________________
८
१२ दत्तस्यानपाकर्म । १३ अस्वामिविक्रयः । १४ स्वस्वामिसंबन्धः । १५ साहसम् । १६ वाक्पारुष्यम् । १७ दण्डपारुष्यम् । १८ द्यूतसमाह्वयम् । १९प्रकीर्णकानि । इति धर्मस्थीयं तृतीयमधिकरणम् । * १ अथ धर्मस्थीयं तृतीयमधिकरणम् । धर्मस्था नाम धर्मशास्त्रज्ञाः धर्मशास्त्रानुसारेण व्यहारनिर्णयकर्मण्यधिकृताः । तेषामिदं धर्मस्थीयं तन्निर्णेयव्यवहारपदप्रतिपादकमित्यर्थः । तत्र प्रथमं सूत्रम् - व्यवहारस्थापना इति । कीदृशो व्यवहारः सिध्यति कीदृशो न सिध्यतीति व्यवस्थापनमिति सूत्रार्थः ।
व्यवहारकाण्डम्
२ विवादपदनिबन्धः, इति सूत्रम् । विवादपदस्य निबन्धः पूर्वोत्तरपक्षात्मना पत्रे आरोपणं, तत्पूर्वकं चिन्तनमित्यर्थः ।
३ विवाहसंयुक्तम्, इति सूत्रम् । विवाहा अष्टविधाः ब्राह्मादयः, तत्सबंद्धो व्यवहार इत्यर्थः । एतच्च प्रकरणं त्रिभिरध्यायैर्वितन्यते ।
४ दायविभागः, इति सूत्रम् । दायः पितृपितृव्यादिधनं तस्य विभागः, अयमपि त्रिभिरध्यायैर्वितन्यते ।
मूल्यमादाय दत्तं पण्यं, क्रीतं मूल्यं दत्वा गृहीतं, तयोर्विषये अनुशयः विक्रयविषयः क्रयविषयश्च पश्चात्ताप इत्यर्थः ।
१० संभूयसमुत्थानम्, इति सूत्रम् । वाणिजकैरन्यैर्वा समुदेत्यारभ्यभाणं कार्य संभूयसमुत्थानम् ।
११ विक्रीतक्रीतानुशयः, इति सूत्रम् । विक्रीतं
१२ दत्तस्यानपाकर्म, इति सूत्रम् । दत्तस्य धर्माद्यर्थे वाचा दत्तस्य अनपाकर्म अप्रदानम् । एतच विषयविशेषे पुनर्हरणस्याप्युपलक्षणम् । १३ अस्वामिविक्रयः इति सूत्रम् । अस्वामी परद्रव्यव्यवहर्ता तेन कृतो विक्रयः अस्वामिविक्रयः । १४ स्वस्वामिसंबन्ध:, इति सूत्रम् । स्पष्टार्थम् । १५ साहसम् इति सूत्रम् । सहसा कृतं कर्म साहसं प्रसभकर्म ।
१६ वाक्पारुष्यम्, इति सूत्रम् । वाचा कुत्सनभर्त्सना दिकमित्यर्थः ।
१७ दण्डपारुष्यम्, इति सूत्रम् । दण्डेन करणेन पारुष्यं परुषकर्म द्रोहो दण्डपारुष्यम् ।
१८ द्यूतसमाह्वयम्, इति सूत्रम् । द्यूतं अक्षक्रीडा, समाह्वयः अजकुक्कुटादिप्राणिदेवनं, तयोः समाहारः द्यूतसमाह्वयं, तत्संबद्धो व्यवहारः प्रकरणेऽस्मिन्नभिधीयत इत्यर्थः ।
१९ प्रकीर्णकानि, इति सूत्रम् । उक्तविवादपदानन्तर्गतानि याचितकाद्यदानादिनिमित्तानि विवादपदान प्रकीर्णकानि तान्यत्राभिधीयन्ते इत्यर्थः ।
इति धर्मस्थीयमित्यादि । एवमेकोनविंशतिप्रकरणं धर्मस्थीयमधिकरणं तृतीयं समुद्दिष्टमित्यर्थः ॥ श्रीमू.
५ वास्तुकम् इति सूत्रम् । वस्तु गृहारामक्षेत्रादि तत्संबद्धं वास्तुकम् । इदमध्यायत्रयेण वितन्यते । तत्र तृतीयाध्याये उत्तरमपि प्रकरणं प्रवेशितम् ।
६ समयस्यानपाकर्म, इति सूत्रम् । इदमहं करिष्यामीत्यभ्युपगमात्मा संकेतः, इदमनेन कर्तव्यमिति बहुभिः संभूय कृतो वा संकेतः समयः । तस्य अनपाकर्म त्यागाभाव:, इति सूत्रार्थः । इदं प्रकरणं वास्तुकप्रकरणीयविवीतक्षेत्रपथहिंसाव्युत्पादनाध्याये व्युत्पादितम् ।
७ ऋणादानम्, इति सूत्रम् । ऋणग्रहणनिर्यातन- हिंसां यः कुरुते कञ्चिद्देयं वा न प्रयच्छति ।
संबद्धो व्यवहार इत्यर्थः ।
८ औपनिधिकम् इति सूत्रम् । उपनिधिर्निक्षेपः तत्संबद्धमनुष्ठानमौपनिधिकम् ।
स्थाने ते द्वे विवादस्य भिन्नोऽष्टादशधा पुनः ॥ तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥
९ दासकर्मकरकल्पः, इति सूत्रम् । अत्यन्तपारार्थ्यमासाद्य शुश्रूषका दासाः, भृत्यर्थं शुश्रूषकाः कर्मकराः तेषां कल्पः तत्संबन्धी विधिः ।
मनुः, व्यवहारपदानि
(१) मस्मृ. ८ | ३ इत्यत्र प्रक्षिप्तश्लोकोऽयम्; व्यमा २८५ ते द्वे (स्तु) भिन्नोऽष्टादशधा पुनः (तयोर्बहुविधा गतिः). स्मृति - चन्द्रिकायां (पृ. २) तु बृहस्पतिः ।
(२) स्मृ. ८।४; विश्व. २1१; व्यक. १७; दीक. ३१; विचि. १; नृप्र. ३; सवि. ४८,५२,४५०३
मिता. २।५; अप. २1१; स्मृचि. २; दवि. २२५; व्यसौ. १३३ बीमि. २ ५;