________________
दायभागः— मृतापुत्र धनाधिकारक्रमः
१५१९
स्थावरविक्रय | शब्दाभावाच्चेति मदनरत्ने दुहितृहीन पत्नीपरो निषेधः । तद्युक्तपरो विधिरिति चन्द्रिका । सा मूलाभावादयुक्ता । दायादानुमतौ स्थावरे साम्यं प्रागुक्तम् । तां विना तु स्वातन्त्र्य निषेधः । 'विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः' इत्युक्तेरिति माधवाचार्याः । विता. ३९०
|
(२) तदितरदायादानुमतिमतन्रेण निषेधपरम् । अन्यथा 'जङ्गमं स्थावरं हेम' इत्यनेन विरोधप्रसङ्गात् । 'पमा. ५३६ (३) अत्र चन्द्रिकाकारस्यायमाशयः -- दुहितृरहित दुहितृसहितपत्न्योः संनिपाते दुहितृसहिताया एव पत्न्याः स्थावरं न दुहितृरहितायाः । दुहितृरहितायास्तु जङ्गमांशः, जङ्गमद्रव्ये यथांशस्वीकारः । यदा दुहितृरहितैव पत्नी स्यात्तदा तस्या एव स्थावरं जङ्गमं च, नान्यस्याः दुहितृसहिताया मात्रादेः । तस्यास्तु पत्न्यपेक्षया बहिरङ्गत्वस्योतत्वादिति । न च तद्विरोधपरिहाराय विभक्तपन्यंश विषयं चेदं वचनमस्त्विति वाच्यम् । यत एवंप्रकारां व्यवस्थां निराकर्तुमाह स एव - वृत्तस्थापीति । संतान वृत्तिभूतस्थावरार्हता संतानशालित्वायत्तेति तच्छून्या स्त्री वृत्तस्थापि विभक्तविषयेऽपि स्थावरं नार्हतीति वचनार्थः । सवि. ४०९ (४) स्मृतिचन्द्रिकायां यद्विभक्ते धनमिति वचनं लिखितम् । तत्र मदनरत्नकारेण मिताक्षराकल्पतरुहलायुधादिसर्व ग्रन्थान्तरेष्व लिखनान्निर्मूलत्वमस्य 'जङ्गमं स्थावरं' इति प्राजापत्यस्य च सर्वत्र लिखनात्समूलत्वमिति दूषणमुक्त्वा तंदुक्तव्यवस्थायाश्च स्वोत्प्रेक्षामात्रकस्पित्वेनायुक्तत्वमभिधाय समूलत्वेऽपि स्थावरादिसमग्र - धनग्रहणं ब्राह्मादिविवाहोढाविषयम् । तद्वचनेषु पत्नी शब्दप्रयोगात् । स्थावरग्रहणप्रतिषेधक बृहस्पतिवचनं तु जायास्त्रीशब्दमात्रप्रयोगादासुरादिविवाहोढाविषयमिति मृते ॥' स्वयं व्यवस्था कृता । ( सा तु ) आसुरादिविवाहोढायाः पत्नीशब्देनाग्रहणाज्जायादिशब्दोपेतवचनानामपि तदेकमूलकतया तत्परत्वात् स्मृतिचन्द्रिकायामेव निरस्ता । यत्तु तदुक्तव्यवस्थायामौत्प्रेक्षिकत्वमुक्तं, तदपि न । दुहितृसत्त्वे तत्संतानद्वारेण स्थावरस्योपभोगधनस्वाम्युपकारयोः संभवादुहितृमत्या स्थावरमपि ग्राह्यं तद्रहितायास्तु तदभावान्न तद्द्महणमिति तत्रापि बीजसंभवात् । अत एव पितुरपि स्थावरे स्वर्जितेऽपि पुत्रानुमतिमन्तरेणानधिकारः प्रागुक्तः ।
व्यप्र.४८९-९०
(५) तन्निर्मूलमासुरादिविवाहोढस्त्रीपरं वापुत्रविभागोत्तरं विभक्तपुत्राभावे पित्रर्जितस्थावरपरं वा । अन्यथा 'जङ्गमं स्थावरं मुक्त्वेति पूर्वोक्तविरोधापत्तेः । पत्नी
ध्य. का. १९१
(६) मिताटीका - एवं च तत्स्थावरं विभक्तस्यापि भ्रातुरेव न पत्न्याः । इदमपि वचनं वक्ष्यमाण सिद्धान्ताद्यंशसाधकं बोध्यम् । एतेन ' इदमविभक्तस्थावर विषयं, वृत्तहीनपत्नीविषयं वा, दुहितृरहितपत्नीविषयं वा, दायादानुमतिं विना स्थावरदानविक्रयादिनिषेधपरं वा' इति परास्तम् । आद्यान्त्ययोर्वचनविरोधात् । मानाभावस्यान्ययोः सत्त्वात् । बाल.२।१३५(पृ.१९३)
अपुत्रमृतविधवा प्रजीवनभाक्
ददात्येव तत्पिण्डं क्षेत्रांशं वा यदिच्छति । कृतेऽप्यंशे इत्यनुवृत्तौ बृहस्पतिः -- प्रददात्येवेति । पिण्डग्रहणं अशनाच्छादनोपलक्षणार्थम् । एवं चायमर्थः । अशनाच्छादनं पूर्वोक्तपरिमाणकं पूर्वोक्तधनांशसंपादकक्षेत्रांशं वा स्वरुच्या भर्त्रशार्हपत्नीव्यतिरिक्तविधवायै विभक्तविषये जीवनार्थ प्रदद्यादिति । एवकारः प्रदानस्यावश्यकत्वज्ञापनार्थः । श्वश्वाद्यशुश्रूषकस्त्रीविषयोऽत्राद्यः पक्षः तत्र ज्ञापकमुपरिष्टाद्भविष्यति । दत्तं च दायकेतरैरपि पालनीयं इत्याह ‘स्थावराज्जीवनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु । न तच्छक्यमपाकर्तुमितरैः श्वशुरे * स्मृच.२९३ पिण्यकर्माधिकारः पत्न्याः सोदरस्य तत्पुत्रस्य सपिण्डस्य शिष्यस्य च क्रमेण
जाभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ॥ (१) अग्निहोत्रलाभोक्तेः पत्नीत्वागमार्थत्वात् कर्माह - तायाः पित्र्ये कर्मणि भ्रात्राद्यपेक्षया अग्रेसरत्वं बृहस्पतिना
* सवि., व्यप्र. स्मृचगतम् ।
(१) स्मृच. २९३ दिच्छति (दृच्छया); पमा. ५४९ प्रद
दात्येव तत्पिण्डं दद्याद्धनं च पर्याप्तं); सवि.४१० ददात्येव तत् (दद्याद्वत्सरे) शेषं स्मृचवत्; व्यप्र. ५१६ ( प्रदद्यात्त्वेव पिण्डं च क्षेत्रांशं वा यदीच्छति ); बाल. २।१४३ (दयानं वा पर्याप्तं क्षेत्रांशं वा यदीच्छति ); समु. १४१ (प्रदद्यात्त्वेव पिण्डं वा क्षेत्रांशं वा यदृच्छया ).
...(२) स्मृच.२९१; वि.४०८ प्रजा (पुत्रा)...