SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ कृतनिवर्तनम् युक्तः परधनप्रसभलुण्टनसंबद्ध: अनुप्रवेशयुक्तः परधनस्वगृहानुप्रवेशन विषयः कलहयुक्तः वाक्पारुष्यादिसंबद्धः विवाहयुक्तः प्रसिद्धः राजनियोगयुक्तः राजनियोगो राजाज्ञाप्रयुक्तो नगररक्षाधिकृत व्यापारः तद्युक्तस्तत्संबद्धः इति पञ्चैते व्यवहाराः, पूर्वरात्रव्यवहारिणां च वेश्या - शौण्डिकादीनां च व्यवहाराः, रात्रिकृताः सिध्येयुः । श्रीमू. सार्थव्रजाश्रमव्याधचारणमध्ये ष्वरण्यचराणामरण्यकृताः सिध्येयुः । अरण्यकृतव्यवहारेष्वदुष्टानाह - - सार्थेत्यादि । साथ वणिक्सङ्घः व्रजा गोष्ठवृत्तयो गोपालाः आश्रमो वनकुटुम्बिनः व्याधाः किरातांः चारणाः लङ्घनप्लवनादिजीविन: इत्येषां मध्येषु, अरण्यचराणां वनचराणां व्यव हाराः, अरण्यक्कृताः सिध्येयुः । श्रीमू. गूढाजीविषु चोपधिकृताः सिध्येयुः । उपधिकृतव्यवहारानुपादेयानाह गूढाजीविषु चेति । कूटहिरण्यादिव्यवहारिषु च उपधिकृताः छलकृता व्यवहाराः सिध्येयुः । श्रीमू. : मिथः समवाये चोपह्वरकृताः सिध्येयुः । उपह्वरकृतव्यवहारान् उपादेयानाह - - मिथः समवाये चेति । रहः संप्रयोगे स्त्रीपुंसयोर्गान्धर्वविवाह निमित्ते . उपह्वरकृताः सिध्येयुः । श्रीमू . अतोऽन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दासाहितकाभ्याम्, अप्राप्तातीतव्यवहाराभ्याम्, अभिशस्तप्रत्रजितव्यङ्गव्यसनिभिश्चान्यत्र निसृष्टव्यवहारेभ्यः । अतोऽन्यथा न सिध्येयुरिति । उक्तातिरिक्तप्रकारा स्तिरोहितादयो नोपादेयाः । अपाश्रयवद्भिश्चेति । अपा श्रयवन्तः परतन्त्राः तैश्च, कृताः व्यवहाराः, न सिध्येयुः । परतन्त्रान् प्रपञ्चयति- पितृमता पुत्रेण पितरि व्यवहार निपुणे विद्यमाने पुत्रेण कृताः, पित्रा पुत्रवता पुत्र कुटुम्बभरणक्षमे विद्यमाने पित्रा निवृत्तव्यवहारेण कृताः निष्कुलेन भ्रात्रा कुलनिष्पतितेन भ्रात्रा कृताः, कनिष्टे नाबिभक्तांशेन कनिष्ठेन दायभागात् प्राक कृताः, पतित्या पुत्रवत्या च स्त्रिया भर्तरि पुत्रे च कुटुम्बभरण ―― ५५१ क्षमे विद्यमाने स्त्रिया कृताः, दासाहितकाभ्यां दासेन स्वाम्यधीनेन आहितकेन आधीकृतेन चाधिग्राहकाधीनेन कृताः, अप्राप्तातीतव्यवहाराभ्यां अप्राप्तव्यवहारेण ऊनषोडशवयस्केन अतीतव्यवहारेण अतिक्रान्तसप्ततिवयस्केन च कृताः, अभिशस्तादिभिश्चतुर्भिश्च अभिशस्तैर्महापातकदूषितैः प्रव्रजितैः संन्यासिभिः व्यङ्गैः मूकबधिरादिभिः व्यसनिभिः स्त्रीद्यूतपानासक्तैश्च कृताः । तत्रापवादमाह - अन्यत्र निसृष्टव्यवहारेभ्य इति । निसृष्टव्यवहारव्यतिरेकेण, ते चेत् पितृमत्पुत्रपुत्रवत्पित्रादयः प्रधानैरर्पितव्यवहाराधिकारास्तदा तत्कृता व्यवहाराः सिध्येयुरेवेत्यर्थः। श्रीमू. तत्रापि क्रुद्धेनार्तेन मत्तेनोन्मत्तनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः । कर्तृकारयितृश्रोतॄणां पृथक् यथोक्ता दण्डाः । निसृष्टव्यवहारेष्वपि तेषु विशेषमाह - तत्रापीति । निसृष्टव्यवहारेष्वपि मध्ये, क्रुद्धेन जिघांसुना, आर्तेन दुःखिना, मत्तेन हर्षवता, उन्मत्तेन विभ्रान्तचित्तेन, अवगृहीतेन वा दण्डितेन वा कृताः व्यवहाराः न सिध्येयुः । कर्तृकारयितृश्रोतॄणां पृथक् यथोक्ता दण्डा इति । ये प्रतिषिद्धान् व्यवहारान् कुर्वन्ति कारयन्ति शृण्वन्तश्च साक्षीभवन्ति तेषां प्रत्येकं यथाविहिताः दण्डा भवन्ति । श्रीमू. स्वे स्वे तु वर्गे देशे काले च स्वकरणकृताः संपूर्णचाराः शुद्धदेशा दृष्टरूपलक्षणप्रमाणगुणाः सर्वव्यवहाराः सिध्येयुः । सर्वापवादमाह - स्वे इति । स्वे स्वे वर्गे स्वकरण-कृताः स्वस्वजातौ स्वक्रियाक्रमकृताः, स्वे स्वे देशे अरण्यादौ अरण्यादिचरैः स्वकरणकृताः, स्वे स्वे काले च रात्रौ रात्रिव्यवहारिभिः दिवा दिवाव्यवहारिभिश्व स्वकरणकृताश्च, सर्वव्यवहाराः सिध्येयुः । संपूर्णचाराः राजमार्गों दिवा अर्थिप्रत्यर्थिसान्निध्य मित्येवमाद्यपेक्षितदेशकालादिसमुदाचारश्चारः, कचिदाचार इत्येव पाठः । स संपूर्णः अविकलनिर्वृत्तः येषु ते तथाभूताः, व्यवहाराः, शुद्धदेशाः दिशन्ति उपदिशन्ति स्वोपलब्धमर्थं प्राड्विवाकाय ज्ञापयन्तीति देशाः साक्षिणः ते शुद्धाः परोक्षत्वादिदोषरहिताः येषु ते तथाभताः दृष्टरूपलक्षणप्रमाणगुणाः
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy