________________
निर्णयकृत्यम्
तद्यत्र दुष्टाशयत्वस्यात्यन्तदाढर्याभावस्तद्विषयम् । प्राचीनवचनेष्विवात्र प्रतिवादिनः सर्वापलापलक्षणदौष्ट्यकथनांशाभावात् केचिदस्य वचनस्य पुत्रादिदेयपित्रादिऋणविषयत्वं वदन्ति तत्रैव नाभिजानामि इत्युत्तरत्रयस्य संभवादिति वदन्तः । तन्न समीचीनम् । स्वकृतऋणविवादेऽपि विस्मरणादिनोत्तरत्रयस्य संभवात् पुत्रादेः पित्रादिकृतऋणविवादे मिथ्यैतदिति उत्तरमुक्तवतो निह्नववादित्वेऽपि साधितमात्रज्ञानप्रसंगाच्च । अथ पुत्रादेर्मिथ्यैतदित्युत्तरं न संभवतीत्युच्यते । मैवं वोचः । ऋणग्रहणकाले प्रबुद्धस्याप्रबुद्धस्यापि मात्रादिवचनतस्तसंभवात् । अथ नाभिजानामीत्युत्तरमुक्तवति पुत्रादौ साधितमात्रलाभवचनमित्युच्यते । तर्हि नाभिजानामीत्युत्तरत्रयविषयकत्वं तस्य परिकल्प्यतां किं पुत्रादिविषयत्वेन | अथ - “पुत्रपौत्रैणं देयं निह्नवे साक्षिभावितम्' (यास्मृ. २।५० ) इति स्मरणात् पुत्रादिविषयत्वमित्युच्यते । तर्हि मिथ्यैतदित्युक्त पुत्रादिविषयत्वं न पुनः नाभिजानामीत्युक्तवत्पुत्रादिविषयत्वम् । 'निह्नवे साक्षिभावितम्' इति स्मरणात् । अन्ये त्वन्यथा व्यवस्थापयन्ति । सर्वार्थदापनवचनं 'प्रतिज्ञातार्थानां मध्ये यद्येकमप्यर्थमर्थी साधयति तदा सर्वानेतानर्थानहं ददामि' इत्येवं सावष्टम्भोक्तियुक्तनिह्नवविषयं तद्रहित - विषयं तु साधितमात्रलाभवचनमिति । एतदप्ययुक्तम्, 'निह्नुते लिखितं नैकम्' इत्यविशेषेणाभिधानात् । न च छलोदाहरणपरत्वादस्य वाक्यस्य, तत्सिद्धये सावष्टम्भनिह्नवविषयत्वमास्थीयत इति युक्तम् । सर्वापलापच्छलमादाय व्यवहारसमाप्त्यभिधानात् तावतैव वाक्यस्य छलोदाहरणपरत्वसिद्धेः । भाषाबलेनैवोक्तविषये सर्व दीपनात् अनुवादकं च निहुत इत्यादिवचनं तत्समानार्थवचनद्वयमपि स्यात् । न च, 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी' इत्यादि कात्यायनवचनपरिहारायैव माश्रीयत इति युक्तम् । तद्विरोधस्य ऋजुमार्गेण परिहृतत्वादिति अलमतिविस्तरकारिणा मतान्तरोपन्यासनिरासेन । * स्मृच. १२०-१२१
(५) इदं च भावितस्यैकदेशस्यैकदेशान्तराऽविनाभावे, एकदेशविभावनेऽपि सर्वे दास्यामीति व्यवस्था - * वाक्यार्थों मितावत् ।
५४१
विशेषे च । तत्राद्यं भूतार्थसंबद्धम् । द्वितीयं छलसंबद्धमिति । वीमि. (६) [अपरार्क खण्डयति] तदनुपपन्नम् । ‘सपणवेद्विवादः स्यात्' इत्यनेनास्य गतार्थतापत्तेः । ईदृशावष्टम्भस्य पणादनतिरेकात् । न च पणस्य राज्ञा ग्रहणस्य त्वर्थनेति भेद इति वाच्यम् । एतादृशभेदस्याप्रयोजकत्वात् । स्वपणं दापयेदित्येतावन्मात्रस्यैव तदर्थत्वात् । प्रतिज्ञानुरोधित्वात् पणत्वस्य । निह्नवमात्रस्यात्र प्रतीतेः सावष्टम्भनिह्नवविषयत्वकल्पनाया अ प्रामाणिकत्वाच्च । एवं नारदवाक्येऽपि । न च तत्र 'व्यपलापिना' इति विशब्दोपादानादवष्टम्भसहितनिह्नवप्रतीतिरिति वाच्यम् । अनन्यथासिद्धतात्पर्यग्राहकाभावे सावष्टम्भरूपविशेषपरत्वस्य तत्रानियतत्वात् ।
वाचस्पतिचण्डेश्वरौ त्वाहतुः — तत्रैकदेशसिद्धिरेकदेशान्तरसिद्धयविनाभूता । तद्विषयं योगीश्वरनारदयोर्वचनं तदतिरिक्तविषयं तु कात्यायनीयमिति ।
तदप्यसत् । निह्नवोपादानवैयर्थ्यात् । अनिह्नवेऽपि तस्य युक्तियुक्तत्वात् । प्रत्यवस्कन्दनप्राङ्न्यायोत्तरयोरप्येकदेशे कारणादिसाधने तद्विनाभूतैकदेशान्तरे कारणादिसिद्धेर्दुर्वारत्वात् ।
यत्तु वाचस्पतिना अपरार्कोक्तसपण विवादविषयत्वमस्याभ्युपेत्य तदाहेत्यादिना सपणश्चेदित्यादि तत्र योगीश्वरवच एव संवादितम् । तेन स्पष्टमेव गतार्थत्वं प्रदर्शितमिति महान् प्रमादः ।
वयं तु 'छलं निरस्य' इत्यस्य विधेर्हेतुरयं 'भूतमध्यनुपन्यस्तं' हत्युपोद्वलकः । यतो भूतं तत्त्वमप्यनुपन्यस्तं व्यवहारतो हीयते वादिप्रतिवादिभ्यामनुपन्यस्तं प्रमाणतोऽसाधिते हीयते हानिमाप्नोति व्यवहारतो व्यवहाररीत्येति तस्यार्थः । तदुपपादनं 'निह्नुते लिखितं नैकम्' इत्यादि । तस्याप्ययमर्थः । वादिनः कतिपयांशे सत्यवादिनोऽन्यांशेऽपि सत्यवादित्वसंभवात् प्रतिवादि - नश्च सर्वापह्नववादिनः कतिपयांशे मिथ्यावादित्वनिश्वयादन्यांशेऽपि तत्संभवात् स सर्वमर्थं नृपेणार्थिने दाप्यो दापयितुं योग्यो भवति निरुत्तरत्वात् । एवं प्रागनिवेदितोऽर्थिनार्थो भूतोऽपि प्रामाणिकोऽपि न ग्राह्यः ग्रहणार्हो न । यदि तवायमर्थः सत्यः स्याद्भाषायामेव