________________
कौटिलीयमर्थशास्त्रम्
शासनाधिकारः
लेख्यम्
शासने शासनमित्याचक्षते । शासनप्रधाना हि राजानः, तन्मूलत्वात् संधिविग्रहयोः । तस्मादमात्यसंपदोपेतः सर्वसमयविदाशुप्रन्थवाक्षरो लेखवाचनसमर्थो लेखकः स्यात् । सोऽव्यप्रमना राज्ञः संदेशं श्रुत्वा निश्चितार्थ लेखं विदध्यात् । देशैश्वर्यवंशनामधेयोपचारमीवरस्य देशनामधेयोपचारमनीश्वरस्य ।
'जातिं कुलं स्थानवयः श्रुतानि कर्मर्द्धिशीलान्यथ देशकालौ । यौनानुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात्पुरुषानुरूपम् ॥ अर्थक्रमः, संबन्धः, परिपूर्णता, माधुर्यमौदार्य, स्पष्टत्वमिति लेखसंपत् ।
तत्र यथावदनुपूर्वक्रियाप्रधानस्यार्थस्य पूर्वमभिनिवेश इत्यर्थस्य क्रमः ।
प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानमा समाप्तेरिति संबन्धः ।
अर्थपदाक्षराणामन्यूनानतिरिक्तता हेतूदाहरणदृष्टान्तैरर्थोपवर्णन श्रान्तपदतेति परिपूर्णता । सुखोपनीत चार्वर्थशब्दाभिधानं माधुर्यम् । अप्राम्यशब्दाभिधान मौदार्यम् । प्रतीतशब्दप्रयोगः स्पष्टत्वमिति । अकारादयो वर्णाः त्रिषष्टिः ।
वर्णसंघातः पदम् । तच्चतुर्विधं नामाख्यातो पसर्गनिपाताश्चेति । तत्र नाम सत्वाभिधायि । अविशिष्ट लिङ्गमाख्यातं क्रियावाचि । क्रियाविशेषकाः प्रादय उपसर्गाः । अव्ययाश्चादयो निपाताः ।
(१) कौ. २२१०.
पदसमूहो वाक्यमर्थपरिसमाप्तौ ; एकपदावरत्रिपदपरः परपदार्थानुरोधेन वर्गः कार्यः । लेखपरिसंहरणार्थ इति शब्दो वाचिकमस्येति च । निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानमथार्थना । प्रत्याख्यानमुपालम्भः प्रतिषेधोऽथ चोदना ॥ सान्त्वमभ्यवपत्तिश्च भर्त्सनानुनयौ तथा । एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ॥
तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा | गुणवचनमेतेषामेव प्रशंसा । 'कथमेतदि 'ति पृच्छा । ' एवं ' इत्याख्यानम् । देहीत्यर्थ । प्रयच्छामि' इति प्रत्याख्यानम् ।
i
अननुरूपं भवत इत्युपालम्भः । ' मा कार्षीः ' इति प्रतिषेधः । 'इदं क्रियतां' इति चोदना ।
'योsहं स भवान् मम यद्द्रव्यं तद्भवतः इत्युपग्रहः सान्त्वम् । व्यसनसाहाय्यमभ्यवपत्तिः । सदोषमा यतिप्रदर्शनमभिभर्त्सनम् ।
अनुनयस्त्रिविधोऽर्थकृतावतिक्रमे पुरुषादिव्यसने चेति ।
प्रज्ञापनाज्ञापरिदानलेखाः तथा परीहारनिसृष्टिलेखौ । प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्चेति हि शासनानि ॥
अनेन विज्ञापितमेवमाह तद्दीयतां चेद्यदि तत्वमस्ति । राज्ञः समीपे वरकारमाह प्रज्ञापनैषा विविधोपदिष्टा ॥
भर्तुराज्ञा भवेद्यत्र निग्रहानुग्रह । प्रति । विशेषेण तु भृत्येषु तदाज्ञालेखलक्षणम् ॥ यथार्हगुणसंयुक्ता पूजा यत्रोपलक्ष्यते । अयाधौ परिदाने वा भवतस्तावुपग्रहौ || जातेर्विशेषेषु पुरेषु चैव ग्रामेषु देशेषु च तेषु तेषु । अनुग्रहो यो नृपतेर्निदेशात् तज्ज्ञः परीहार इति व्यवस्येत् ॥