________________
२२
रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत् । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥ तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति । अघि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥ हे पाठाख्ये ओषधे, शत्रुः प्रतिवादी, प्राशं प्रष्टारं वादिनं त्वत्सेवकं मां, नेत् जयाति नैव जयतु । यतस्त्वं सहमाना शत्रुसद्दनस्वभावा, अत: अभिभूरसि प्रतिवादिनः शत्रोरभिभवित्री भवसि । एवं अतिशयितवीर्ययुक्तायास्तव सेवया मां शत्रुर्न जयतु इत्यर्थः । प्राशं प्रष्टारं वादिनं मां उद्दिश्य, प्रतिप्राशः प्रतिकूलप्रश्नकर्तृन् प्रतिवादिनो, जहि पराजितान् कुरु । (१)
इन्द्र, यः प्रतिवादी, नः अस्मान्, अभिदासति उपक्षपयति युक्तिभिस्तिरस्करोति । तस्य उपक्षपयितुः, प्राशं प्रतिकूलप्रश्नरूपं वाक्यं, त्वं जहि नाशय । तथा शक्तिभि स्त्वदीयैः सामर्थ्यविशेषैः, नः अस्मान्, अधि ब्रूहि अधिक वचनयुक्तान् ग्राह्यवाचः कुरु । फलितमाह । प्राशं प्रष्टारं वादिनं मां, उत्तरं प्रतिवादिनोऽप्युत्कृष्टतरं, कृषि कुरु । (७)
*असा.
व्यवहारकाण्डम्
व्यवहारसभा
सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने । येना संगच्छा उपमा स शिक्षाच्चारु वदानि . पितरः संगतेषु ॥ : (१) प्रजापतिः प्रजानां पाता वा पालयिता वा । नि. १०/४२ (२) सभा विदुषां समाज: । समितिः संयन्ति संगच्छन्ते युद्धाय अत्रेति समितिः संग्रामः । सांग्रामीणजनसभेत्यर्थः । ते उमे अपि, मा मां वादिनं, अवतां रक्षताम् । कीदृश्यौ । प्रजापतेः सर्वजगत्स्रष्टुर्दुहितरौ पुत्र्यौ । विद्वत्संघस्य सभात्वात् तदुक्तेश्च सर्वशास्त्रनिर्णीतधर्मरूप - त्वात् प्रजापतिपुत्रीत्वव्यपदेशः । ते च सभे संविदाने अस्मद्रक्षणविषयं ऐकमत्यं प्राप्ते । किं च येन वादिना, संगच्छे
* द्वितीयादिषष्ठान्तमन्त्रव्याख्या समुद्धृता ।
(१) असं. ७/१३/१..
प्रकृतानुपयुक्तत्वात् न
वक्तुं संगतो भवानि । स विद्वान्, मा मां संगतं, उप शिक्षात् उपेत्य शिक्षयतु । समीचीनं वादयत्वित्यर्थः । अयमर्थः । येन सह अहं विवदे, स स्वयं मदुक्तवचनविघटनपटूनि वाक्यानि अभाषमाणः प्रत्युत मामेव स्ववचनतिरस्कारकवाक्यवादिनं करोत्विति । अपि च, हे पितरः पालकाः, मदुक्तं वाक्यं साधु साध्विति अनुमोदमानाः पितृभूतावा हे सभासदो जनाः, संगतेषु मया सह वक्तुं मिलितेषु वादिषु, चारु न्यायोपेतं सदुत्तरं वदामि यथा सम्यग् वदामि तथा अनुगृहीतेत्यर्थः ।
असा.
'विद्म ते सभे नाम नरिष्टा नाम वा असि । ये ते के च सभासदस्ते मे सन्तु सवाचसः ॥ हे सभे, ते तव, नाम नामधेयं, विद्म जानीमः । तन्नाम दर्शयति । हे सभे नाम नाम्नेति यावत् । नरिष्टा अहिंसिता परैरनभिभाव्या । एतन्नामिका असि वै भवसि खलु । अतस्ते तव संबन्धिनः ये के च सभासदः सभायां सीदन्तो विद्वांसः, ते सर्वे मे मम, सवाचसः समानवाक्याः, सन्तु भवन्तु । न हि सभा सर्वा संभूय एकं प्रति ब्रूते अपि तु तत्रत्याः कतिपये । तेऽपि मद्विषये अनुकूलवाक्या भवन्तु इति प्रार्थ्यते ।
असा.
ऐषामहं समासीनानां वर्चो विज्ञानमा ददे । अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु । समासीनानां सभायां अवतिष्ठमानानां, एषां पुरोवर्तिनां वादिनां, वर्चः तेजो वैदुष्यजनितप्रभावविशेषं, विज्ञानं वेदशास्त्रार्थविषयं ज्ञानं च । विज्ञानं शिल्पशास्त्रयोरिति तद्विदः । तद् अहं आददे स्वीकरोमि अपहरामीत्यर्थः । किंबहुना हे इन्द्र, इन्द्रस्यैव वागनुशासनकर्तृत्वात् सभाजयकर्मणि तस्यैव प्रार्थनम् । तादृशेन्द्र, अस्याः पुरः स्थितायाः, सर्वस्याः संसदः सभायाः, भगिनं -भगो भाग्यं वैदुष्यलक्षणं जयलक्षणं वा तद्वन्तं मां कृणु कुरु । सर्वामपि सभां मदेकवाक्यश्रवणपरां कुर्वित्यर्थः । असा.
यद् वो मनः परागतं यद् बद्धमिह वेह वा । तद् व आवर्तयामसि मयि वो रमतां मनः ॥ हे सभासदः, वः युष्माकं, यन्मनः मानसं, परागतं अस्मत्तः परागत्य अन्यत्र गतं, अस्मदनभिमुखमित्यर्थः ।
(१) असं. ७ १३२. (२) असं. ७ १३1३. (३) असं.
७।१३/४.