________________
व्यवहारकाण्डम्
६८२
- वरुणायेदमिति मनसा ध्यायन्नप्सु दद्यादप्सु निक्षिपेत् । ब्राह्मणाय वा विद्याशीलसंपन्नाय दद्यात् । मेधा 'ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥
पूर्वस्य प्रतिपत्तिविधेरर्थवादोऽयम् । महापातकिनां दण्डस्य वरुण ईष्टे । यतो राज्ञां स दण्डधरो नेता ईशितेति यावत् । एवं ब्राह्मणोऽपि तद्धनस्येशोऽनेन ग्राह्यः । मेधा. - येत्र वर्जयते राजा पापकृद्भयो धनागमम् । तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥ निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् । - बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥
प्रसिद्धाविमावप्यर्थवाद श्लोकौ । कालेन जायन्ते इति वर्तमानजन्म न विवक्षितं जाता जनिष्यमाणाश्च । विकृतिः करचरणाक्षिविहिनम् । मेधा.
युक्तदण्डप्रशंसा यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे । अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ॥
अवध्यवधे यो दोषस्तत्तुल्यो वध्यमोक्षणे राज्ञ उपर्युक्तस्य षड्भागहरस्य स्वकर्माकुर्वतः प्रत्यवायेन अवश्यमेव भवितव्यम् । कुर्वतस्तु न कदाचिददृष्टासिद्धिः । यस्त्वयं धर्मस्तु विनियच्छत इति एवमादिधर्मप्रवादः सर्वोऽसौ स्वकर्मानुष्ठानप्रशंसार्थोऽर्थवादः । राज्यनिग्राह्यसंस्कारार्थस्त्वयं वधोपदेशः । अतो यथाश्रुतिचित्र - वधोपायैः कर्तव्यः । दृष्टार्थेषु राज्यतन्त्रसिध्यर्थवधश्रवणं यथा हि साधनश्च (?) हन्यादित्युक्तम् । तत्र दृष्टप्रयोजन
(१) मस्मृ. ९।२४५; विर. ६३८ धरो (धनो) राशां (राज्ञो); विचि.१९० प्रथमपादः, गौतमः; दवि.४९; बाल. २ । ३० ७; सेतु. ३२ ७ ईशो दण्डस्य ( ईश: सर्वस्य); समु. १५८.
(२) मस्मृ. ९२४६; विर. ६३८ पापकृद्भूयो (ब्राह्मणेभ्यो); बाल. २ ३०७; सेतु. ३२७.
(३) मस्मृ. ९।२४७ ख पुस्तके कृतं (कृतिः) ; विर. ६३८ तानि विशां पृथक् (क्तानि विशाम्पते) न च जायते (जायते न च); बाल. २।३०७ प्तानि (तानि); सेतु . ३२७ तानि विशां पृथक् (क्तानि कृषीवलै:).
(४) मस्मृ: ९।२४९; विर. ६४९ बधे ता (वधे या) स्तुवि (श्चैव); -दवि. ६ स्तु वि (श्चैव); विव्य . २ ( अवध्यस्य वधे यावान् तावान् वध्यस्य रक्षणे ) पू.
१ पातकिनं.
त्वादुपदेशस्य न नियतो वधः । एवं च सत्युपायान्तरेमेधा. णापि बन्धनादिना नियच्छतो न दोषः । वाल्मीकि रामायणम् दण्डप्रयोजनम्
न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः । दुण्डादन्यत्र पश्यामि निग्रहं हरियूथप । देण्डये यः पातयेद्दण्डं दण्डयो यश्चापि दण्ड्यते । कार्यकारणसिद्धार्थौ उभौ तौ नावसीदतः ॥
याज्ञवल्क्यः
राजा दण्डधरः
स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥
(१) एवं यद् दैवपुरुषकाराभ्यां कथमपि प्राप्तुं शक्यं राज्यं प्राक्तनानेकविधपुण्यसमुदायादैहिकविचित्रगुणसंपद्योगाच्च धीमान् कृतविद्यः सत्यसंधश्च'तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत्' । कस्मात् । यस्मात् - धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा । तद् राज्यं राजा सुदुर्लभं लब्ध्वा निर्व्याजप्रसाधितसमग्रदण्डपातैश्चतुर्वर्गप्राप्तिलम्पटः प्रयत्नाद् दुर्विनीयमानानालोच्याविनीतेषु यथार्ह दण्डं पातयेत् । न चातिमृदुहृदयतया हृद्विलेखः । धर्म एवायं दण्डाभिधानो ब्रह्माण्डान्तर्वर्त्यखिलप्राणिसङ्घोपकारार्थं ब्रह्मणा वेदेन निर्मितो विहितः । पुरेत्यनादित्वेन निर्विचिकित्सानुष्ठानप्ररोचनार्थम् । तथा च गौतमः - ' ततः शेषेण विशिष्ट - देशजाती' त्युपक्रम्य 'विष्वञ्चो विपरीता नश्यन्ति । तानाचार्योपदेशो दण्डश्च पालयते । तस्माद् राजाचार्यावनिन्द्यावित्यादि । + आम्नायश्च – 'सह वा इदमभवत्' ।
* व्याख्यासंग्रहः राजनीतिकाण्डे द्रष्टव्यः । + अयमाम्नाय : (पृ. ५६६ ) इत्यत्र द्रष्टव्यः । (१) वारा. ४।१८।२१. (२) वारा.४।१८।६५. (३) यास्मृ. १।३५३; विश्व. १ ३४९ या (त्यो); मिता. ; अप. १ ३५१ च्या (त्यौ र्ग (र्गः ); सवि. ४६ त्या जनो (यजना); वीमि.
(४) यास्मृ. १।३५४; विश्व . १ ३५०; मिता; अप. १ । ३५२; सवि.४६ धर्मो हि दण्ड (दण्डो हि धर्म); वीमि.