________________
दण्डमातृका
पतितस्य धनं हृत्वा राजा पर्षदि दापयेत् ॥ सर्वस्वं तु हरन् राजा चतुर्थ चावशेषयेत् । भृत्येभ्योऽन्नं स्मरन् धर्म प्राजापत्यमिति स्थितिः ॥ एवं धर्मप्रवृत्तस्य राज्ञो दण्डधरस्य च । यशोऽस्मिन् प्रथते लोके स्वर्गे वासस्तथाऽक्षयः ॥ अङ्गिराः
दण्डधराः । आत्महन्तृ दण्डः ।
राजा गुरुर्यमश्चैव शासन धर्मेषु युज्यते । कर्ता च मुच्यते पापान्न स पापेन लिप्यते ॥ आत्मानं घातयेद्यस्तु रज्वादिभिरुपद्रवैः । मृतोऽमेध्येन लेप्तव्यों जीवेच्चेद् द्विगुणो दमः ॥ वृद्धवसिष्ठः
महापापेषु ब्राह्मणदण्ड:
सुरापाने ध्वजाङ्कनं स्तेये च श्वपदाङ्कनम् । ब्रह्महत्यायां गर्दभाङ्कनं गुरुतल्पगमने भगाङ्कनम् ।
स्मृत्यन्तरम् निमित्तभेदेन दण्डतारतम्यविचारः
अशास्त्रोक्तेषु मार्गेषु पापयुक्तेषु कर्मसु । समीक्ष्य दण्डं दण्डयेषु पातयेदविचारयन् । आधे तु दण्डपादः स्याद्वितीयेऽर्ध तृतीयके । पादन्यूनं चतुर्थे च पादे संपूर्णदण्डभाक् ।। तद्विगी तत्वादप्रमाणमिति प्रपञ्चितं विश्वरूपाचार्येण । स्मृच. १२२
ब्राह्मणोऽवध्यः
jured ब्राह्मणस्य दण्डो भवति कर्हिचित् । अवध्या ब्राह्मणा गावो लोकेऽस्मिन् वैदिकी श्रुतिः ।। महापापेषु ब्राह्मणदण्ड: गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ।
(१) विर. ६ ३८; दवि. ५०; समु. ७०.
(२) विर. ६३८ स्थि (श्रु) उत्त; दवि. ६१; समुं. ७०रन् (रेत्) चाव (वाव). (३) पमा. ५८३; समु. १६५.
(४) विर. ६४८; दवि. ११; सेतु. २९९ लिप्य ( युज्य). (५) विर. ६६३; दवि ३१९. (६) सवि.४६७.
५९७५
यथाक्रमं प्रवक्ष्यामि चिह्नान्याह यथा मनुः ॥ गुरुतल्पे भगः कार्यः कृतघ्नस्य द्विजन्मनः । सुराध्वजं सुरापाने सुरापस्यापि कारयेत् ॥ स्ते तु श्वपदं कृत्वा शिखिपिच्छेन कुट्टयेत् । अशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः ॥ य एतैः पतितैः सार्धं संयोगं कुरुते नरः । सोऽसंभोज्यच कर्तव्यो मनुः स्वायम्भुवोऽब्रवीत् ॥ एते त्याज्याः कृताङ्काः स्युर्ज्ञातिसंबन्धिबान्धवैः ॥ अग्निपुराणम्
पेणानां द्वे शते सार्धं प्रथमः साहसः स्मृतः । .. मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः ॥
(७) समु. ६९. (८) स्मृच. १२२; प्रका. ७७; समु.६७ ण्डपादः (ण्डः पादः) . (९) बाल. २।२६. (१०) समु. ६८०
शुक्रनीति:
दण्डप्रयोजनम् । दण्डप्रयोगविवेकः । दण्डप्रकाराः । कालविशेषेण दण्डविशेषः । राज्ञा साम्यबुद्धया दण्डः प्रणेयः । कालस्य कारणं राजा सदसत्कर्मणस्त्वतः । स्वक्रौर्योद्यतदण्डाभ्यां स्वधर्मे स्थापयेत्प्रजाः ।। स्वप्रजानां न भेदेन नैव दण्डेन पालनम् । कुर्वीत सामदानाभ्यां सर्वदा यत्नमास्थितः ॥ स्वप्रजादण्डभेदैश्च भवेद्राज्यविनाशनम् ।
नाधिका यथा न स्युः सदा रक्ष्यास्तथा प्रजाः ॥ निवृत्तिरसदाचाराद्दमनं दण्डतश्च तत् । येन संदम्यते जन्तुरुपायो दण्ड एव सः ।। स उपायो नृपाधीनः स सर्वेषां प्रभुर्यतः । निर्भर्त्सनं चापमानो नाशनं बन्धनं तथा ।। ताडनं द्रव्यहरणं पुरान्निर्वासनाङ्कने । व्यस्तक्षौरमसद्यानमङ्गच्छेदो वधस्तधा ॥ युद्धमेते छुपायाः स्युर्दण्डस्यैव प्रभेदकाः । जायते धर्मनिरता प्रजा दण्डभयेन च ॥ करोत्याधर्षणं नैव तथा चासत्यभाषणम् । क्रूराव मार्दवं यान्ति दुष्टा दौष्टयं त्यजन्ति च।। पशवोऽपि वशं यान्ति विद्रवन्ति च दस्यवः । पिशुना मूकतां यान्ति भयं यान्त्याततायिनः ॥ करदाश्च भवन्त्यन्ये वित्रासं यान्ति चापरे । अतो दण्डधरो नित्यं स्यान्नृपो धर्मरक्षणे ॥
(१) अपु. २२७।४-५. (२) सुनी. ११६०. (३) सुनी.
४१३८-६९.