SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ५९६ गुणवान्, एतेषु निकृष्टेषु अल्पधनेषु वधार्हेषु अनुसारतः सुवर्णशतासंभवेऽपीदं, तस्याप्यसंभवे सर्वस्वम् । विर. ६५७ 'विप्रो वधाङ्गच्छेदार्हो निःसङ्गे बन्धने विशेत् । तदा कर्मवियुक्तोऽसौ वृत्तस्थस्य दमो हि सः ॥ कूटसाक्ष्यपि निर्वास्यो विख्याप्योऽसत्प्रतिग्रही । अङ्गच्छेदी वियोज्यः स्यात्स्वधर्मे बन्धनेन तु ॥ वधाङ्गच्छेदार्हो यस्मिन्नपराधे वधोऽङ्गच्छेदो वा इति तद्वान् विप्रः अत्र सदाचारनिष्ठः, निःसङ्गे क्रियायोगशून्ये, यभ्र बद्धः सन् स्वधर्मे कर्त्तुं न पारयति, स एव सदाचारस्य दमः यत् स्वधर्मवियोजनं नाम, विख्याप्यस्तेन रूपेण लोके प्रकाशनीयः । अङ्गच्छेदी परस्याङ्गच्छेत्ता । विर.६५७-६५८ कर्णौष्ठघ्राणपादाक्षिजिह्वाशिश्नकरस्य च । छेदने चोत्तमं दद्याद्भेदने मध्यमं भृगुः * ॥ ऐतैः समापराधानां तत्राप्येवं प्रकल्पयेत् । बालवृद्धातुरस्त्रीणां न दण्डस्ताडनं दमः ॥ समापराधानामङ्गान्तरच्छेदभेदकर्तॄणाम् । प्रमादकृतापराधविषयमेतत् । विर. ६५८ स्त्रीधनं दापयेद्दण्डं धार्मिकः पृथिवीपतिः । निर्धना प्राप्तदोषा स्त्री ताडनं दण्डमर्हति ॥ यदि धनवती स्त्री, तदा दोषे धनं दण्डः, अधनायास्तु ताडनमेवेत्यर्थः । विर.६५९ अन्यायार्जितं वित्तं वर्ज्यम् । दण्डधनं विप्रेभ्यो दद्यात् । न्यायोपार्जितं न्यस्तं कोषे कोषं निवेशयेत् । कार्यार्थे कार्यनाशः स्याद्बुद्धिमान्नोपपातयेत् ॥ दत्वा धनं तद्विप्रेभ्यः सर्व दण्डसमुत्थितम् । पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने ॥ एवं चरेत्सदा युक्तो राजा धर्मेषु पार्थिवः । *व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे द्रष्टव्यः । (१) विर. ६५७ विप्रो वधाङ्गच्छेदार्हो ( वधाङ्गच्छेदार्हविप्रो ) तदा (तद) वृत्तस्थ ( वृत्तस्त); दवि. ६६ विप्रो ... र्हो (वधाङ्गच्छेदार्हो विप्रो ) यु (मु); सेतु. ३१३ वृत्तस्थ (धृतस्त). (२) विर. ६५ ७; दवि. ६६ क्ष्य (क्ष्येs). (३) विर. ६५८६ दवि . ५९ उत्त २५६ पू. (४) विर. ६५९; दवि. ५९; सेतु. ३१४ स्त्री (स्त्री). (५) - विर. ६६३. व्यवहारकाण्डम् २ हितेषु चैव लोकस्य सर्वान् भृत्यान्नियोजयेत् ॥ उशना महापापेषु ब्राह्मणदण्डः ब्राह्मणस्यापराधेषु चतुर्ष्वङ्को विधीयते । गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने । इतरेषां तु वर्णानामङ्कनं नात्र कारयेत् ॥ व्यासः अल्पदण्डविषयः व्याधिना पीडितो यस्तु यः कश्चिदपि ताम्यति । नैतन्मया पुनः कार्यं ब्रूयात्तस्यार्धको दमः ॥ यमः राज्ञः सर्वे दण्ड्याः सर्वेषामेव वर्णानामन्योन्यस्यापराधिनाम् । शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥ ब्राह्मणस्य वधातिरिक्तो दण्ड: । महापापेषु ब्राह्मणदण्डः । पतितदण्डः परिषदि देयः । सर्वस्वदण्डे जीवनमवशेषणीयम् । जगत्सर्वमिदं हन्याद्ब्राह्मणस्य न तत्समम् । तस्मात्तस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥ अवध्यान् ब्राह्मणान्·प्राहुः सर्वपापेष्ववस्थितान् । यद्यद्विप्रेषु कुशलं तत्तद्राजा समाचरेत् ॥ ब्राह्मणस्यापराधेषु चतुर्ध्वेव विधीयते । शिरसो मुण्डनं दण्डं पुरान्निर्वासनं तथा ।। प्रख्यापनार्थं पापस्य प्रयाणं गर्दभेन तु । ललाटे चाङ्करणं कुर्याद्राजा यथाविधि ॥ (१) स्मृच. १२५; पमा. २१० (=) धेषु (घे तु) र्ध्व (ध्व); प्रका. ७९ धेषु (धे तु); समु. ६८. (२) स्मृच. १२६; पमा २११ पिताम्य ( ति नान्य ) पुन: ( कृतं); प्रका. ८०; समु. ६९. (३) विर.६३१ शा (श) दण्डं धर्म्य (धर्म्यं दण्डं ) मनुः; बाल. २।२६ : २८१ पू. (४) विर. ६३१ मनुः; बाल. २/२६; समु. ६८. (५) विर. ६३१ प्रा ( आ ) वस्थितान् (यं विधि :) पू., मनुः; बाल.२।२६; समु.६८ प्रा ( आ ) . (६) विर. ६३६ व (वं ); दवि. ४७; बाल . २ । २६; समु. ६८ ब (वं) दण्डं (दण्ड :). (७) विर.६३६ चाङ्क (वाक); दवि.४७; बाल. | २।२६ तु (च); समु.६८ तु (च) चाङ्क (चिह्न).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy