________________
१५०८
मात् (गौध. २८/३९) तस्य तत्त्वापत्योक्तदोषापत्तेः । किं च । तादृशस्य तस्य पत्नीसत्त्वे सपिण्डान्तर्गतदूरतरयत्कि - चित्सत्त्वे विभागाभावे मूलाप्रवृत्या - - ' पुत्राभावे प्रत्यासन्नः सपिण्ड' इत्यापस्तम्बात् ( आध. २/१४/२) तस्य तत्त्वापत्योक्तदोषापत्तिरेव । वचनान्तरं तु न साधकमस्ति । उक्तश्रुत्या पत्न्याः प्रत्यासन्नत्वादिना तत्त्वे तु तत्रापि तन्नेदं वारितमित्यलं तदनभिज्ञोक्तिखण्डनेनेति ।
व्यवहारकाण्डम्
बाल. (पृ.२०२-४) यत्तु 'पन्यभावे स्नुषैव न दुहिता । तदधिकारस्य पुत्रपत्न्यभावायत्ततया पत्न्यभावेऽपि पुत्रार्धशरीरसत्वेन पुत्राभावविरहात् । तथा च बृहस्पतिः - 'यस्य नोपरता भार्या देहार्धं तस्य जीवति । जीवत्यद्वै शरीरे तु कथमन्यः समाप्नुयात् ॥' इति । न च दुहितुः साक्षात्पित्रवयवारब्धत्वेन पित्रवयवारब्धपुत्र सहकारिस्नुषापेक्षया संनिकृष्टत्वमिति वाच्यम् । दुहित्रपेक्षया सगोत्रसपि - पडायाः स्नुषायाः प्रत्यासत्यतिशयात् । पित्रादिष्वतिप्रसङ्गस्तु न । तेषां वचनेनैव व्यवस्थानविशेषस्य नियमितत्वात् । यत्रापि पतिमरणानन्तरं पत्न्येव लभते तत्रापि मातृधनत्वेन तद्धनं दुहितृगामीति न भ्रमितव्यम् । जन्मना पुत्रस्येव विवाहात् स्नुषाया अपि भर्तृद्वारा श्वशुरधने स्वत्वोत्पत्या श्वशुरमरणे श्वश्रूस्नुषयोः स्वत्वसाम्येन श्वशुरमरणे स्नुषायाश्च साधारणस्वाम्यात्' इति श्वशुरमरणे भ्रान्तः ।
... तन्न । वस्तुतस्तथा सत्वेऽपि तदभावायत्तत्वस्य तस्या शाब्दत्वात् । पत्नीतः प्रागपि तदधिकारापत्या सकलव्याकुलीभावापत्तेः । 'अर्धो वा एष आत्मनः' इति श्रुतिमूलक स्योक्त बृहस्पतेः प्रत्त्यासत्या तादृशपतिधनविषये पन्या अधिकारबोधकत्वेन प्रकृतेऽप्राप्तेः । तत्प्रयासच्यपेक्षया स्नुषायां तादृशप्रत्त्यासत्यतिशयाङ्गीकारे दुहितुः रपि प्राक् पिचादेरधिकारापत्या स्मृतिविरोधबाहुल्यापत्तेः । स्थान विशेषनियमितत्वस्य स्नुषायामपि तुल्यत्वात् । तस्या अपि गोत्रजत्वात् । एतेन यत्रापीत्याद्यग्रिममपि निरस्तमिति दिक् । बाल. (पृ.२०६) अत्रेदं बोध्यम् । यद्यपि मानवे पुंस्त्वैकवचनाभ्यां दौहित्रस्यैव धनभाक्त्वमायातीति तावदेव विज्ञानेश्वरेण चशब्दसमुच्चेयमुक्तं तथापि दौहित्राभावे दौहित्र्यास्तत्व
मपि चसमुच्चेयम् । 'अप्रजः स्त्रीधनं भर्तुरिति वक्ष्यमाणनाप्रजः स्त्रीधनोद्देशेन भर्तुर्दुहितृदौहित्र्यादेश्व संबन्धविधानेनोद्देश्य विशेषणत्वेन स्त्रीत्वादेरविवक्षितत्वेन दुहितृणां प्रसूता चेदि' त्यस्य पितृधनेऽपि तुल्यत्वात् । एवंरीत्या 'मातुर्दुहितर' इति नारदस्याप्यत्रानुकूलत्वात् । युक्तं चैतत् । यथा मातृधनग्रहणे दुहितृदौहित्रपुत्रपौत्रादिक्रमस्तथा पितृधने पुत्रपौत्रप्रपौत्र पत्नीदुहितृदौहित्र दौहि-त्र्यादिक्रमस्य प्रत्यासत्तितारतम्येन न्यायप्राप्तत्वात् । 'स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानां चे 'ति (गौध. २८/२२) गौतमवचनस्य पितृधनेऽपि समानत्वादित्यनुपदमेवोक्तवता विज्ञानेश्वरेण सूचितत्वात्तत्संमतमपीदम् । अन्यथा दौहित्र्याः पूर्वत्र वक्ष्यमाणेषु च स्वतो नोक्तत्वादनन्तर्भावाच्च पितृधनविषये तस्या अनधिकारस्यैवापत्तिरिति महान् दोषः । अग्रे यथाकथंचिदन्तर्भावे तु ' प्रथमं धनग्रहणे प्रत्यासत्तेर्नियामकत्वबोधकमन्वादिविरोधः स्पष्ट एव । अत एवाग्रे भ्रात्रनन्तरमेव तत्सुतोक्तिरितीति । बाल. (पृ.२०७) वस्तुतस्तु आदौ पिता तदभावे मातेति क्रमों युक्तः । किं चेत्यस्यावतरणोक्तयुक्तेः । किं चेत्याद्युक्तः तारतम्यसत्त्वेऽपि पुत्रे 'पित्रवयवबाहुल्यान्मात्रपेक्षया तत्र प्रत्यासत्यतिशयात् तदपेक्षया तस्य अभ्यर्हितत्वात् । क्षेत्रजविशेषविषये उक्तवैपरीत्यस्य सत्त्वेन तथा तस्यापि दुर्वचत्वाच्च । किं च । तदेव हि प्रत्त्यासत्तेर्मूलकारणं, 'मातुर्दुहितर' इत्यत्रापि तथैव विज्ञानेश्वरेण प्रतिपादितं च । अग्रे बन्धुपदव्याख्यावसरे 'आत्मबान्धवाः पितृबान्धवा मातृबान्धवाः वृद्धशातातपाद्युक्तक्रमेणैव प्रतिपादिताः । स्त्रीधनविभाग वैपरीत्येनात्रैवमेवोचितं च । अतएव च विष्णुकात्यायनौ प्रागुक्तौ, 'अपुत्रधनं पत्न्यभिगामि तदभावे दुहितृगामि तदभावे दौहित्रः गामि तदभावे पितृगामि तदभावे मातृगामी 'ति । 'अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावें पिता माता भ्राता पुत्राश्च कीर्तिताः ॥' इति च । अन्यथा तयोरपि क्रमबोधकत्वेन तद्विरोधो दुष्परिहर एव । एतदनुरोधेन तयोरन्यथानयनस्य कर्तुमशक्यत्वात् । इदं तु तदनुरोधेनोक्तरीत्या सुयोजमेव ।
T
'भ्रातृपुत्रौ' इत्येकशेषेण प्रागुक्तसिद्धान्तरीत्या पूर्वे