SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ व्यवहारस्वरूपम् व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ॥ वेदप्रसूतात्मा स धर्मो गुणदर्शनः । धर्मप्रत्यय उद्दिष्टो यथाधर्मं कृतात्मभिः ॥ व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर । त्रीन् धारयति लोकान्वै सत्यात्मा भूतिवर्धनः । यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः । व्यवहारश्च दृष्टो यः स वेद इति निश्चितम् ।। यच वेदः स वै धर्मो यश्च धर्मः स सत्पथः । ब्रह्मा पितामहः पूर्वं बभूवाथ प्रजापतिः ॥ लोकानां स हि सर्वेषां ससुरासुररक्षसाम् । स मनुष्योरगवतां कर्ता चैव स भूतकृत् ॥ ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः । तस्मादिदमथोवाच व्यवहारनिदर्शनम् ॥ माता पिता च भ्राता च भार्या चैव पुरोहितः । नादण्ड्यो विद्यते राज्ञो यः स्वधर्मेण तिष्ठति ।। भर्तृप्रत्ययः भर्तारौ द्वौ विवदमानौ प्रत्ययः कारणं यस्य सः, तथा वादिप्रतिवादिभ्यां प्रवर्तितो व्यवहारः `तयोरन्यतरस्य प्रत्ययोऽभ्युपगमो लक्षणं यस्य स भर्तृप्रत्ययलक्षणः । अन्यतरपराजयादित्यर्थः । सहितो हितं इष्टं तेन युक्तः सहितः । अन्यतरजयावह इत्यर्थः ॥ वेदात्मा वेदोक्तो दोषः पारदार्यादिः तन्निवृत्यर्थं पर्षदं प्रति गतचेत्तत्र प्रायश्चित्तात्मको वेदहेतुक एव दण्डः । मौल: कुलाचारप्रयुक्तो यो व्यवहारस्तत्रापि शास्त्रोक्तो दण्डः । यथा शूद्रस्य सुरापाने प्रायश्चित्तं नास्ति अथापि कस्मिंश्चिच्छूद्रकुले एवं नियमो 'योऽस्माकं मध्ये सुरां पियति स ज्ञातिवाह्य इति तस्योलङ्घने शूद्रस्य सुरापानोक्तं प्रायश्चित्तं भवति, तथा च शास्त्रविदामनुक्रमणं धर्मज्ञानां समयः प्रमाणं वेदाश्चेति । तेषां त्रयाणां दण्डानां मध्ये आद्यः क्षत्रियाधीन इत्याह- उक्त इति । नः अस्माभिः क्षत्रियैर्दण्डोऽपि ज्ञेनः तत्र प्रत्ययोऽपि ज्ञेयः ॥ अस्यापि वेदमूलत्वमाह - दण्ड इति । विविधोऽवहारः अन्योन्यं परपक्षक्षेपेण स्वपक्षसाधनं व्यवहारः तदात्मको न्यायः स यद्यपि दण्डः प्रत्ययदृष्टस्तथापि स व्यवहारपदार्थों मन्वादिभिः स्मृतोऽस्ति अतः सोऽपि वैदिकप्रणीतत्वाद्वेदविषयात्मको वेदार्थगोचरोऽस्तीत्यर्थः ॥ इतरौ द्वौ व्यवहारौ वेदमूलत्वाद्धर्मरूपावित्याह-यश्चेति ३ द्वाभ्याम् । यथाधर्मे उद्दिष्टः मम पारदार्यजेनाधर्मेण धर्मलोपो मा भूदिति पश्चात्तापवति उद्दिष्टः प्रायश्चित्तरूपो दण्डो धर्म एवेत्यर्थः ॥ प्रजागोता प्रजाकृतस्य नियमस्य रक्षिता, शूद्रस्यापि सुरापानप्रायश्चित्तादिरूपः सोऽपि धर्म एवेत्यर्थः ॥ दण्डव्यवहारधर्मवेदसत्पथप्रजापतीनामैकात्म्यमाह द्वाभ्यां य इति । यतः प्रजापतिभूतकृत् ततो हेतोः अयमस्मदीयो भर्तृप्रत्ययलक्षणो व्यवहारः प्रवृत्तस्तस्मादस्मिन्विषये स इदं निदर्शनं वाक्यं उवाच ॥ तदेव वाक्यं पठति-मातेति । यो राजा 1 स्वधर्मेण तिष्ठति तस्य राज्ञ इति संबन्धः ॥ नीटी. नारदः व्यवहारोत्पत्तिस्तत्प्रयोजनं च arhiरक्षणार्थाय धर्मसंस्थापनाय च । राज्ञां दोषहरचैव व्यवहारः प्रकीर्तितः ॥ मेनुः प्रजापतिर्यस्मिन् काले राज्यमबूभुजत् । धर्मैकतानाः पुरुषास्तदासन् सत्यवादिनः ॥ धर्मैकतानाः पुरुषा यदासन् सत्यवादिनः । तदा न व्यवहारोऽभून्न द्वेषो नापि मत्सरः ॥ (१) तत्र धर्मः श्रुतिस्मृत्युदितः शिष्टाचारलक्षणश्च । धर्मः एकतानः येषां ते धर्मैकतानाः । तानशब्दो बलवाची प्रधानवाची च । तेन धर्मैकवला धर्मैकप्रधानाश्च पुरुषा यदासन् इति यदा अभवन्, तदा न व्यवहारोऽभून्न द्वेषो नाऽपि मत्सरः । तस्मिन्काले एषां त्रयाणामपि असंभवहेतुः अयमेव प्रथमः । धर्मस्य व्यवहारद्वेषमत्सरैः सह छायातपविरोधः, यत्रातपस्तत्र न छाया, यत्र छाया तत्र नातपः । यदा धर्मस्तदा न व्यवहार द्वेषमत्सराः । यदा पुनरिमे तदा न धर्म इत्येतदर्थमेवेदमभिहितं भगवता नारदेन । *अभा. २ * व्यनि. अभागतम् । ( १ ) Vulg. नास्मृ. १।१ इत्यस्य प्रागयं श्लोकः । (२) नासं. १।१; पमा. ७; व्यनि. (मनुप्रजापतौ यस्मिन्काले राज्यं प्रशासति ); व्यप्र. ४; व्यउ. ३; प्रका.१; समु. २. कल्याणभट्टीये 'असहायभाष्ये' नायं श्लोकः समुपलभ्यते । (३) नास्मृ. १1१; अभा. २ द्वेषो (क्रोधो); विश्व. २।१९; व्यमा. २७८; स्मृच.१; पमा. ७ उत्त; व्याचे. १ नापि (न (च); व्यनि. उत्त. ; व्यप्र. ४ उत्त; व्यउ. ३ उत्त.; प्रका. १ उत्त. ; समु. २. कल्याणभट्टीये 'असहायभाष्ये' अयमाद्यः श्लोकः ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy