SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १६ व्यवहारकाण्डम् व्यवहारयोनित्रयम् कामात्क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात्प्रवर्तते । त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् ॥ अभा.१० (१) कामादयस्त्रयोऽपि यस्मात् प्रवर्तन्ते तस्मात् त्रियोनिरेव व्यवहार उच्यते । (२) यथासंभवं, सर्वत्रेति शेषः । स्मृच. १२ (३) कामादिभ्यस्त्रिभ्यः प्रवर्तनात् त्रियोनिः । यस्मादेतत् त्रयमपि निह्नवाभियोगवाग्दण्डपारुष्यादिद्वारेण विवादस्य कारणम् । अभियोगो द्विधा व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगत्तः । शङ्काऽसतां तु संसर्गात्तत्वं होढादिदर्शनात् ॥ (१) तत्र द्विप्रकार एव अभियोगो भवति । एकः शङ्काभियोगो द्वितीयस्तत्त्वाभियोगश्च । एतयोश्च द्वयोरपि लक्षणमेतस्यैव श्लोकस्यार्धेनाभिहितम्। शङ्का सदाऽसत्संसर्गादिति । असन्तो ये प्रसिद्धाश्चौरकर्मप्रभृतयः, तथा वेश्याद्यूतव्यसनं चासत् । एतेषु यस्य सदा अत्यासक्तिदृश्यते, तस्यगृहभेदज्ञस्योपरि नाष्टिकस्य पुरुषस्य महती शङ्का समुत्पद्यते । तेनार्थचलेन तस्यासत्सङ्गिनः नाष्टिकोऽभियोगं यं ददाति स शङ्काभियोग उच्यते । यस्तु तत्त्वामियोगः स होढादिदर्शनात् भवति । स्वकीयं द्रव्यं यन्नष्टं तद् होढमुच्यते चोरितं च । तद् दृष्ट्वा योऽभियोगः परस्य दीयते स तत्त्वाभियोग उच्यते । तत्र शङ्काभियोगस्य देवकुलं निर्णयस्थानम् | तत्त्वाभियोगस्य राजकुलमिति । अभा. १० नाभा. ११२१ (१) नासं. १।२१; नास्मृ. १।२६६ अपु. २५३।९ १०६ अभा. १०; अप. २।१३ व्यक. १७; स्मृच. १२; पमा. ११ तेन (तस्मात्); स्मृचि.२; नृप्र. ३; व्यसौ . १२६ व्यप्र. ६; व्यउ.४१ राकौ . ३८४ उत्त.; प्रका. ३; समु. ३. (२) नासं. १।२२३ नास्मृ. १।२७; अपु. २५३।१०-११ सतां (सद्भिः) होढादि षोढाभि); अभा. १० सतां तु (सदाऽसत्); मिता. २५ (अ) ढादि (ढाभि); व्यमा २८९ व्यभियोगस्तु (अभियोग: सं) (संसर्गादसतां शङ्का तत्त्वं द्राढाभिदर्शनात् ); अप. २११ ढादि (ढाभि); व्यक. १७; स्मृच. १२; पमा. १२३ व्यनि.; स्मृचि २ ढादि (डाभि); नृप्र. ३; व्यसौ. १२ अपवत् व्यप्र. ६ स्मृचिवत् व्यउ. ४ स्मृचिवत्; विता.३२ अपवत्; सकौ . ३८४ उत्त.; प्रका. ३; समु. १. (२) होढा लोप्त्रं, लिङ्गमिति यावत् । तेन दर्शनं साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽ पि. द्विविधः । प्रतिषेधात्मको विध्यात्मकश्चेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायमपहरतीति वा । मिता. २१५ (३) होढा लोप्त्रं, तत्साहचर्यात् शङ्काभियोगः चौर्यादिविषयः । असतां संसर्गादिति हेत्वभिधानाच्च । ऋणादिविवादेषु तु तत्त्वाभियोग एव, निःसंदिग्धनिराकुल इति वक्ष्यमाणात् । व्यमा. २८९ (४) असतामसाधूनां व्यवहारकर्तृत्वसंभवाद्भवति शङ्का संदेहः । होढाभिदर्शनं लोप्त्रादेर्लिङ्गस्य दर्शनं प्रत्यक्षदर्शनं वा । एवं च ऋणादानादौ प्रमाणपूर्वकः संशयपूर्वकश्चाभियोगः संभवतीति भवति द्व्यभियोगत्वम् । अभियोग आक्षेपः । - अप. २/१ (५) कितवस्तेनाद्यसद्भिः संसर्गात्साधावपि स्तेयादिशङ्का भवति । होढादिदर्शन मपहृतैक देशादि लिङ्गोपलम्भः प्रत्यक्षदर्शनं वा । उदाहरणमात्रमसतां संसर्गः, सतामप्याढ्यानां संसर्गे सति निक्षेपादिशङ्कासंभवात् । अतो नैतलक्षणं शङ्काभिगोगस्य । *स्मृच. १२ (६) अभियुज्यत इत्यभियोगः । द्वाभ्यामभियोगो व्यभियोगः । द्वावभियोगौ यस्येति वा । नाभा. १।२२ व्यवहारपक्षद्वयम् । पेक्षद्वयाभिसंबन्धाद् द्विद्वारः समुदाहृतः । पूर्ववादस्तयोः पक्षः प्रतिपक्षस्तदुत्तरम् ॥ (१) पूर्वपक्षरूपं प्रथमं द्वारं तेन द्वारेण व्यवहारः प्रविशति । द्वितीयं द्वारं प्रतिपक्षस्थित उत्तरवादी यानि वदति तेन द्वारेण प्रविशतीति । अभा. १० + अप. २११ (२) द्वारं कार्यारम्भप्रवृत्तिः । (३) अर्थिप्रत्यर्थिनोर्यौ पूर्वोत्तरपक्षी तौ व्यवहारस्य *पराशरमाधवे (पृ. २०) व्यवहाराद्योते च वाक्यार्थ: स्मृचवत् । + स्मृच अपवत् । (१) नासं. ११२३ द्वा () समु (स उ त्तरम् (तर: ) ; नास्मृ. १।२८; अपु. २५३।११-१२ स्तदुत्तरम् (स्त्वनन्तरः ) ; अप. २।१ ( पूर्वस्तु भाषया पक्ष: प्रतिपक्षं तदुत्तरम् ); स्मृच. १२ दुत्तरम् (थोत्तरः); पमा १२ प्रतिपक्ष (प्रतिवाद), शेषं नासंवत् ; नृप्र. ३; व्यसौ. १२ स्तयोः (स्तु यः ) त्तरम् (त्तरः); ब्यउ. ४ नासंवत् ; प्रका. ३ पक्षस्तदुत्तरम् (वादस्तदुत्तरः ) ; समु . ३ व्यप्रवत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy