
* दा. ११०
(२) शौर्यविद्याधनयोरेवार्जकस्य भ्रातुर्द्वाविंशौ, न मैत्रादौ विशेषवचनात् । एवं संसृष्टिनामपि । तदाह कात्यायनः - विभक्ताः पितृवित्तादिति । इदं सामान्यधनपरमिति श्रीकराचार्याः । तेन घटकस्य दातुर्वा पित्रा दिमैत्रीप्रतिग्रहार्जितं चेद्विभाज्यमेव । विता. ३४३
ते प्रत्रजिते नष्टे गृहीयुस्तस्य बान्धवाः । द्वयोनवेशिकत्वं चेत् द्वितीयो ऋक्थमर्हति ॥ .
मृतापुत्रपत्न्याः पतिपक्षः पितृपक्षो वा प्रभुः पैतिपक्षः प्रभुः स्त्रीणां पितृपक्षस्तदत्यये । विनियोगात्मरक्षा भरणे च स ईश्वरः ।। प्रजापतिः
मृता पुत्र संसृष्टिनाधि कार:
• अन्तर्धनं च यद्द्रव्यं संसृष्टानां च तद्भवेत् । भूमिं गृहं त्वसंसृष्टाः प्रगृह्णीयुर्यथांशतः + ॥
(१) द्रव्यमित्यनेन गोबलीवर्दन्यायेन प्रकृष्टद्विपदचतुष्पदाविद्रव्यरूपजङ्गमद्रव्यग्रहणम् । संसृष्टानां मिन्नो दराणामिति शेषः । असंसृष्टाः सोदरभ्रात्रादय इति
x व्यनि., बाल विचिवद्भावः ।
* शेषं 'पितृद्रव्याविरोधेन' इति याज्ञवल्क्यवचने (पृ. १२१६) द्रष्टव्य॑म् ।
+ स्मृच., व्यप्र. व्याख्यानं 'सोदर्या विभजेरंस्तं' इति मनुवचने (पृ. १५४५) ‘अन्योदर्यस्तु संसृष्टी' इति याज्ञवल्क्य बचने (पृ. १५५१) क्रमेण द्रष्टव्यम् । पमा. स्मृचवत् । : (१) दा. ११०; विता. ३४३ प्र (प्री) यतः (द्यतः). (२) स्मृचि.१६. (३) समु. १२०. :, (४) स्मृच. ३०५ प्रगृडी (विभजे); पमा. ५४० च यद् (तु यद्); रत्न. १५८ त्वसंसृष्टाः (च संसृष्टं); व्यप्र. ५३७ च (तु); व्यस. ६७ व्यप्रदः विवा, ४२० च तद्भ ( तु तद्भ); बाल. २।१३८ (च) शेषं पमावत् समु. १४४ च यद् (चल) द्र (तु तद्भ) व (चा).
रत्न. १५८
(२) अन्तर्धनं भूनिक्षेपादिना गोपितुं शक्यं सुवर्णरूप्यादि संसृष्टो भिन्नोदरो गृह्णीयात् । भुवं तु सोदरभ्रातरः । गवाश्वादि तु सोदरासोदर इत्यर्थः । भिन्नोदरः संसृष्टयेव गृहाश्वाद्यपीति मदनः । तत्त्वेतद्वचनानारूढम् । अन्तर्धन भूमिगवाद्यन्यतरमात्रसत्वे त्वसंसृष्टोऽपि सोंदर एवेति स्मृतिचन्द्रिकायाम् । तत्र मानं चिन्त्यम् । व्यम. ६७
यमः मृतापुत्रसंसृष्टिधनाधिकारः
अविभक्तं स्थावरं यत् सर्वेषामेव तद्भवेत् । विभक्तं स्थावरं प्राह्यं नान्योदयैः कथञ्चनं ॥
(१) सर्वेषां सोदरासोदराणामित्यर्थः । सोदराणामेव मध्ये एकस्य संसृष्टत्वे तस्यैव, असंसृष्टिसोदरासोदरसंसृष्टिसद्भावे च द्वयोरेव, सापत्नमात्रसद्भावेऽपि प्रथमं संसृष्टिनः तदभावे चासंसृष्टिनोऽसोदरस्य मृतधनं प्रत्ये
तव्यम् ।
दा. २०४
(२) सर्वेषां सोदरासोदराणां स्थावरातिरिक्तं तु विभताविभक्तं सोदराणामेवेत्यर्थतः सिद्धं तेषां तत्पिण्डदातुत्वेन तन्मातृभोग्यपार्वणपिण्डदातृत्वेन चाघिकारात् ।
दात. १९४
(१) दा. २०४३ दात. १९२ ग्राह्यं ( प्राप्तं ) कथञ्च (कदाच ); बाल. २।१३८; सेतु.४६; विच. १२९.