SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ दण्डसंज्ञाः . ..... वेदाः . सभायां दण्डः अथाकामयत भारद्वाज ओजिष्ठा मे बलिष्ठा प्रजा स्यादिति । स एतं पश्चदशं स्तोममपश्यत् , तमाहरत् , तेनायमतौजो वै बलं पञ्चदशस्तोमानाम् । ततो वै तस्यौजिष्ठा बलिष्ठा प्रजाऽभवत् । अपि ह स्म तेन पथा पुरा कुरवो न यन्ति येन भारद्वाजा ययुः । अथो ह स्मोक्रोशन्ति भारद्वाजबलमिति । तस्मादु भारद्वाज एवानुज्ञातः सभायां दण्डथं प्रहरेत् । ओजिष्ठो बलिष्ठो भवति य एवं वेद । . निरुक्तम् . दण्डपदनिरुक्तिः देण्ड्यः पुरुषो दण्डमहतीति वा दण्डेन संप- | द्यत इति वा । दण्डो ददतेर्धारयति कर्मणः 'अक्रूरो ददते मणिम्' इत्यभिभाषन्ते । दमनादित्योपमन्यवः । दण्डमस्याकर्षतेति गर्हायाम् । . - हारीतः .. ब्राह्मणदण्डविचारः 'द्विजातीनामवध्यत्वान्मुडनं वध इष्यते ॥ विष्णुः यः समर्थो विसंवादे सर्वस्वहरणं दण्डस्तस्य पुरान्निवोसः। . ... महाभारतम् दण्डस्वरूपम् । दण्डपदनिरुक्तिः । दण्डप्रयोजनम् । । हिंसात्मकत्वादिदण्डाक्षेपपरिहारः। ----- अर्जुन उवाच-, दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः॥ . (१) जैब्रा. १४५. (२) नि.२।२. (३) सवि.४६३. | (४) सवि.४९२. (५) भा.१२।१५।२-५२... दण्डः संरक्षते धर्म तथैवार्थ जनाधिप । कामं संरक्षते दण्डत्रिवर्गो दण्ड उच्यते ।। दण्डेन रक्ष्यते धान्यं धन दण्डेन रक्ष्यते । एवं विद्वन्नुपाधत्स्व भावं पश्यस्व लौकिकम् ॥ राजदण्डभयादेके पापाः पापं न कुर्वते ।। यमदण्डभयादेके परलोकभयादपि ॥ परस्परभयादेके पापाः पापं न कुर्वते । एवं सांसिद्धिके लोके सर्व दण्डे प्रतिष्ठितम् ।। दण्डस्यैव भयादेके न खादन्ति परस्परम् । अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥ यस्माददान्तान् दमयत्यशिष्टान् दण्डयत्यपि । दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥ वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् । दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते ॥ असंमोहाय मानामर्थसंरक्षणाय च । । मर्यादा स्थापिता लोके दण्डसंज्ञा विशांपते ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः । प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ।। ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ।। दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः॥ नाभीतो यजते राजन्नाभीतो दातुमिच्छति ।' नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ।। नाच्छित्वा परमर्माणि नाकृत्वा कर्म दुष्करम् । नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ नानतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः। इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ॥ य एव देवा हन्तारस्ताल्लोकोऽयते भृशम् । हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निवरुणों यमः। हन्ता कालस्तथा वायुम॒त्युर्वैश्रवणो रविः टि. वसवो मरुतः साध्या विश्वेदेवाश्च भारत irr: एताम् देवान्नमस्यन्ति प्रतापप्रणता जनाः। र न ब्रह्माणं न धातारं नं पूषाणं कथंचन ।।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy