________________
५७२
व्यवहारकाण्डम्
क्षत्रियादीनां दण्ड्यत्वम् । ब्राह्मणस्य प्रायश्चित्तीयत्वम् । सर्वत्र त्रयाणां वर्णानां धनहारकारावधबन्धाः क्रियासु चोपरोधो महत्स्वपि पातकेषु विवासोऽङ्ककरणं ब्राह्मणस्य प्रायश्चित्तानि वा शोधन - मपीडयो हि ब्राह्मणः ।
(१) तद्दरिद्रब्राह्मणविषयम् । स्मृच. १२४ (२) धनहारो दण्डः, कारा बन्धनगृह, उपरोधो धारणम् । प्रायश्चित्तपक्षे अङ्काकरणता अपीड्यता च । विर. ६३४
|
ब्राह्मणस्य विशेषार्हतास्थानानि
ईन्धनोदकाग्निकाष्ठतृणोपलपुष्पफलपर्णादानेष्वपचयं देवतीर्थाभिगमनं गृहकोष्ठप्रवेशनं पथि शस्त्रधारणमसंबद्धमासनं प्रस्तुतेष्वनिवारणं असद्वासश्चेति शिलोञ्छपदयोर्धान्यराशिग्रहणमग्रोत्सर्गप्रसववृद्धिकर्षापणशुल्कनदीतरेष्वनुपरोधनं परस्त्रीसंभाषणं राजस्त्रीदर्शनं राज्ञा समासनं व्यतिक्रमणं च कोपात्सर्वमर्हति ब्राह्मणः ।
इन्धनेत्यादि । आरण्यकेन्धनादिविषयं, देवोऽत्रान्यपरिगृहीतो देवालयः । एवं तीर्थमपि । गृहकोष्ठप्रवेशनं परस्येति शेषः । पथि देशान्तरगमने । असंबद्ध मासनं प्रयोजनं विना यत्रक्वचनावस्थानम् । प्रस्तुतेषु स्वकार्यार्थचेष्टितेषु अनिवारणं तन्मध्यगमनानिवारणम् । असद्वासः कार्यवशादसद्भिः सह वासः । चच्छेदोऽव्यया
(१) मिता. २८१ ( त्रयाणां वर्णानां धनापहारवधबन्धनक्रिया विवासनाङ्ककरणं ब्राह्मणस्य ) शंख: स्मृच. १२४ (त्रयाणामपि वर्णानां धनापहारवधबन्धक्रियाविवासनाङ्ककरणे ब्राह्मण) शंख; विर. ६३४१ पमा २०८ ( त्रयाणामपि वर्णानामपहारवधबन्धक्रिया विवासनं धिकरणं ब्राह्मणस्य ) शंख : ; दवि . ४८ ( सर्व ... रोधो ० ) सोऽङ्ककरणं (सनमङ्कनं); विता. ८६ ( त्रयाणां वर्णानां धनापहारवधबन्धक्रियानिर्वासाङ्ककरणे ब्राह्मणस्य) शंख: : १८७ (त्रयाणां वर्णानां धनापहारवधबन्धनं क्रियाः विवासनाङ्ककरणं ब्राह्मणस्य ) शंख:; बाल.२/२६ कारा ... रोधो ( को वधबन्धक्रियारूपयोगो) सोऽङ्क ( स ); प्रका. ७८ स्मृचवत्, शंखः; समु.६८ स्मृचवत्, शंखः .
(२) विर. ६६०; दवि.४३ दकाग्निकाष्ठ (दककाष्ठानि) पचयं दैव (ग्रावचयं देव) प्रस्तुतेष्व (प्रसृतेषु )श्चेति (श्वेत) त्सर्ग (त्सर्ग) कर्षा (का) (राशा समासनं ० ):
नामनेकार्थत्वात्समुच्चये । शिलोञ्छपदयोः शिलोच्छ इत्यात्मकवृत्तिभ्यां वर्तमानयोः शेषीभूतधान्य राशेर्ग्रहणम् । अग्रोत्सर्गमप्रत्यागपूर्वकमश्वस्तनविधिना ग्रहणम् । नान्ययेति पारिजाते अधिकम् । प्रसवः स्फुट एव, वृद्धिः कुसीदं कर्ष: कर्षणं, आपणः क्रयविक्रयव्यवहारः, नदीतरः नदीतरणार्थ देयं एतेषु यद्देयं तदप्रयच्छतोऽनुपरोधनमनाक्रमणं व्यतिक्रमणमाज्ञालङ्घनं च । लक्ष्मीधरेण तु नारदवाक्यानन्तरं प्रकरणभेदः कृतः । ब्राह्मणस्य परीहार इति वाक्यं पठितम् । विर. ६६१ दण्डप्रसङ्गे शिल्पिकारुशूद्राणां वृत्तिसाधनानि नाहार्याणि 'शिल्पिनः कारवः शूद्रास्तेषां व्यभिचारेष्वपि शिल्पोपकरणानि रक्षेत् । तुलामानप्रतिमानसमुत्थानि वणिक्पथानां, क्षेत्रबीजभक्तगोशकटकर्षणद्रव्याणि कर्षकाणां वाद्यभाण्डालङ्कारवासांसि रङ्गोपजीविनां, गृहशयनालङ्कारवासांसि वेश्यानां, शस्त्राणि चायुधोपजीविनां सर्वेषां कारणद्रव्याणि नाहार्याणि राज्ञा धार्मिकेण, अस्वा हि पुरुषाः पापबहुलाश्चाविधेयाश्च भवन्ति तेभ्यः पापांशभाग्राजा, तस्मान्नाधनान्नानुपकरणान् कुर्यात्तन्मूला हि वृत्ति र्भवति, वृत्तिमूलो निवासः, तैर्निवसद्भिः स्फीतं राष्ट्रमित्युच्यते ।
शिल्पिनश्चित्रलेखादिकर्त्तारः व्यभिचारेषु सर्वस्वापहारयोग्येषु अपराधेषु, तुलामानमूर्द्धं मानं, प्रतिमानं सुवर्णादितुलनोपकरणं प्रस्थादि, भक्तं कृषिसिद्धयर्थमन्नं, कर्षणद्रव्यं हलादि, वाद्यभाण्डं पटहादि, रङ्गोपजीविनां नृत्यवृत्तीनाम् । विर. ६५६
महाभारतम् दण्डप्रशंसा
राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च । ईश्वरेण प्रयत्नेन कारणात्क्षत्रियस्य च ॥ दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् । राज्ञां पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः ।
(१) विर ६५६; दवि. ६० ष्वपि (पु) मानसमुत्थानि ( मानानि ) कारणद्रव्याणि (कारुद्रव्याण्य) (भवति०) त्युच्यते (होच्यते); सेतु. ३१२ चायुधो (वायुधो) (भवति०).
(२) भा. १२।१२१।४७-४९,