________________
दायभागः -- मृतापुत्र धनाधिकारक्रमः
ध्यात् ।' सोपचयान् सवृद्धिकान्, सुगुप्तान् सुरक्षितान् । कात्यायनः — 'प्रोषितस्य हि यो भागो रक्षेयुः सर्व एव तम् । बालपुत्रे मृते रक्ष्यमृक्थं तत् तैश्च बन्धुभिः ॥ पोग ण्डात्परतस्तं तु विभजेरन् यथांशतः ||' बालपुत्रः बालः पुत्रो यस्य, पोगण्डो व्यवहारानभिज्ञः । विष्णुः - 'यश्चार्थ हरः स पिण्डदायी स्मृतः । यो यस्याददीत स तच्छ्राद्धं कुर्यात् । पिण्डं च त्रिपुरुषं दद्यात् । श्राद्धमेकोद्दिष्टं मासिकं सपिण्डीकरणं च । वृद्धमनुः - 'भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा । स सपिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ।' विष्णुः - 'पुत्रः पितृधनालाभेऽपि पिण्डं दद्याद्वानप्रस्थधनमाचार्यो गृह्णीयाच्छिष्यो वा ।' याज्ञवल्क्यः – ' वानप्रस्थयति ब्रह्मचारिणामृक्थ भागिनः । क्रमेणाचार्य सच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥' क्रमेण प्रतिलोमक्रमेण तेन ब्रह्मचारिणो नैष्ठिकस्याचार्यः यतेः सच्छिष्यः, वानप्रस्थस्य धर्मभ्राता एकतीर्थी, धर्मभ्राता भ्रातृत्वेन प्रतिपन्नः, एकतीर्थी एकाश्रमी, 'अनं शाश्चाश्रमान्तरगताः' इति वसिष्ठवचनादनंशत्वेऽपि वानप्रस्थस्य पाक्षिकसंचयविधानाद्यतेश्च कौपीनकन्यादिसंभवादृक्थमस्त्येव तेषामिति न दोषः ।
स्मृसा. १३४-८ तत्रैव संसृष्टिविभागः- तत्र नारदः - 'विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि । समस्तत्र विभागः स्याज्ज्यैष्ठयं तत्र न विद्यते ॥' सह जीवन्तः संसृज्य जीवन्तः, समः (अ) न्यूनानतिरिक्तः, समं सज्येष्ठ - विषमः (?), ज्यैष्ठयं विंशोद्धारादिहेतुविशेषः । 'येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥' हीयेत प्रोषितत्वादिहेतोर्विभागकाले अनुपस्थितत्वाद्भ्रश्येत । अन्यतरो विभजतामेव, न लुप्यते । देयमेवेति शेषः । कस्तर्हि तं भागं गृह्णीयादित्यत्राह - 'सोदर्या विभजेरंस्तं समेत्य सहिताः समम्। भ्रातरो ये च संसष्टा भगिन्यश्च सनाभयः ॥' सोदर्या भ्रातर इत्यर्थः । अतो भ्रातृणामेव मध्ये पुनर्विभागानन्तरं ये संसृष्टा मिश्रीकृतधनत्वेनैकयोगक्षेमास्ते सोदरसंसृष्टित्वोभयविशेषणवन्तः संगृह्णीयुरित्यर्थः । भगिन्यश्व सनाभयः सोदराः, ताश्वाप्रत्ताः, प्रत्ताः पुनः पतिगोत्रभाव - मनुभवन्त्यो असनाभय इति हरिहरः ।
व्य. का. १९१
१५३५
बृहस्पतिः - 'संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ ।' तथा 'विभक्ता भ्रातरो ये तु संप्रीत्यैकत्र संस्थिताः । पुनविभागकरणे तेषां ज्यैष्ठयं न विद्यते ॥ यदि कश्चित् प्रमीयेत प्रव्रजेद्वा कथंचन । न लुप्यते तस्य भागः सोदरस्य विधीयते ॥ या तस्य भगिनी सा च ततोऽशं लब्धुमर्हति । अनपत्यस्य धर्मोऽयमभार्यापितृकस्य च ॥ संसृष्टिनां तु यः कश्चिद्विद्याशौर्यादिनाधिकम् ॥ प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशकाः ॥ नारदः - 'संसृष्टिनां तु यो भागस्तेषामेव स इष्यते । अतोऽन्यथानंशभाजो निर्बीजेष्वितरानियात् ॥' भागो मृतस्येति शेषः । अतोऽन्यथाऽसंसृष्टिनः, अनंशभाजः अंशानर्हाः, निर्बीजेषु संतानशून्येषु मृतेषु संसृष्टिषु, इतरान् संसृष्टिनः । शंखः -- ' भ्रातॄणामप्रजः कश्चित् म्रियेत प्रव्रजेत वा । विभजेरन् धनं तस्य शेषास्तु स्त्रीधनं विना ॥ भरणं चास्य कुर्वीरन् स्त्रीणामाजीवितक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्धुरितरासु च ॥' स्त्रियोऽत्रा सवर्णाः । इतरासु शय्यामरक्षन्तीषु 'या तस्य दुहिता तस्याः पित्रंशो भरणे मतः । आसंस्काराद्धरेद् भागं परतो बिभृयात्पतिः ॥' आसंस्काराद्विवाहमभिव्याप्य, तावतो भागस्य ग्रहणं यावतो विवाहाभिनिवृत्तिरित्यर्थः । याज्ञवल्क्यः—‘संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥' विभज्य मिश्रीकृतं धनं संसृष्टं यद्यस्यास्त्यसौ संसृष्टी, तस्य मृतस्य भागं संसृष्टी गृह्णीयात् । न भार्यादिः । अस्यापवादः – 'सोदरस्य तु सोदर:' सोदरस्य तु संसृष्टिनः सोदर एव संसृष्टी गृह्णीयात् सोदरासोदरसंसर्गेऽपि, न तु भिन्नोदर इत्यर्थः ।
इदानीं सोदरस्यासंसृष्टिन: सापत्नस्य संसृष्ठिनः सद्भावे सत्याह - ' अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् । असंसृष्टयपि वादद्यात्संसृष्टो नान्यमातृजः ॥' अन्योदर्यः सापभ्राता संसृष्टी धनं हरेत् । न त्वन्योदर्योऽसंसृष्टी । अनेनान्वयव्यतिरेकतोऽन्योदर्यस्य संसृष्टित्वं धनग्रहणे हेतुरित्युक्तम् | असंसृष्टयपीत्युत्तरेणापि संबध्यते । अतश्चासंसृष्टयपि गृह्णीयात् । कोऽसावित्याह- संसृष्ट इति । एकस्मिन्नुदरे संसृष्टः संबद्धः सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं हेतुरिति दर्शितम् । कात्यायन:- 'संसृष्टिनां तु संसृष्टाः पृथक्स्थानां पृथक्स्थिताः ।