SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ५६४ व्यवहारकाण्डम् हारीतः निवर्तनीया व्यवहाराः राज्ञा विवर्जितो यश्च स्वयं पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥ अन्ये वा ये पुरे ग्रामे महाजनविरोधकाः । अनादेयास्तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥ एवं चैवंविधव्यवहारं तीरितमप्यनुशिष्टमपि निवर्त्य ब्यवहारान्तरं कर्तव्यमिति तात्पर्यार्थोऽनुसंधेयः । स्मृच. १२८ (१) मिता. २।६ (= ) स्वयं (यश्च); स्मृच. १२८ यश्च (यस्तु); पमा २१५ स्मृचवत्; व्यचि ८ यश्च (यस्तु) स्वयं (यस्तु) नारदः; चन्द्र. १०४ स्वयं (यश्च ) स्तस्य ( ग्रस्य); डयम ७ श्च स्वयं (स्तु यश्च ) स्मृत्यन्तरम् ; विता. ५९ ( =) तो यश्च स्वयं (तं यच्च यच्च ); प्रका. ७०. (२) स्मृच. १२८; पमा. २१५ रे ग्रामे (नर्ग्राम); व्यचि. ८ वा (ऽपि रे ग्रामे (रग्राम) धकाः (धिन :); चन्द्र. १०४ बा (षां) पुरे ग्रामे (परग्रास ) धकाः (धिन :); व्यम. ७ रे ग्रामे (राम) स्मरणम् ; विता.५९ वा (ऽपि); प्रका. ७०. | दानार्थे वा धनार्थे वा धर्मार्थे वा विशेषतः । आदाने वा विसर्गे वा न स्त्री स्वातन्त्र्यमर्हति ॥ यमः श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् * ॥ बेलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम् । सर्वान्बलकृतानर्थान् निवर्त्यानाह वै मनुः ॥ स्मृत्यन्तरम् अनिवर्तनीयौ दानविक्रयौ गोभूहिरण्यरत्नानामात्मीयानां स्त्रियं विना । विक्रयाधिप्रदानं तु कृतं सिध्येन्नृभिः सदा ॥ * स्थलादिनिर्देशः दर्शनविधौ (पृ.१०६) द्रष्टव्यः । (१) व्यक. १०५ सर्गे (शुद्धे ); स्मृच. १३०; स्मृसा. १२५; पमा २१७ दाना... वा (दाने वाssधमने वाऽपि ); व्यचि. १०४; व्यसौ. ९४; व्यप्र. ९५; प्रका. ८२; समु. ७१. (२) स्मृच. १३०; पमा. २१६ यच्चापि (च्चापि वि); प्रका. ८३; समु.७१ दत्तं (द्वृत्तं). (३) समु. ७१.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy