SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् (१) ऋणादानाद्यष्टादशविवादे विरुद्धार्थार्थिप्रत्यर्थिवाक्यजनितसंदेहहारी विचार एव व्यवहारः । तदाह कात्यायनः 'वि नानार्थेव' इत्यादि । ममु.८११ (२) व्यवहारशब्दस्य यौगिकमर्थं कात्यायन आह'वि नानार्थेव ' इत्यादि । व्यवहार इत्यत्र 'वि 'शब्दो नानेत्यस्मिन्नथ वर्तते । 'अव 'शब्दश्च संदेहे वर्तते । तानेतानेवंविधानेकसंदेहहारिणो व्यवहारानर्थ्यादिगतरागद्वेषवशात् प्राप्तान् राजा सम्यग् विचारयेत् । तद्वि चार राशो गुणधर्मरूप आचारः । पमा. ७-८ (३) नानाविवादविषयः संशयो व्हियतेऽनेन इति व्यवहारः । भाषोत्तरक्रियानिर्णायकत्वं व्यवहारत्वम् । व्यत. १९८ व्यवहारोत्पत्तिः [[वृक्षरूपकम् ] साध्यं वादस्य मूलं स्वाद्वादिना यन्निवेदितम् । देयाप्रदानं हिंसा चाभ्युत्थानद्वयमुच्यते ॥ धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयमुदाहृतम् । जयश्चैवावसायश्च द्वे फले समुदाहृते ॥ अवसायः पराजयः । (१) व्यवहारचात्र वादिप्रतिवादिनोरितरेतराशनीद्वाराय वृतिरुच्यते । अथवा ऋणादानादयः पदार्थ एव विप्रतिपत्तिविषयाः सन्तो विचारगोचरसमर्थतया कर्तव्या इति । मेघा.८११ ( २ ) अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा, कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति । धर्मशास्त्रसमयाचारविरुद्धेन मार्गेण परैराधर्षितोऽभिस्मृच. १३ भूतो यद्राज्ञे प्राड्विवाकाय वा आवेदयति विज्ञापयति चेद्यदि तदा आवेद्यमानं व्यवहारपदं प्रतिशोत्तरसंशयहेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पर्द विषयः, तस्य वेदे सामान्यलक्षणम् मिता. २२१,२२५ (३) यद्यपि सभ्यसभापतिव्यापारोऽपि व्यवहारशब्देनोष्पते- 'चतुष्पाद्व्यवहारोऽय विवादेषूपदिश्यते इत्यत्र भाषेोत्तरप्रमाणनिर्णयात्मकाश्चत्वारो व्यवहारपादा वक्ष्यन्ते । तत्र निर्णयपादः सभ्यसभापतिव्यवहार इति प्रसिद्धम् । तथाऽपि नृपं प्रति द्रावादिप्रतिवादि व्यापार एवं [शक्यो विधातुं नृपव्यापारस्तु न द्रष्टव्यः किं तु कार्यः । तस्मादत्र व्यवहारशब्देन वादिप्रतिवादिव्यापार एव] वक्तव्यः अथवा निर्णयपादोऽपि सभ्यकर्तृको भवति नृपस्य परीक्षकतया दृश्य इति पादचतुष्टयाभिप्रायेणापि व्यवहारपदव्याख्यानं नायुक्तम् । अप. २।१ हारीतः व्यवहारलक्षणम् स्वैधनस्य यथा प्राप्तिः परधर्मस्य वर्जनम् । न्यायेन यत्र क्रियते व्यवहारः स उच्यते ॥ (१) धनापह्नवविवादः, पाषण्डादीनां स्वधर्मव्यत्यय विवादोऽपि व्यवहार इत्यर्थः । न चैवं चौर्यपारुष्यादिविवादो न व्यवहार इति शङ्कनीयम् । (२) न्यायेन प्रमाणेन । स्मृच. १ व्यप्र. ५ शुक्रनीति: व्यवहारलक्षणम् स्वेप्रजाधर्मसंस्थानं सदसत्प्रविचारतः । जायते चार्थसंसिद्धिर्व्यवहारस्तु येन सः ॥ संग्रहकारः व्यवहारलक्षणम् व्यवहारस्वरूपम् [ वृक्षरूपकम् ] एकमूलो द्विरुत्थान द्विस्कन्धो द्विफलस्तथा । स्मृतः स उच्यते । वसी. ११वीमि २१ ५.२ बाल.२।१; प्रका.२ कार्ष्णाजिनिः; समु. ३; विव्य. २ उत्त. (१) स्मृच. १३; प्रका. ४ भ्यु (प्यु ); समु. ४ दानं (धानं) भ्यु (यु). (२) स्मृच. १३; प्रका. ४; समु.४. (३) स्मृच. १; पमा ७ धन (धर्म) यत्र क्रियते (क्रियते यत्तु ); प्र. ५ धन (धर्म) यत्र क्रियते (क्रियते तचु); प्रका. १; समु. २ कि कियते यत्र ). (४) स्मृच.१३; प्रका, ४; समु.४. परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यन्यायाव्यवस्थानं व्यवहार उदाहृतः ॥ निमन्धकाराणां व्यवहारलक्षणम् --- (४) ऋणादानाद्यष्टादशविवादे विरुद्धार्थार्थिप्रत्यर्थिवाक्यजनितसंदेहहारी विचार एव व्यवहारः । ममु. ८।१ (१) शुनी. ४/५०५. (२) मिता. २१८; स्मृच. १३ वाक्यन्यायात् ( वाक्यान्याय); स्मृचि. १ ( = ) स्मृचवत् व्यप्र. ४४; विता. ५१ नारदः; प्रका. ४ स्मृचवत्; समु. ३ स्मृचवत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy